मयूरनादाभिरुतो गजराजनिषेवितः । गम्यताम् भवता शैलश्चित्रकूटः स विश्रुतः ॥२-५४-
पुण्यश्च रमणीयश्च बहुमूलफलायुतः । तत्र कुन्जर यूथानि मृग यूथानि च अभितः ॥२-५४-
विचरन्ति वन अन्तेषु तानि द्रक्ष्यसि राघव । सरित्प्रस्रवणप्रस्थान् दरीकन्धरनिर्घरान् ॥२-५४-
चरतः सीतया सार्धम् नन्दिष्यति मनस्तव । प्रहृष्ट कोयष्टिक कोकिल स्वनैः । र्विनादितम् तम् वसुधा धरम् शिवम् । मृगैः च मत्तैः बहुभिः च कुन्जरैः । सुरम्यम् आसाद्य समावस आश्रमम् ॥२-५४-
thumb|पञ्चपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चपञ्चाशः सर्गः ॥२-
उषित्वा रजनीम् तत्र राजपुत्रावरिम्दमौ । महर्षिमभिवाद्याथ जग्मतुस्तम् गिरिम् प्रति ॥२-५५-
तेषाम् चैव स्वस्त्ययनम् महर्षिः स चकार ह । प्रस्थिताम्श्चैव तान् प्रेक्ष्यपिता पुत्रानिवान्वगात् ॥२-५५-
ततः प्रचक्रमे वक्तुम् वचनम् स महामुनिः । भर्द्वाजो महातेजा रामम् सत्यपराक्रमम् ॥२-५५-
गङ्गायमुनयोः सन्धिमासाद्य मनुजर्षभौ । कालिन्दीमनुगच्छेताम् नदीम् पश्चान्मुखाश्रिताम् ॥२-५५-
अथासाद्य तु कालिन्दीं शीघ्रस्रोतसमापगाम् (प्रतिस्रोतःसमागताम् - पा.भे.) । तस्यास्तीर्थम् प्रचरितम् पुराणम् प्रेक्ष्य राघवौ ॥२-५५-
तत्र यूयम् प्लवम् कृत्वा तरतांशुमतीं नदीम् । ततो न्यग्रोधमासाद्य महान्तम् हरितच्छदम् ॥२-५५-
विवृद्धम् बहुभिर्वऋक्षैह् श्यामम् सिद्धोपसेवितम् । तस्मै सीताञ्जलिम् कृत्वा प्रयुञ्जीताशिषः शिवाः ॥२-५५-
समासाद्य तु तम् वृक्षम् वसेद्वातिक्रमेत वा । क्रोशमात्रम् ततो गत्वा नीलम् द्रक्ष्यथ काननम् ॥२-५५-
पलाशबदरीमिश्रम् रम्यम् वम्शैश्च यामुनैः । स पन्थाश्चित्रकूटस्य गतः सुबहुशो मया ॥२-५५-
रम्ये मार्दवयुक्तश्च वनदावैर्विपर्जितः । इति पन्थानमावेद्य महर्षः स न्यवर्तत ॥२-५५-
अभिवाद्य तथेत्युक्त्वा रामेण विनिवर्तितः । उपावृत्ते मुनौ तस्मिन् रामो लक्ष्मणमब्रवीत् ॥२-५५-
कृतपुण्याः स्म सौमित्रे मुनिर्यन्नोऽनुकम्पते । इति तौ पुरुषव्याघ्रौ मन्त्रयित्वा मनस्विनौ ॥२-५५-
सीतामेवाग्रतः कृत्वा काLइन्दीम् जग्मतुर्नदीम् । अथा साद्य तु काLइन्दीम् शीघ्रस्रोतोवहाम् नदीम् ॥२-५५-
तौ काष्ठसम्घातमथो चक्रतुस्तु महाप्लवम् ॥२-५५-
शुष्कैर्वम्शैः समास्तीर्णमुLईरैश्च समावृतम् । ततो वेतसशाखाश्च जम्बूशाखाश्च वीर्यवान् ॥२-५५-
चकार लक्ष्मणश्छित्वा सीतायाः सुखमासनम् । तत्र श्रियमिवाचिन्त्याम् रामो दाशरथिः प्रियाम् ॥२-५५-
ईष्त्सन्कह्हनाबान् तानग्तारिओअतत् प्लवम् । पार्श्वे च तत्र वैदेह्या वसने चूष्णानि च ॥२-५५-
प्लवे कठिनकाजम् च रामश्चक्रे सहायुधैः । आरोप्य प्रथमम् सीताम् सम्घाटम् प्रतिगृह्य तौ ॥२-५५-
ततः प्रतेरतुर्य त्तौ वीरौ दशरथात्मजौ । काLइन्दीमध्यमायाता सीता त्वेनामवन्दत ॥२-५५-
स्वस्ति देवि तरामि त्वाम् पार्येन्मे पतिर्वतम् । यक्ष्ये त्वाम् गोनहस्रेण सुराघटशतेन च ॥२-५५-
स्वस्ति प्रत्यागते रामे पुरीमिक्ष्वाकुपालिताम् । काLइन्दीमथ सीता तु याचमाना कृताञ्जलिः ॥२-५५-
तीरमेवाभिसम्प्राप्ता दक्षिणम् वरवर्णिनी । ततः प्लवेनाम्शुमतीम् शीघ्रगामूर्मिमालिनीम् ॥२-५५-
तीरजैर्बहुभिर्वृक्षैः सम्तेरुर्यमुनाम् नदीम् । ते तीर्णाः प्लवमुत्सृज्य प्रस्थाय यमुनावनात् ॥२-५५-
श्यामम् न्यग्रोधमासेदुः शीतलम् हरितच्छदम् । न्य्ग्रोधम् तमुपागम्य वैदेहि वाक्यमब्रवीत् ॥२-५५-
नमस्तेऽन्तु महावृक्ष पारयेन्मे पतिर्वतम् । कौसल्याम् चैव पश्येयम् सुमित्राम् च यशस्विनीम् ॥२-५५-