ध्रुवम् अद्य महा राजो दुह्खम् स्वपिति लक्ष्मण । कृत कामा तु कैकेयी तुष्टा भवितुम् अर्हति ॥२-५३-
सा हि देवी महा राजम् कैकेयी राज्य कारणात् । अपि न च्यावयेत् प्राणान् दृष्ट्वा भरतम् आगतम् ॥२-५३-
अनाथः चैव वृद्धः च मया चैव विनाकृतः । किम् करिष्यति काम आत्मा कैकेय्या वशम् आगतः ॥२-५३-
इदम् व्यसनम् आलोक्य राज्ञः च मति विभ्रमम् । कामएव अर्ध धर्माभ्याम् गरीयान् इति मे मतिः ॥२-५३-
को हि अविद्वान् अपि पुमान् प्रमदायाः कृते त्यजेत् । चन्द अनुवर्तिनम् पुत्रम् तातः माम् इव लक्ष्मण ॥२-५३-
सुखी बत सभार्यः च भरतः केकयी सुतः । मुदितान् कोसलान् एको यो भोक्ष्यति अधिराजवत् ॥२-५३-
स हि सर्वस्य राज्यस्य मुखम् एकम् भविष्यति । ताते च वयसा अतीते मयि च अरण्यम् आश्रिते ॥२-५३-
अर्थ धर्मौ परित्यज्य यः कामम् अनुवर्तते । एवम् आपद्यते क्षिप्रम् राजा दशरथो यथा ॥२-५३-
मन्ये दशरथ अन्ताय मम प्रव्राजनाय च । कैकेयी सौम्य सम्प्राप्ता राज्याय भरतस्य च ॥२-५३-
अपि इदानीम् न कैकेयी सौभाग्य मद मोहिता । कौसल्याम् च सुमित्राम् च सम्प्रबाधेत मत् कृते ॥२-५३-
मा स्म मत् कारणात् देवी सुमित्रा दुह्खम् आवसेत् । अयोध्याम् इतएव त्वम् काले प्रविश लक्ष्मण ॥२-५३-
अहम् एको गमिष्यामि सीतया सह दण्डकान् । अनाथाया हि नाथः त्वम् कौसल्याया भविष्यसि ॥२-५३-
क्षुद्र कर्मा हि कैकेयी द्वेषात् अन्याय्यम् आचरेत् । परिदद्या हि धर्मज्ञे भरते मम मातरम् ॥२-५३-
नूनम् जाति अन्तरे कस्मिम्स् स्त्रियः पुत्रैः वियोजिताः । जनन्या मम सौमित्रे तत् अपि एतत् उपस्थितम् ॥२-५३-
मया हि चिर पुष्टेन दुह्ख सम्वर्धितेन च । विप्रायुज्यत कौसल्या फल काले धिग् अस्तु माम् ॥२-५३-
मा स्म सीमन्तिनी काचिज् जनयेत् पुत्रम् ईदृशम् । सौमित्रे यो अहम् अम्बाया दद्मि शोकम् अनन्तकम् ॥२-५३-
मन्ये प्रीति विशिष्टा सा मत्तः लक्ष्मण सारिका । यस्याः तत् श्रूयते वाक्यम् शुक पादम् अरेर् दश ॥२-५३-
शोचन्त्याः च अल्प भाग्याया न किम्चित् उपकुर्वता । पुर्त्रेण किम् अपुत्राया मया कार्यम् अरिम् दम ॥२-५३-
अल्प भाग्या हि मे माता कौसल्या रहिता मया । शेते परम दुह्ख आर्ता पतिता शोक सागरे ॥२-५३-
एको हि अहम् अयोध्याम् च पृथिवीम् च अपि लक्ष्मण । तरेयम् इषुभिः क्रुद्धो ननु वीर्यम् अकारणम् ॥२-५३-
अधर्म भय भीतः च पर लोकस्य च अनघ । तेन लक्ष्मण न अद्य अहम् आत्मानम् अभिषेचये ॥२-५३-
एतत् अन्यच् च करुणम् विलप्य विजने बहु । अश्रु पूर्ण मुखो रामः निशि तूष्णीम् उपाविशत् ॥२-५३-
विलप्य उपरतम् रामम् गत अर्चिषम् इव अनलम् । समुद्रम् इव निर्वेगम् आश्वासयत लक्ष्मणः ॥२-५३-
ध्रुवम् अद्य पुरी रामायोध्या युधिनाम् वर । निष्प्रभा त्वयि निष्क्रान्ते गत चन्द्रा इव शर्वरी ॥२-५३-
न एतत् औपयिकम् राम यद् इदम् परितप्यसे । विषादयसि सीताम् च माम् चैव पुरुष ऋषभ ॥२-५३-
न च सीता त्वया हीना न च अहम् अपि राघव । मुहूर्तम् अपि जीवावो जलान् मत्स्याव् इव उद्धृतौ ॥२-५३-
न हि तातम् न शत्रुघ्नम् न सुमित्राम् परम् तप । द्रष्टुम् इच्चेयम् अद्य अहम् स्वर्गम् वा अपि त्वया विना ॥२-५३-
ततस्तत्र सुखासीने नातिदूरे निरीक्ष्य ताम् । न्यग्रोधे सुकृताम् शय्याम् भेजाते धर्मवत्सलौ ॥२-५३-
स लक्ष्मणस्य उत्तम पुष्कलम् वचो । निशम्य च एवम् वन वासम् आदरात् । समाः समस्ता विदधे परम् तपः । प्रपद्य धर्मम् सुचिराय राघवः ॥२-५३-
ततस्तु तस्मिन् विजने वने तदा । महाबलौ राघववम्शवर्धनौ । न तौ भयम् सम्भ्रममभ्युपेयतु । र्यथैव सिम्हौ गिरिसानुगोचरौ ॥२-५३-