आचम्य च यथाशास्त्रम् नदीम् ताम् सह सीतया । प्राणमत्प्रीतिसम्हृष्टो लक्ष्मणश्चामितप्रभः ॥२-५२-
अनुज्ञाय सुमन्त्रम् च सबलम् चैव तम् गुहम् । आस्थाय नावम् रामः तु चोदयाम् आस नाविकान् ॥२-५२-
ततः तैः चोदिता सा नौः कर्ण धार समाहिता । शुभ स्फ्य वेग अभिहता शीघ्रम् सलिलम् अत्यगात् ॥२-५२-
मध्यम् तु समनुप्राप्य भागीरथ्याः तु अनिन्दिता । वैदेही प्रान्जलिर् भूत्वा ताम् नदीम् इदम् अब्रवीत् ॥२-५२-
पुत्रः दशरथस्य अयम् महा राजस्य धीमतः । निदेशम् पालयतु एनम् गन्गे त्वद् अभिरक्षितः ॥२-५२-
चतुर् दश हि वर्षाणि समग्राणि उष्य कानने । भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति ॥२-५२-
ततः त्वाम् देवि सुभगे क्षेमेण पुनर् आगता । यक्ष्ये प्रमुदिता गन्गे सर्व काम समृद्धये ॥२-५२-
त्वम् हि त्रिपथगा देवि ब्रह्म लोकम् समीक्षसे । भार्या च उदधि राजस्य लोके अस्मिन् सम्प्रदृश्यसे ॥२-५२-
सा त्वाम् देवि नमस्यामि प्रशम्सामि च शोभने । प्राप्त राज्ये नर व्याघ्र शिवेन पुनर् आगते ॥२-५२-
गवाम् शत सहस्राणि वस्त्राणि अन्नम् च पेशलम् । ब्राह्मणेभ्यः प्रदास्यामि तव प्रिय चिकीर्षया ॥२-५२-
सुराघटसहस्रेण माम्सभूतोदनेन च । यक्ष्ये त्वाम् प्रयता देवि पुरीम् पुनरुपागता ॥२-५२-
यानि त्वत्तीरवासीनि दैवतानि च सन्ति हि । तानि सर्वाणि यक्ष्यामि तीर्थान्यायतनानि च ॥२-५२-
पुनरेव महाबाउर्मया भ्रात्रा च सम्गतः । अयोध्याम् वनवासात्तु प्रविशत्वनघोऽनघे ॥२-५२-
तथा सम्भाषमाणा सा सीता गन्गाम् अनिन्दिता । दक्षिणा दक्षिणम् तीरम् क्षिप्रम् एव अभ्युपागमत् ॥२-५२-
तीरम् तु समनुप्राप्य नावम् हित्वा नर ऋषभः । प्रातिष्ठत सह भ्रात्रा वैदेह्या च परम् तपः ॥२-५२-
अथ अब्रवीन् महा बाहुः सुमित्र आनन्द वर्धनम् । भव सम्रक्षणार्थाय सजने विजनेऽपि वा ॥२-५२-
अवश्यम् रक्षणम् कार्यमदृष्टे विजने वने । अग्रतः गच्च सौमित्रे सीता त्वाम् अनुगच्चतु ॥२-५२-
पृष्ठतः अहम् गमिष्यामि त्वाम् च सीताम् च पालयन् । अद्य दुह्खम् तु वैदेही वन वासस्य वेत्स्यति ॥२-५२-
न हि तावदतिक्रान्ता सुकरा काचन क्रिया । अद्य दुःखम् तु वैदेही वनवासस्य वेत्स्यति ॥२-५२-
प्रणष्टजनसम्बाधम् क्षेत्रारामविवर्बितम् । विषमम् च प्रपातम् च वनमद्य प्रवेक्ष्यति ॥२-५२-
श्रुत्वा रामस्य वचनम् प्रतिस्थे लक्ष्मण्Oऽग्रतः । अनन्तरम् च सीताया राघवो रघनन्धनः ॥२-५२-
गतम् तु गन्गा पर पारम् आशु । रामम् सुमन्त्रः प्रततम् निरीक्ष्य । अध्व प्रकर्षात् विनिवृत्त दृष्टिर् । र्मुमोच बाष्पम् व्यथितः तपस्वी ॥२-५२-
स लोकपालप्रतिमप्रभाववाम् । स्तीर्त्वा महात्मा वरदो महानदीम् । ततः समृद्धान् शुभसस्यमालिनः । क्रमेण वत्सान् मुदितानुपागमत् ॥२-५२-
तौ तत्र हत्वा चतुरः महा मृगान् । वराहम् ऋश्यम् पृषतम् महा रुरुम् । आदाय मेध्यम् त्वरितम् बुभुक्षितौ। वासाय काले ययतुर् वनः पतिम् ॥२-५२-
thumb|त्रिपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रिपञ्चाशः सर्गः ॥२-
स तम् वृक्षम् समासाद्य सम्ध्याम् अन्वास्य पश्चिमाम् । रामः रमयताम् श्रेष्ठैति ह उवाच लक्ष्मणम् ॥२-५३-
अद्य इयम् प्रथमा रात्रिर् याता जन पदात् बहिः । या सुमन्त्रेण रहिता ताम् न उत्कण्ठितुम् अर्हसि ॥२-५३-
जागर्तव्यम् अतन्द्रिभ्याम् अद्य प्रभृति रात्रिषु । योग क्षेमः हि सीताया वर्तते लक्ष्मण आवयोह् ॥२-५३-
रात्रिम् कथम्चित् एव इमाम् सौमित्रे वर्तयामहे । उपावर्तामहे भूमाव् आस्तीर्य स्वयम् आर्जितैः ॥२-५३-
स तु सम्विश्य मेदिन्याम् महा अर्ह शयन उचितः । इमाः सौमित्रये रामः व्याजहार कथाः शुभाः ॥२-५३-