मा स्म मत् कारणात् देवी सुमित्रा दुह्खम् आवसेत् । अयोध्याम् इतएव त्वम् काले प्रविश लक्ष्मण ॥२-५३-
अहम् एको गमिष्यामि सीतया सह दण्डकान् । अनाथाया हि नाथः त्वम् कौसल्याया भविष्यसि ॥२-५३-
क्षुद्र कर्मा हि कैकेयी द्वेषात् अन्याय्यम् आचरेत् । परिदद्या हि धर्मज्ञे भरते मम मातरम् ॥२-५३-
नूनम् जाति अन्तरे कस्मिम्स् स्त्रियः पुत्रैः वियोजिताः । जनन्या मम सौमित्रे तत् अपि एतत् उपस्थितम् ॥२-५३-
मया हि चिर पुष्टेन दुह्ख सम्वर्धितेन च । विप्रायुज्यत कौसल्या फल काले धिग् अस्तु माम् ॥२-५३-
मा स्म सीमन्तिनी काचिज् जनयेत् पुत्रम् ईदृशम् । सौमित्रे यो अहम् अम्बाया दद्मि शोकम् अनन्तकम् ॥२-५३-
मन्ये प्रीति विशिष्टा सा मत्तः लक्ष्मण सारिका । यस्याः तत् श्रूयते वाक्यम् शुक पादम् अरेर् दश ॥२-५३-
शोचन्त्याः च अल्प भाग्याया न किम्चित् उपकुर्वता । पुर्त्रेण किम् अपुत्राया मया कार्यम् अरिम् दम ॥२-५३-
अल्प भाग्या हि मे माता कौसल्या रहिता मया । शेते परम दुह्ख आर्ता पतिता शोक सागरे ॥२-५३-
एको हि अहम् अयोध्याम् च पृथिवीम् च अपि लक्ष्मण । तरेयम् इषुभिः क्रुद्धो ननु वीर्यम् अकारणम् ॥२-५३-
अधर्म भय भीतः च पर लोकस्य च अनघ । तेन लक्ष्मण न अद्य अहम् आत्मानम् अभिषेचये ॥२-५३-
एतत् अन्यच् च करुणम् विलप्य विजने बहु । अश्रु पूर्ण मुखो रामः निशि तूष्णीम् उपाविशत् ॥२-५३-
विलप्य उपरतम् रामम् गत अर्चिषम् इव अनलम् । समुद्रम् इव निर्वेगम् आश्वासयत लक्ष्मणः ॥२-५३-
ध्रुवम् अद्य पुरी रामायोध्या युधिनाम् वर । निष्प्रभा त्वयि निष्क्रान्ते गत चन्द्रा इव शर्वरी ॥२-५३-
न एतत् औपयिकम् राम यद् इदम् परितप्यसे । विषादयसि सीताम् च माम् चैव पुरुष ऋषभ ॥२-५३-
न च सीता त्वया हीना न च अहम् अपि राघव । मुहूर्तम् अपि जीवावो जलान् मत्स्याव् इव उद्धृतौ ॥२-५३-
न हि तातम् न शत्रुघ्नम् न सुमित्राम् परम् तप । द्रष्टुम् इच्चेयम् अद्य अहम् स्वर्गम् वा अपि त्वया विना ॥२-५३-
ततस्तत्र सुखासीने नातिदूरे निरीक्ष्य ताम् । न्यग्रोधे सुकृताम् शय्याम् भेजाते धर्मवत्सलौ ॥२-५३-
स लक्ष्मणस्य उत्तम पुष्कलम् वचो । निशम्य च एवम् वन वासम् आदरात् । समाः समस्ता विदधे परम् तपः । प्रपद्य धर्मम् सुचिराय राघवः ॥२-५३-
ततस्तु तस्मिन् विजने वने तदा । महाबलौ राघववम्शवर्धनौ । न तौ भयम् सम्भ्रममभ्युपेयतु । र्यथैव सिम्हौ गिरिसानुगोचरौ ॥२-५३-
thumb|चतुःपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुःपञ्चाशः सर्गः ॥२-
ते तु तस्मिन् महा वृक्षौषित्वा रजनीम् शिवाम् । विमले अभ्युदिते सूर्ये तस्मात् देशात् प्रतस्थिरे ॥२-५४-
यत्र भागीरथी गन्गा यमुनाम् अभिवर्तते । जग्मुस् तम् देशम् उद्दिश्य विगाह्य सुमहद् वनम् ॥२-५४-
ते भूमिम् आगान् विविधान् देशामः च अपि मनो रमान् । अदृष्ट पूर्वान् पश्यन्तः तत्र तत्र यशस्विनः ॥२-५४-
यथा क्षेमेण गच्चन् स पश्यमः च विविधान् द्रुमान् । निवृत्त मात्रे दिवसे रामः सौमित्रिम् अब्रवीत् ॥२-५४-
प्रयागम् अभितः पश्य सौमित्रे धूमम् उन्नतम् । अग्नेर् भगवतः केतुम् मन्ये सम्निहितः मुनिः ॥२-५४-
नूनम् प्राप्ताः स्म सम्भेदम् गन्गा यमुनयोः वयम् । तथा हि श्रूयते शम्ब्दो वारिणा वारि घट्टितः ॥२-५४-
दारूणि परिभिन्नानि वनजैः उपजीविभिः । भरद्वाज आश्रमे च एते दृश्यन्ते विविधा द्रुमाः ॥२-५४-
धन्विनौ तौ सुखम् गत्वा लम्बमाने दिवा करे । गन्गा यमुनयोह् सम्धौ प्रापतुर् निलयम् मुनेः ॥२-५४-
रामः तु आश्रमम् आसाद्य त्रासयन् मृग पक्षिणः । गत्वा मुहूर्तम् अध्वानम् भरद्वाजम् उपागमत् ॥२-५४-