अथ रात्र्याम् व्यतीतायाम् अवसुप्तम् अनन्तरम् । प्रबोधयाम् आस शनैः लक्ष्मणम् रघु नन्दनः ॥२-५६-
सौमित्रे शृणु वन्यानाम् वल्गु व्याहरताम् स्वनम् । सम्प्रतिष्ठामहे कालः प्रस्थानस्य परम् तप ॥२-५६-
स सुप्तः समये भ्रात्रा लक्ष्मणः प्रतिबोधितः । जहौ निद्राम् च तन्द्रीम् च प्रसक्तम् च पथि श्रमम् ॥२-५६-
ततौत्थाय ते सर्वे स्पृष्ट्वा नद्याः शिवम् जलम् । पन्थानम् ऋषिणा उद्दिष्टम् चित्र कूटस्य तम् ययुः ॥२-५६-
ततः सम्प्रस्थितः काले रामः सौमित्रिणा सह । सीताम् कमल पत्र अक्षीम् इदम् वचनम् अब्रवीत् ॥२-५६-
आदीप्तान् इव वैदेहि सर्वतः पुष्पितान् नगान् । स्वैः पुष्पैः किम्शुकान् पश्य मालिनः शिशिर अत्यये ॥२-५६-
पश्य भल्लातकान् फुल्लान् नरैः अनुपसेवितान् । फल पत्रैः अवनतान् नूनम् शक्ष्यामि जीवितुम् ॥२-५६-
पश्य द्रोण प्रमाणानि लम्बमानानि लक्ष्मण । मधूनि मधु कारीभिः सम्भृतानि नगे नगे ॥२-५६-
एष क्रोशति नत्यूहः तम् शिखी प्रतिकूजति । रमणीये वन उद्देशे पुष्प सम्स्तर सम्कटे ॥२-५६-
मातम्ग यूथ अनुसृतम् पक्षि सम्घ अनुनादितम् । चित्र कूटम् इमम् पश्य प्रवृद्ध शिखरम् गिरिम् ॥२-५६-
समभूमितले रम्ये द्रुमैर्बहुभिरावृते । पुण्ये रम्स्यामहे तात चित्रकूटस्य कानने ॥२-५६-
ततः तौ पाद चारेण गच्चन्तौ सह सीतया । रम्यम् आसेदतुः शैलम् चित्र कूटम् मनो रमम् ॥२-५६-
तम् तु पर्वतम् आसाद्य नाना पक्षि गण आयुतम् । बहुमूलफलम् रम्यम् सम्पन्नम् सरसोदकम् ॥२-५६-
मनोज्Jनोऽयम् तिरिः सौम्य नानाद्रुमलतायतह् । बहुमूलफलो रम्यः स्वाजीवः प्रतिभाति मे ॥२-५६-
मनयश्च महात्मानो वसन्त्य शिलोच्चये । अयम् वासो भवेत् तावद् अत्र सौम्य रमेमहि ॥२-५६-
इति सीता च रामश्च लक्ष्मणश्च कृताञ्जलिः । अभिगम्याश्रमम् सर्वे वाल्मीकि मभिवादयन् ॥२-५६-
तान्महर्षिः प्रमुदितः पूजयामास धर्मवित् । आस्यतामिति चोवाच स्वागतम् तु निवेद्य च ॥२-५६-
ततोऽब्रवीन्महाबाहुर्लकमणम् लक्ष्मणाग्रजः । सम्निवेद्य यथान्याय मात्मानमृष्ये प्रभुः ॥२-५६-
लक्ष्मण आनय दारूणि दृढानि च वराणि च । कुरुष्व आवसथम् सौम्य वासे मे अभिरतम् मनः ॥२-५६-
तस्य तत् वचनम् श्रुत्वा सौमित्रिर् विविधान् द्रुमान् । आजहार ततः चक्रे पर्ण शालाम् अरिम् दम ॥२-५६-
ताम् निष्ठताम् बद्धकटाम् दृष्ट्वा रमः सुदर्शनाम् । शुश्रूषमाणम् एक अग्रम् इदम् वचनम् अब्रवीत् ॥२-५६-
ऐणेयम् माम्सम् आहृत्य शालाम् यक्ष्यामहे वयम् । कर्त्व्यम् वास्तुशमनम् सौमित्रे चिरजीवभिः ॥२-५६-
मृगम् हत्वाऽऽनय क्षिप्रम् लक्ष्मणेह शुभेक्षणकर्तव्यः शास्त्रदृष्टो हि विधिर्दर्ममनुस्मर ॥२-५६-
भ्रातुर्वचन माज्ञाय लक्ष्मणः परवीरहा । चकार स यथोक्तम् च तम् रामः पुनरब्रवीत् ॥२-५६-
इणेयम् श्रपयस्वैतच्च्चालाम् यक्ष्यमहे वयम् । त्वरसौम्य मुहूर्तोऽयम् ध्रुवश्च दिवसोऽप्ययम् ॥२-५६-
स लक्ष्मणः कृष्ण मृगम् हत्वा मेध्यम् पतापवान् । अथ चिक्षेप सौमित्रिः समिद्धे जात वेदसि ॥२-५६-
तम् तु पक्वम् समाज्ञाय निष्टप्तम् चिन्न शोणितम् । लक्ष्मणः पुरुष व्याघ्रम् अथ राघवम् अब्रवीत् ॥२-५६-
अयम् कृष्णः समाप्त अन्गः शृतः कृष्ण मृगो यथा । देवता देव सम्काश यजस्व कुशलो हि असि ॥२-५६-
रामः स्नात्वा तु नियतः गुणवान् जप्य कोविदः । सम्ग्रहेणाकरोत्सर्वान् मन्त्रान् सत्रावसानिकान् ॥२-५६-
इष्ट्वा देवगणान् सर्वान् विवेशावसथम् शुचिः । बभूव च मनोह्लादो रामस्यामिततेजसः ॥२-५६-