वैश्वदेवबलिम् कृत्वा रौद्रम् वैष्णवमेव च । वास्तुसम्शमनीयानि मङ्गLआनि प्रवर्तयन् ॥२-५६-
जपम् च न्यायतः कृत्वा स्नात्वा नद्याम् यथाविधि । पाप सम्शमनम् रामः चकार बलिम् उत्तमम् ॥२-५६-
वेदिस्थलविधानानि चैत्यान्यायतनानि च । आश्रमस्यानुरूपाणि स्थापयामास राघवः ॥२-५६-
वन्यैर्माल्यैः फलैर्मूलैः पक्वैर्माम्सैर्यथाविधि । अद्भर्जपैश्च वेदोक्तै र्धर्भैश्च ससमित्कुशैः ॥२-५६-
तौ तर्पयित्वा भूतानि राघवौ सह सीतया । तदा विविशतुः शालाम् सुशुभाम् शुभलक्षणौ ॥२-५६-
ताम् वृक्ष पर्णच् चदनाम् मनोज्ञाम् । यथा प्रदेशम् सुकृताम् निवाताम् । वासाय सर्वे विविशुः समेताः । सभाम् यथा देव गणाः सुधर्माम् ॥२-५६-
अनेक नाना मृग पक्षि सम्कुले । विचित्र पुष्प स्तबलैः द्रुमैः युते । वन उत्तमे व्याल मृग अनुनादिते । तथा विजह्रुः सुसुखम् जित इन्द्रियाः ॥२-५६-
सुरम्यम् आसाद्य तु चित्र कूटम् । नदीम् च ताम् माल्यवतीम् सुतीर्थाम् । ननन्द हृष्टः मृग पक्षि जुष्टाम् । जहौ च दुह्खम् पुर विप्रवासात् ॥२-५६-
thumb|सप्तपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तपञ्चाशः सर्गः ॥२-
कथयित्वा सुदुह्ख आर्तः सुमन्त्रेण चिरम् सह । रामे दक्षिण कूलस्थे जगाम स्व गृहम् गुहः ॥२-५७-
भरद्वाजाभिगमनम् प्रयागे च सहासनम् । आगिरेर्गमनम् तेषाम् तत्रस्थैरभिलक्षितम् ॥२-५७-
अनुज्ञातः सुमन्त्रः अथ योजयित्वा हय उत्तमान् । अयोध्याम् एव नगरीम् प्रययौ गाढ दुर्मनाः ॥२-५७-
स वनानि सुगन्धीनि सरितः च सराम्सि च । पश्यन्न् अतिययौ शीघ्रम् ग्रामाणि नगराणि च ॥२-५७-
ततः साय अह्न समये तृतीये अहनि सारथिः । अयोध्याम् समनुप्राप्य निरानन्दाम् ददर्श ह ॥२-५७-
स शून्याम् इव निह्शब्दाम् दृष्ट्वा परम दुर्मनाः । सुमन्त्रः चिन्तयाम् आस शोक वेग समाहतः ॥२-५७-
कच्चिन् न सगजा साश्वा सजना सजन अधिपा । राम सम्ताप दुह्खेन दग्धा शोक अग्निना पुरी ॥२-५७-
इति चिन्ता परः सूतः वाजिभिः श्रीघ्रपातिभिः । नगरद्वारमासाद्य त्वरितः प्रविवेश ह ॥२-५७-
सुमन्त्रम् अभियान्तम् तम् शतशो अथ सहस्रशः । क्व रामैति पृच्चन्तः सूतम् अभ्यद्रवन् नराः ॥२-५७-
तेषाम् शशम्स गङ्गायाम् अहम् आपृच्च्य राघवम् । अनुज्ञातः निवृत्तः अस्मि धार्मिकेण महात्मना ॥२-५७-
ते तीर्णाइति विज्ञाय बाष्प पूर्ण मुखा जनाः । अहो धिग् इति निश्श्वस्य हा राम इति च चुक्रुशुः ॥२-५७-
शुश्राव च वचः तेषाम् बृन्दम् बृन्दम् च तिष्ठताम् । हताः स्म खलु ये न इह पश्यामैति राघवम् ॥२-५७-
दान यज्ञ विवाहेषु समाजेषु महत्सु च । न द्रक्ष्यामः पुनर् जातु धार्मिकम् रामम् अन्तरा ॥२-५७-
किम् समर्थम् जनस्य अस्य किम् प्रियम् किम् सुख आवहम् । इति रामेण नगरम् पितृवत् परिपालितम् ॥२-५७-
वात अयन गतानाम् च स्त्रीणाम् अन्वन्तर आपणम् । राम शोक अभितप्तानाम् शुश्राव परिदेवनम् ॥२-५७-
स राज मार्ग मध्येन सुमन्त्रः पिहित आननः । यत्र राजा दशरथः तत् एव उपययौ गृहम् ॥२-५७-
सो अवतीर्य रथात् शीघ्रम् राज वेश्म प्रविश्य च । कक्ष्याः सप्त अभिचक्राम महा जन समाकुलाः ॥२-५७-
हर्म्यैर्विमानैः प्रासादैरवेक्ष्याथ समागतम् । हाहाकारकृता नार्यो रामदर्शनकर्शिताः ॥२-५७-
आयतैर्विमलैर्नेत्रैरश्रुवेगपरिप्लुतैः । अन्योन्यमभिवीक्षन्तेऽव्यक्तमार्ततराः स्त्रीयः ॥२-५७-
ततः दशरथ स्त्रीणाम् प्रासादेभ्यः ततः ततः । राम शोक अभितप्तानाम् मन्दम् शुश्राव जल्पितम् ॥२-५७-
सह रामेण निर्यातः विना रामम् इह आगतः । सूतः किम् नाम कौसल्याम् शोचन्तीम् प्रति वक्ष्यति ॥२-५७-