शुश्राव च वचः तेषाम् बृन्दम् बृन्दम् च तिष्ठताम् । हताः स्म खलु ये न इह पश्यामैति राघवम् ॥२-५७-
दान यज्ञ विवाहेषु समाजेषु महत्सु च । न द्रक्ष्यामः पुनर् जातु धार्मिकम् रामम् अन्तरा ॥२-५७-
किम् समर्थम् जनस्य अस्य किम् प्रियम् किम् सुख आवहम् । इति रामेण नगरम् पितृवत् परिपालितम् ॥२-५७-
वात अयन गतानाम् च स्त्रीणाम् अन्वन्तर आपणम् । राम शोक अभितप्तानाम् शुश्राव परिदेवनम् ॥२-५७-
स राज मार्ग मध्येन सुमन्त्रः पिहित आननः । यत्र राजा दशरथः तत् एव उपययौ गृहम् ॥२-५७-
सो अवतीर्य रथात् शीघ्रम् राज वेश्म प्रविश्य च । कक्ष्याः सप्त अभिचक्राम महा जन समाकुलाः ॥२-५७-
हर्म्यैर्विमानैः प्रासादैरवेक्ष्याथ समागतम् । हाहाकारकृता नार्यो रामदर्शनकर्शिताः ॥२-५७-
आयतैर्विमलैर्नेत्रैरश्रुवेगपरिप्लुतैः । अन्योन्यमभिवीक्षन्तेऽव्यक्तमार्ततराः स्त्रीयः ॥२-५७-
ततः दशरथ स्त्रीणाम् प्रासादेभ्यः ततः ततः । राम शोक अभितप्तानाम् मन्दम् शुश्राव जल्पितम् ॥२-५७-
सह रामेण निर्यातः विना रामम् इह आगतः । सूतः किम् नाम कौसल्याम् शोचन्तीम् प्रति वक्ष्यति ॥२-५७-
यथा च मन्ये दुर्जीवम् एवम् न सुकरम् ध्रुवम् । आच्चिद्य पुत्रे निर्याते कौसल्या यत्र जीवति ॥२-५७-
सत्य रूपम् तु तत् वाक्यम् राज्ञः स्त्रीणाम् निशामयन् । प्रदीप्तम् इव शोकेन विवेश सहसा गृहम् ॥२-५७-
स प्रविश्य अष्टमीम् कक्ष्याम् राजानम् दीनम् आतुलम् । पुत्र शोक परिम्लानम् अपश्यत् पाण्डुरे गृहे ॥२-५७-
अभिगम्य तम् आसीनम् नर इन्द्रम् अभिवाद्य च । सुमन्त्रः राम वचनम् यथा उक्तम् प्रत्यवेदयत् ॥२-५७-
स तूष्णीम् एव तत् श्रुत्वा राजा विभ्रान्त चेतनः । मूर्चितः न्यपतत् भूमौ राम शोक अभिपीडितः ॥२-५७-
ततः अन्तः पुरम् आविद्धम् मूर्चिते पृथिवी पतौ । उद्धृत्य बाहू चुक्रोश नृपतौ पतिते क्षितौ ॥२-५७-
सुमित्रया तु सहिता कौसल्या पतितम् पतिम् । उत्थापयाम् आस तदा वचनम् च इदम् अब्रवीत् ॥२-५७-
इमम् तस्य महा भाग दूतम् दुष्कर कारिणः । वन वासात् अनुप्राप्तम् कस्मान् न प्रतिभाषसे ॥२-५७-
अद्य इमम् अनयम् कृत्वा व्यपत्रपसि राघव । उत्तिष्ठ सुकृतम् ते अस्तु शोके न स्यात् सहायता ॥२-५७-
देव यस्या भयात् रामम् न अनुपृच्चसि सारथिम् । न इह तिष्ठति कैकेयी विश्रब्धम् प्रतिभाष्यताम् ॥२-५७-
सा तथा उक्त्वा महा राजम् कौसल्या शोक लालसा । धरण्याम् निपपात आशु बाष्प विप्लुत भाषिणी ॥२-५७-
एवम् विलपतीम् दृष्ट्वा कौसल्याम् पतिताम् भुवि । पतिम् च अवेक्ष्य ताः सर्वाः सुस्वरम् रुरुदुः स्त्रियः ॥२-५७-
ततः तम् अन्तः पुर नादम् उत्थितम् । समीक्ष्य वृद्धाः तरुणाः च मानवाः । स्त्रियः च सर्वा रुरुदुः समन्ततः । पुरम् तदा आसीत् पुनर् एव सम्कुलम् ॥२-५७-
thumb|अष्टपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टपञ्चाशः सर्गः ॥२-
प्रत्याश्वस्तः यदा राजा मोहात् प्रत्यागतः पुनः । थाजुहाव तम् सूतम् राम वृत्त अन्त कारणात् ॥२-५८-
तदा सूतो महाराज कृताञ्जलिरुपस्थितः। राममेव अनुशोचन्तं दुःखशोकसमन्वितम् ॥२-५८-
वृद्धम् परम सम्तप्तम् नव ग्रहम् इव द्विपम् । विनिःश्वसन्तम् ध्यायन्तम् अस्वस्थम् इव कुन्जरम् ॥२-५८-
राजा तु रजसा सूतम् ध्वस्त अङ्गम् समुपस्थितम् । अश्रु पूर्ण मुखम् दीनम् उवाच परम आर्तवत् ॥२-५८-
क्व नु वत्स्यति धर्म आत्मा वृक्ष मूलम् उपाश्रितः । सो अत्यन्त सुखितः सूत किम् अशिष्यति राघवः ॥२-५८-
दुःखस्यानुचितो दुःखम् सुमन्त्र शयनोचितः । भूमि पाल आत्मजो भूमौ शेते कथम् अनाथवत् ॥२-५८-