दाक्षिणात्यान् नरेन्द्रांश्च समस्तानानयस्व ह । सन्ति स्निग्धाश्च ये चान्ये राजानः पृथिवीतले ॥१-१३-
तानानय यथा क्षिप्रं सानुगान् सहबान्धवान् । एतान् दूतैर्महाभागैरानयस्व नृपाज्ञया ॥१-१३-
वसिष्ठवाक्यं तच्छ्रुत्वा सुमन्त्रस्त्वरितं तदा । व्यादिशत् पुरुषांस्तत्र राज्ञामानयने शुभान् ॥१-१३-
स्वयमेव हि धर्मात्मा प्रयातो मुनिशासनात् । सुमन्त्रस्त्वरितो भूत्वा समानेतुं महामतिः ॥१-१३-
ते च कर्मान्तिकाः सर्वे वसिष्ठाय महर्षये । सर्वं निवेदयन्ति स्म यज्ञे यदुपकल्पितम् ॥१-१३-
ततः प्रीतो द्विजश्रेष्ठस्तान् सर्वान् मुनिरब्रवीत् । अवज्ञया न दातव्यं कस्यचिल्लीलयापि वा ॥१-१३-
अवज्ञया कृतं हन्याद् दातारं नात्र संशयः । ततः कैश्चिदहोरात्रैरुपयाता महीक्षितः ॥१-१३-
बहूनि रत्नान्यादाय राज्ञो दशरथस्य ह । ततो वसिष्ठः सुप्रीतो राजानमिदमब्रवीत् ॥१-१३-
उपयाता नरव्याघ्र राजानस्तव शासनात् । मयापि सत्कृताः सर्वे यथार्हं राजसत्तमाः ॥१-१३-
यज्ञियं च कृतं सर्वं पुरुषैः सुसमाहितैः । निर्यातु च भवान् यष्टुं यज्ञायतनमन्तिकात् ॥१-१३-
सर्वकामैरुपहृतैरुपेतं वै समन्ततः । द्रष्टुमर्हसि राजेन्द्र मनसेव विनिर्मितम् ॥१-१३-
तथा वसिष्ठवचनादृशष्यशृङ्गस्य चोभयोः । दिवसे शुभनक्षत्रे निर्यातो जगतीपतिः ॥१-१३-
ततो वसिष्ठप्रमुखाः सर्व एव द्विजोत्तमाः । ऋष्यशृङ्गं पुरस्कृत्य यज्ञकर्मारभंस्तदा ॥१-१३-
यज्ञवाटं गताः सर्वे यथाशास्त्रं यथाविधि । श्रीमांश्च सह पत्नीभी राजा दीक्षामुपाविशत् ॥१-१३-
thumb|चतुर्दशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुर्दशः सर्गः ॥१-
अथ संवत्सरे पूर्णे तस्मिन् प्राप्ते तुरङ्गमे । सरय्वाश्चोत्तरे तीरे राज्ञो यज्ञोऽभ्यवर्तत ॥१-१४-
ऋष्यशृङ्गं पुरस्कृत्य कर्म चक्रुर्द्विजर्षभाः । अश्वमेधे महायज्ञे राज्ञोऽस्य सुमहात्मनः ॥१-१४-
कर्म कुर्वन्ति विधिवद् याजका वेदपारगाः । यथाविधि यथान्यायं परिक्रामन्ति शास्त्रतः ॥१-१४-
प्रवर्ग्यं शास्त्रतः कृत्वा तथैवोपसदं द्विजाः । चक्रुश्च विधिवत् सर्वमधिकं कर्म शास्त्रतः ॥१-१४-
अभिपूज्य ततो हृष्टाः सर्वे चक्रुर्यथाविधि । प्रातःसवनपूर्वाणि कर्माणि मुनिपुङ्गवाः ॥१-१४-
ऐन्द्रश्च विधिवत् दत्तो राजा चाभिषुतोऽनघः । मध्यन्दिनं च सवनं प्रावर्तत यथाक्रमम् ॥१-१४-
तृतीयसवनं चैव राज्ञोऽस्य सुमहात्मनः । चक्रुस्ते शास्त्रतो दृष्ट्वा यथा ब्राह्मणपुङ्गवाः ॥१-१४-
आह्वायाञ्चक्रिरे तत्र शक्रादीन् विबुधोत्तमान् । ऋष्यशृङ्गादयो मन्त्रैः शिक्षाक्षरसमन्वितैः ॥१-१४-
गीतिभिर्मधुरैः स्निग्धैर्मन्त्राह्वानैर्यथार्हतः । होतारो ददुरावाह्य हविर्भागान् दिवौकसाम् ॥१-१४-
न चाहुतमभूत् तत्र स्खलितं वा न किञ्चन । दृश्यते ब्रह्मवत् सर्वं क्षेमयुक्तं हि चक्रिरे ॥१-१४-
न तेष्वहःसु श्रान्तो वा क्षुधितो वा न दृश्यते । नाविद्वान् ब्राह्मणः कश्चिन्नाशतानुचरस्तथा ॥१-१४-
ब्राह्मणा भुञ्जते नित्यं नाथवन्तश्च भुञ्जते । तापसा भुञ्जते चापि श्रमणाश्चैव भुञ्जते ॥१-१४-
वृद्धाश्च व्याधिताश्चैव स्त्रीबालाश्च तथैव च । अनिशं भुञ्जमानानां न तृप्तिरुपलभ्यते ॥१-१४-
अन्नकूटाश्च दृश्यन्ते बहवः पर्वतोपमाः । दिवसे दिवसे तत्र सिद्धस्य विधिवत् तदा ॥१-१४-
नानादेशादनुप्राप्ताः पुरुषाः स्त्रीगणास्तथा । अन्नपानैः सुविहितास्तस्मिन् यज्ञे महात्मनः ॥१-१४-