तत्र यूयम् प्लवम् कृत्वा तरतांशुमतीं नदीम् । ततो न्यग्रोधमासाद्य महान्तम् हरितच्छदम् ॥२-५५-
विवृद्धम् बहुभिर्वऋक्षैह् श्यामम् सिद्धोपसेवितम् । तस्मै सीताञ्जलिम् कृत्वा प्रयुञ्जीताशिषः शिवाः ॥२-५५-
समासाद्य तु तम् वृक्षम् वसेद्वातिक्रमेत वा । क्रोशमात्रम् ततो गत्वा नीलम् द्रक्ष्यथ काननम् ॥२-५५-
पलाशबदरीमिश्रम् रम्यम् वम्शैश्च यामुनैः । स पन्थाश्चित्रकूटस्य गतः सुबहुशो मया ॥२-५५-
रम्ये मार्दवयुक्तश्च वनदावैर्विपर्जितः । इति पन्थानमावेद्य महर्षः स न्यवर्तत ॥२-५५-
अभिवाद्य तथेत्युक्त्वा रामेण विनिवर्तितः । उपावृत्ते मुनौ तस्मिन् रामो लक्ष्मणमब्रवीत् ॥२-५५-
कृतपुण्याः स्म सौमित्रे मुनिर्यन्नोऽनुकम्पते । इति तौ पुरुषव्याघ्रौ मन्त्रयित्वा मनस्विनौ ॥२-५५-
सीतामेवाग्रतः कृत्वा काLइन्दीम् जग्मतुर्नदीम् । अथा साद्य तु काLइन्दीम् शीघ्रस्रोतोवहाम् नदीम् ॥२-५५-
तौ काष्ठसम्घातमथो चक्रतुस्तु महाप्लवम् ॥२-५५-
शुष्कैर्वम्शैः समास्तीर्णमुLईरैश्च समावृतम् । ततो वेतसशाखाश्च जम्बूशाखाश्च वीर्यवान् ॥२-५५-
चकार लक्ष्मणश्छित्वा सीतायाः सुखमासनम् । तत्र श्रियमिवाचिन्त्याम् रामो दाशरथिः प्रियाम् ॥२-५५-
ईष्त्सन्कह्हनाबान् तानग्तारिओअतत् प्लवम् । पार्श्वे च तत्र वैदेह्या वसने चूष्णानि च ॥२-५५-
प्लवे कठिनकाजम् च रामश्चक्रे सहायुधैः । आरोप्य प्रथमम् सीताम् सम्घाटम् प्रतिगृह्य तौ ॥२-५५-
ततः प्रतेरतुर्य त्तौ वीरौ दशरथात्मजौ । काLइन्दीमध्यमायाता सीता त्वेनामवन्दत ॥२-५५-
स्वस्ति देवि तरामि त्वाम् पार्येन्मे पतिर्वतम् । यक्ष्ये त्वाम् गोनहस्रेण सुराघटशतेन च ॥२-५५-
स्वस्ति प्रत्यागते रामे पुरीमिक्ष्वाकुपालिताम् । काLइन्दीमथ सीता तु याचमाना कृताञ्जलिः ॥२-५५-
तीरमेवाभिसम्प्राप्ता दक्षिणम् वरवर्णिनी । ततः प्लवेनाम्शुमतीम् शीघ्रगामूर्मिमालिनीम् ॥२-५५-
तीरजैर्बहुभिर्वृक्षैः सम्तेरुर्यमुनाम् नदीम् । ते तीर्णाः प्लवमुत्सृज्य प्रस्थाय यमुनावनात् ॥२-५५-
श्यामम् न्यग्रोधमासेदुः शीतलम् हरितच्छदम् । न्य्ग्रोधम् तमुपागम्य वैदेहि वाक्यमब्रवीत् ॥२-५५-
नमस्तेऽन्तु महावृक्ष पारयेन्मे पतिर्वतम् । कौसल्याम् चैव पश्येयम् सुमित्राम् च यशस्विनीम् ॥२-५५-
इति सीताञ्जलिम् कृत्वा पर्यगच्छद्वनस्पतिम् । अवलोक्य ततः सीतामायाचन्तीमनिन्दिताम् ॥२-५५-
दयिताम् च विधेयम् च रामो लक्ष्मणमब्रवीत् । सीतामादाय गच्छ त्वमग्रतो भरतानुज ॥२-५५-
पृष्ठतोऽहम् गमिष्यामि सायुधो द्विपदाम् वर । यद्यत्फलम् प्रार्थयते पुष्पम् वा जनकात्मजा ॥२-५५-
तत्तत्प्रदद्या वैदेह्या यत्रास्य रमते मनः । गच्चतोस्तु तयोर्मध्ये बभूव जनकात्मजा ॥२-५५-
मातङ्गयोर्मद्यगता शुभा नागवधूरिव । एकैकम् पादपम् गुल्मम् लताम् वा पुष्पशालिनीम् ॥२-५५-
अदृष्टपूर्वाम् पश्यन्ती रामम् पप्रच्छ साऽबला । रमणीयान् बहुविधान् पादपान् कुसुमोत्कटान् ॥२-५५-
सीतावचनसम्रब्द अनयामास लक्स्मणः । विचित्रवालुकजलाम् हससारसनादिताम् ॥२-५५-
रेमे जनकराजस्य तदा प्रेक्ष्य सुता नदीम् । क्रोशमात्रम् ततो गत्वा भ्रातरौ रामलक्ष्मनौ ॥२-५५-
बहून्मेध्यान् मृगान् हत्वा चेरतुर्यमुनावने । विहृत्य ते बर्हिणपूगनादिते । शुभे वने वानरवारणायुते । समम् नदीवप्रमुपेत्य सम्मतम् । निवासमाजग्मु रदीनदर्शनाः ॥२-५५-
thumb|षट्पञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षट्पञ्चाशः सर्गः ॥२-