समभूमितले रम्ये द्रुमैर्बहुभिरावृते । पुण्ये रम्स्यामहे तात चित्रकूटस्य कानने ॥२-५६-
ततः तौ पाद चारेण गच्चन्तौ सह सीतया । रम्यम् आसेदतुः शैलम् चित्र कूटम् मनो रमम् ॥२-५६-
तम् तु पर्वतम् आसाद्य नाना पक्षि गण आयुतम् । बहुमूलफलम् रम्यम् सम्पन्नम् सरसोदकम् ॥२-५६-
मनोज्Jनोऽयम् तिरिः सौम्य नानाद्रुमलतायतह् । बहुमूलफलो रम्यः स्वाजीवः प्रतिभाति मे ॥२-५६-
मनयश्च महात्मानो वसन्त्य शिलोच्चये । अयम् वासो भवेत् तावद् अत्र सौम्य रमेमहि ॥२-५६-
इति सीता च रामश्च लक्ष्मणश्च कृताञ्जलिः । अभिगम्याश्रमम् सर्वे वाल्मीकि मभिवादयन् ॥२-५६-
तान्महर्षिः प्रमुदितः पूजयामास धर्मवित् । आस्यतामिति चोवाच स्वागतम् तु निवेद्य च ॥२-५६-
ततोऽब्रवीन्महाबाहुर्लकमणम् लक्ष्मणाग्रजः । सम्निवेद्य यथान्याय मात्मानमृष्ये प्रभुः ॥२-५६-
लक्ष्मण आनय दारूणि दृढानि च वराणि च । कुरुष्व आवसथम् सौम्य वासे मे अभिरतम् मनः ॥२-५६-
तस्य तत् वचनम् श्रुत्वा सौमित्रिर् विविधान् द्रुमान् । आजहार ततः चक्रे पर्ण शालाम् अरिम् दम ॥२-५६-
ताम् निष्ठताम् बद्धकटाम् दृष्ट्वा रमः सुदर्शनाम् । शुश्रूषमाणम् एक अग्रम् इदम् वचनम् अब्रवीत् ॥२-५६-
ऐणेयम् माम्सम् आहृत्य शालाम् यक्ष्यामहे वयम् । कर्त्व्यम् वास्तुशमनम् सौमित्रे चिरजीवभिः ॥२-५६-
मृगम् हत्वाऽऽनय क्षिप्रम् लक्ष्मणेह शुभेक्षणकर्तव्यः शास्त्रदृष्टो हि विधिर्दर्ममनुस्मर ॥२-५६-
भ्रातुर्वचन माज्ञाय लक्ष्मणः परवीरहा । चकार स यथोक्तम् च तम् रामः पुनरब्रवीत् ॥२-५६-
इणेयम् श्रपयस्वैतच्च्चालाम् यक्ष्यमहे वयम् । त्वरसौम्य मुहूर्तोऽयम् ध्रुवश्च दिवसोऽप्ययम् ॥२-५६-
स लक्ष्मणः कृष्ण मृगम् हत्वा मेध्यम् पतापवान् । अथ चिक्षेप सौमित्रिः समिद्धे जात वेदसि ॥२-५६-
तम् तु पक्वम् समाज्ञाय निष्टप्तम् चिन्न शोणितम् । लक्ष्मणः पुरुष व्याघ्रम् अथ राघवम् अब्रवीत् ॥२-५६-
अयम् कृष्णः समाप्त अन्गः शृतः कृष्ण मृगो यथा । देवता देव सम्काश यजस्व कुशलो हि असि ॥२-५६-
रामः स्नात्वा तु नियतः गुणवान् जप्य कोविदः । सम्ग्रहेणाकरोत्सर्वान् मन्त्रान् सत्रावसानिकान् ॥२-५६-
इष्ट्वा देवगणान् सर्वान् विवेशावसथम् शुचिः । बभूव च मनोह्लादो रामस्यामिततेजसः ॥२-५६-
वैश्वदेवबलिम् कृत्वा रौद्रम् वैष्णवमेव च । वास्तुसम्शमनीयानि मङ्गLआनि प्रवर्तयन् ॥२-५६-
जपम् च न्यायतः कृत्वा स्नात्वा नद्याम् यथाविधि । पाप सम्शमनम् रामः चकार बलिम् उत्तमम् ॥२-५६-
वेदिस्थलविधानानि चैत्यान्यायतनानि च । आश्रमस्यानुरूपाणि स्थापयामास राघवः ॥२-५६-
वन्यैर्माल्यैः फलैर्मूलैः पक्वैर्माम्सैर्यथाविधि । अद्भर्जपैश्च वेदोक्तै र्धर्भैश्च ससमित्कुशैः ॥२-५६-
तौ तर्पयित्वा भूतानि राघवौ सह सीतया । तदा विविशतुः शालाम् सुशुभाम् शुभलक्षणौ ॥२-५६-
ताम् वृक्ष पर्णच् चदनाम् मनोज्ञाम् । यथा प्रदेशम् सुकृताम् निवाताम् । वासाय सर्वे विविशुः समेताः । सभाम् यथा देव गणाः सुधर्माम् ॥२-५६-
अनेक नाना मृग पक्षि सम्कुले । विचित्र पुष्प स्तबलैः द्रुमैः युते । वन उत्तमे व्याल मृग अनुनादिते । तथा विजह्रुः सुसुखम् जित इन्द्रियाः ॥२-५६-
सुरम्यम् आसाद्य तु चित्र कूटम् । नदीम् च ताम् माल्यवतीम् सुतीर्थाम् । ननन्द हृष्टः मृग पक्षि जुष्टाम् । जहौ च दुह्खम् पुर विप्रवासात् ॥२-५६-
thumb|सप्तपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तपञ्चाशः सर्गः ॥२-
कथयित्वा सुदुह्ख आर्तः सुमन्त्रेण चिरम् सह । रामे दक्षिण कूलस्थे जगाम स्व गृहम् गुहः ॥२-५७-