तन्न शक्ष्याम्यहम् गन्तुमयोध्याम् त्वदृतेऽनघ । वनवासानुयानाय मामनुज्ञातुमर्हसि ॥२-५२-
यदि मे याचमानस्य त्यागम् एव करिष्यसि । सरथो अग्निम् प्रवेक्ष्यामि त्यक्त मात्रैह त्वया ॥२-५२-
भविष्यन्ति वने यानि तपो विघ्न कराणि ते । रथेन प्रतिबाधिष्ये तानि सत्त्वानि राघव ॥२-५२-
तत् कृतेन मया प्राप्तम् रथ चर्या कृतम् सुखम् । आशम्से त्वत् कृतेन अहम् वन वास कृतम् सुखम् ॥२-५२-
इमे चापि हया वीर यदि ते वनवासिनः । परिचर्याम् करिष्यन्ति प्राप्स्यन्ति परमाम् गतिम् ॥२-५२-
तव शुश्रूषणम् मूर्ध्ना करिष्यामि वने वसन् । अयोध्याम् देव लोकम् वा सर्वथा प्रजहाम्य् अहम् ॥२-५२-
न हि शक्या प्रवेष्टुम् सा मया अयोध्या त्वया विना । राज धानी महा इन्द्रस्य यथा दुष्कृत कर्मणा ॥२-५२-
वन वासे क्षयम् प्राप्ते मम एष हि मनो रथः । यद् अनेन रथेन एव त्वाम् वहेयम् पुरीम् पुनः ॥२-५२-
चतुर् दश हि वर्षाणि सहितस्य त्वया वने । क्षण भूतानि यास्यन्ति शतशः तु ततः अन्यथा ॥२-५२-
भृत्य वत्सल तिष्ठन्तम् भर्तृ पुत्र गते पथि । भक्तम् भृत्यम् स्थितम् स्थित्याम् त्वम् न माम् हातुम् अर्हसि ॥२-५२-
एवम् बहु विधम् दीनम् याचमानम् पुनः पुनः । रामः भृत्य अनुकम्पी तु सुमन्त्रम् इदम् अब्रवीत् ॥२-५२-
जानामि परमाम् भक्तिम् मयि ते भर्तृ वत्सल । शृणु च अपि यद् अर्थम् त्वाम् प्रेषयामि पुरीम् इतः ॥२-५२-
नगरीम् त्वाम् गतम् दृष्ट्वा जननी मे यवीयसी । कैकेयी प्रत्ययम् गच्चेद् इति रामः वनम् गतः ॥२-५२-
परितुष्टा हि सा देवि वन वासम् गते मयि । राजानम् न अतिशन्केत मिथ्या वादी इति धार्मिकम् ॥२-५२-
एष मे प्रथमः कल्पो यद् अम्बा मे यवीयसी । भरत आरक्षितम् स्फीतम् पुत्र राज्यम् अवाप्नुयात् ॥२-५२-
मम प्रिय अर्थम् राज्ञः च सरथः त्वम् पुरीम् व्रज । सम्दिष्टः च असि या अनर्थाम्स् ताम्स् तान् ब्रूयाः तथा तथा ॥२-५२-
इति उक्त्वा वचनम् सूतम् सान्त्वयित्वा पुनः पुनः । गुहम् वचनम् अक्लीबम् रामः हेतुमद् अब्रवीत् ॥२-५२-
नेदानीम् गुह योग्योऽयम् वसो मे सजने वने । अवश्यम् ह्याश्रमे वासह् कर्तव्यस्तद्गतो विधिः ॥२-५२-
सोऽहम् गृहीत्वा नियमम् तपस्विजनभूषणम् । हितकामः पितुर्भूयः सीताया लक्ष्मणस्य च ॥२-५२-
जटाः कृत्वा गमिष्यामि न्यग्रोध क्षीरम् आनय । तत् क्षीरम् राज पुत्राय गुहः क्षिप्रम् उपाहरत् ॥२-५२-
लक्ष्मणस्य आत्मनः चैव रामः तेन अकरोज् जटाः । दीर्घबाहुर्नरव्याघ्रो जटिलत्व मधारयत् ॥२-५२-
तौ तदा चीर वसनौ जटा मण्डल धारिणौ । अशोभेताम् ऋषि समौ भ्रातरौ राम रक्ष्मणौ ॥२-५२-
ततः वैखानसम् मार्गम् आस्थितः सह लक्ष्मणः । व्रतम् आदिष्टवान् रामः सहायम् गुहम् अब्रवीत् ॥२-५२-
अप्रमत्तः बले कोशे दुर्गे जन पदे तथा । भवेथा गुह राज्यम् हि दुरारक्षतमम् मतम् ॥२-५२-
ततः तम् समनुज्ञाय गुहम् इक्ष्वाकु नन्दनः । जगाम तूर्णम् अव्यग्रः सभार्यः सह लक्ष्मणः ॥२-५२-
स तु दृष्ट्वा नदी तीरे नावम् इक्ष्वाकु नन्दनः । तितीर्षुः शीघ्रगाम् गन्गाम् इदम् लक्ष्मणम् अब्रवीत् ॥२-५२-
आरोह त्वम् नर व्याघ्र स्थिताम् नावम् इमाम् शनैः । सीताम् च आरोपय अन्वक्षम् परिगृह्य मनस्विनीम् ॥२-५२-
स भ्रातुः शासनम् श्रुत्वा सर्वम् अप्रतिकूलयन् । आरोप्य मैथिलीम् पूर्वम् आरुरोह आत्मवाम्स् ततः ॥२-५२-
अथ आरुरोह तेजस्वी स्वयम् लक्ष्मण पूर्वजः । ततः निषाद अधिपतिर् गुहो ज्ञातीन् अचोदयत् ॥२-५२-
राघवोऽपि महातेजा नावमारुह्य ताम् ततः । ब्रह्मवत् क्षत्रवच्चैव जजाप हितमात्मनः ॥२-५२-