ततः तु आश्रमम् आसाद्य मुनेर् दर्शन कान्क्षिणौ । सीतया अनुगतौ वीरौ दूरात् एव अवतस्थतुः ॥२-५४-
स प्रविश्य महात्मानमृषिम् शिष्यगणैर्वऋतम् । सम्शितव्रतमेकाग्रम् तपसा लब्धचक्षुषम् ॥२-५४-
हुत अग्नि होत्रम् दृष्ट्वा एव महा भागम् कृत अन्जलिः । रामः सौमित्रिणा सार्धम् सीतया च अभ्यवादयत् ॥२-५४-
न्यवेदयत च आत्मानम् तस्मै लक्ष्मण पूर्वजः । पुत्रौ दशरथस्य आवाम् भगवन् राम लक्ष्मणौ ॥२-५४-
भार्या मम इयम् वैदेही कल्याणी जनक आत्मजा । माम् च अनुयाता विजनम् तपो वनम् अनिन्दिता ॥२-५४-
पित्रा प्रव्राज्यमानम् माम् सौमित्रिर् अनुजः प्रियः । अयम् अन्वगमद् भ्राता वनम् एव दृढ व्रतः ॥२-५४-
पित्रा नियुक्ता भगवन् प्रवेष्यामः तपो वनम् । धर्मम् एव आचरिष्यामः तत्र मूल फल अशनाः ॥२-५४-
तस्य तत् वचनम् श्रुत्वा राज पुत्रस्य धीमतः । उपानयत धर्म आत्मा गाम् अर्घ्यम् उदकम् ततः ॥२-५४-
नानाविधानन्नरसान् वन्यमूलफलाश्रयान् । तेभ्यो ददौ तप्ततपा वासम् चैवाभ्यकल्पयत् ॥२-५४-
मृग पक्षिभिर् आसीनो मुनिभिः च समन्ततः । रामम् आगतम् अभ्यर्च्य स्वागतेन आह तम् मुनिः ॥२-५४-
प्रतिगृह्य च ताम् अर्चाम् उपविष्टम् स राघवम् । भरद्वाजो अब्रवीद् वाक्यम् धर्म युक्तम् इदम् तदा ॥२-५४-
चिरस्य खलु काकुत्स्थ पश्यामि त्वाम् इह आगतम् । श्रुतम् तव मया च इदम् विवासनम् अकारणम् ॥२-५४-
अवकाशो विविक्तः अयम् महा नद्योह् समागमे । पुण्यः च रमणीयः च वसतु इह भगान् सुखम् ॥२-५४-
एवम् उक्तः तु वचनम् भरद्वाजेन राघवः । प्रत्युवाच शुभम् वाक्यम् रामः सर्व हिते रतः ॥२-५४-
भगवन्न् इताअसन्नः पौर जानपदो जनः । सुदर्शमिह माम् प्रेक्ष्य मन्येऽह मिममाश्रमम् ॥२-५४-
आगमिष्यति वैदेहीम् माम् च अपि प्रेक्षको जनः । अनेन कारणेन अहम् इह वासम् न रोचये ॥२-५४-
एक अन्ते पश्य भगवन्न् आश्रम स्थानम् उत्तमम् । रमते यत्र वैदेही सुख अर्हा जनक आत्मजा ॥२-५४-
एतत् श्रुत्वा शुभम् वाक्यम् भरद्वाजो महा मुनिः । राघवस्य ततः वाक्यम् अर्थ ग्राहकम् अब्रवीत् ॥२-५४-
दश क्रोशैतः तात गिरिर् यस्मिन् निवत्स्यसि । महर्षि सेवितः पुण्यः सर्वतः सुख दर्शनः ॥२-५४-
गो लान्गूल अनुचरितः वानर ऋष्क निषेवितः । चित्र कूटैति ख्यातः गन्ध मादन सम्निभः ॥२-५४-
यावता चित्र कूटस्य नरः शृन्गाणि अवेक्षते । कल्याणानि समाधत्ते न पापे कुरुते मनः ॥२-५४-
ऋषयः तत्र बहवो विहृत्य शरदाम् शतम् । तपसा दिवम् आरूधाः कपाल शिरसा सह ॥२-५४-
प्रविविक्तम् अहम् मन्ये तम् वासम् भवतः सुखम् । इह वा वन वासाय वस राम मया सह ॥२-५४-
स रामम् सर्व कामैअः तम् भरद्वाजः प्रिय अतिथिम् । सभार्यम् सह च भ्रात्रा प्रतिजग्राह धर्मवित् ॥२-५४-
तस्य प्रयागे रामस्य तम् महर्षिम् उपेयुषः । प्रपन्ना रजनी पुण्या चित्राः कथयतः कथाः ॥२-५४-
सीतातृतीय काकुत्स्थह् परिश्रान्तः सुखोचितः । भरद्वाजाश्रमे रम्ये ताम् रात्रि मवस्त्सुखम् ॥२-५४-
प्रभातायाम् रजन्याम् तु भरद्वाजम् उपागमत् । उवाच नर शार्दूलो मुनिम् ज्वलित तेजसम् ॥२-५४-
शर्वरीम् भवनन्न् अद्य सत्य शील तव आश्रमे । उषिताः स्म इह वसतिम् अनुजानातु नो भवान् ॥२-५४-
रात्र्याम् तु तस्याम् व्युष्टायाम् भरद्वाजो अब्रवीद् इदम् । मधु मूल फल उपेतम् चित्र कूटम् व्रज इति ह ॥२-५४-
वासमौपयिकम् मन्ये तव राम महाबल । नानानगगणोपेतः किन्नरोरगसेवितह् ॥२-५४-