लक्ष्मणस्य आत्मनः चैव रामः तेन अकरोज् जटाः । दीर्घबाहुर्नरव्याघ्रो जटिलत्व मधारयत् ॥२-५२-
तौ तदा चीर वसनौ जटा मण्डल धारिणौ । अशोभेताम् ऋषि समौ भ्रातरौ राम रक्ष्मणौ ॥२-५२-
ततः वैखानसम् मार्गम् आस्थितः सह लक्ष्मणः । व्रतम् आदिष्टवान् रामः सहायम् गुहम् अब्रवीत् ॥२-५२-
अप्रमत्तः बले कोशे दुर्गे जन पदे तथा । भवेथा गुह राज्यम् हि दुरारक्षतमम् मतम् ॥२-५२-
ततः तम् समनुज्ञाय गुहम् इक्ष्वाकु नन्दनः । जगाम तूर्णम् अव्यग्रः सभार्यः सह लक्ष्मणः ॥२-५२-
स तु दृष्ट्वा नदी तीरे नावम् इक्ष्वाकु नन्दनः । तितीर्षुः शीघ्रगाम् गन्गाम् इदम् लक्ष्मणम् अब्रवीत् ॥२-५२-
आरोह त्वम् नर व्याघ्र स्थिताम् नावम् इमाम् शनैः । सीताम् च आरोपय अन्वक्षम् परिगृह्य मनस्विनीम् ॥२-५२-
स भ्रातुः शासनम् श्रुत्वा सर्वम् अप्रतिकूलयन् । आरोप्य मैथिलीम् पूर्वम् आरुरोह आत्मवाम्स् ततः ॥२-५२-
अथ आरुरोह तेजस्वी स्वयम् लक्ष्मण पूर्वजः । ततः निषाद अधिपतिर् गुहो ज्ञातीन् अचोदयत् ॥२-५२-
राघवोऽपि महातेजा नावमारुह्य ताम् ततः । ब्रह्मवत् क्षत्रवच्चैव जजाप हितमात्मनः ॥२-५२-
आचम्य च यथाशास्त्रम् नदीम् ताम् सह सीतया । प्राणमत्प्रीतिसम्हृष्टो लक्ष्मणश्चामितप्रभः ॥२-५२-
अनुज्ञाय सुमन्त्रम् च सबलम् चैव तम् गुहम् । आस्थाय नावम् रामः तु चोदयाम् आस नाविकान् ॥२-५२-
ततः तैः चोदिता सा नौः कर्ण धार समाहिता । शुभ स्फ्य वेग अभिहता शीघ्रम् सलिलम् अत्यगात् ॥२-५२-
मध्यम् तु समनुप्राप्य भागीरथ्याः तु अनिन्दिता । वैदेही प्रान्जलिर् भूत्वा ताम् नदीम् इदम् अब्रवीत् ॥२-५२-
पुत्रः दशरथस्य अयम् महा राजस्य धीमतः । निदेशम् पालयतु एनम् गन्गे त्वद् अभिरक्षितः ॥२-५२-
चतुर् दश हि वर्षाणि समग्राणि उष्य कानने । भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति ॥२-५२-
ततः त्वाम् देवि सुभगे क्षेमेण पुनर् आगता । यक्ष्ये प्रमुदिता गन्गे सर्व काम समृद्धये ॥२-५२-
त्वम् हि त्रिपथगा देवि ब्रह्म लोकम् समीक्षसे । भार्या च उदधि राजस्य लोके अस्मिन् सम्प्रदृश्यसे ॥२-५२-
सा त्वाम् देवि नमस्यामि प्रशम्सामि च शोभने । प्राप्त राज्ये नर व्याघ्र शिवेन पुनर् आगते ॥२-५२-
गवाम् शत सहस्राणि वस्त्राणि अन्नम् च पेशलम् । ब्राह्मणेभ्यः प्रदास्यामि तव प्रिय चिकीर्षया ॥२-५२-
सुराघटसहस्रेण माम्सभूतोदनेन च । यक्ष्ये त्वाम् प्रयता देवि पुरीम् पुनरुपागता ॥२-५२-
यानि त्वत्तीरवासीनि दैवतानि च सन्ति हि । तानि सर्वाणि यक्ष्यामि तीर्थान्यायतनानि च ॥२-५२-
पुनरेव महाबाउर्मया भ्रात्रा च सम्गतः । अयोध्याम् वनवासात्तु प्रविशत्वनघोऽनघे ॥२-५२-
तथा सम्भाषमाणा सा सीता गन्गाम् अनिन्दिता । दक्षिणा दक्षिणम् तीरम् क्षिप्रम् एव अभ्युपागमत् ॥२-५२-
तीरम् तु समनुप्राप्य नावम् हित्वा नर ऋषभः । प्रातिष्ठत सह भ्रात्रा वैदेह्या च परम् तपः ॥२-५२-
अथ अब्रवीन् महा बाहुः सुमित्र आनन्द वर्धनम् । भव सम्रक्षणार्थाय सजने विजनेऽपि वा ॥२-५२-
अवश्यम् रक्षणम् कार्यमदृष्टे विजने वने । अग्रतः गच्च सौमित्रे सीता त्वाम् अनुगच्चतु ॥२-५२-
पृष्ठतः अहम् गमिष्यामि त्वाम् च सीताम् च पालयन् । अद्य दुह्खम् तु वैदेही वन वासस्य वेत्स्यति ॥२-५२-
न हि तावदतिक्रान्ता सुकरा काचन क्रिया । अद्य दुःखम् तु वैदेही वनवासस्य वेत्स्यति ॥२-५२-
प्रणष्टजनसम्बाधम् क्षेत्रारामविवर्बितम् । विषमम् च प्रपातम् च वनमद्य प्रवेक्ष्यति ॥२-५२-