न एव अहम् अनुशोचामि लक्ष्मणो न च मैथिली । अयोध्यायाः च्युताः च इति वने वत्स्यामह इति वा (महेति!)॥२-५२-
चतुर् दशसु वर्षेषु निवृत्तेषु पुनः पुनः । लक्ष्मणम् माम् च सीताम् च द्रक्ष्यसि क्षिप्रम् आगतान् ॥२-५२-
एवम् उक्त्वा तु राजानम् मातरम् च सुमन्त्र मे । अन्याः च देवीः सहिताः कैकेयीम् च पुनः पुनः ॥२-५२-
आरोग्यम् ब्रूहि कौसल्याम् अथ पाद अभिवन्दनम् । सीताया मम च आर्यस्य वचनाल् लक्ष्मणस्य च ॥२-५२-
ब्रूयाः च हि महा राजम् भरतम् क्षिप्रम् आनय । आगतः च अपि भरतः स्थाप्यो नृप मते पदे ॥२-५२-
भरतम् च परिष्वज्य यौवराज्ये अभिषिच्य च । अस्मत् सम्तापजम् दुह्खम् न त्वाम् अभिभविष्यति ॥२-५२-
भरतः च अपि वक्तव्यो यथा राजनि वर्तसे । तथा मातृषु वर्तेथाः सर्वास्व् एव अविशेषतः ॥२-५२-
यथा च तव कैकेयी सुमित्रा च अविशेषतः । तथैव देवी कौसल्या मम माता विशेषतः ॥२-५२-
तातस्य प्रियकामेन यौवराज्यमपेक्षता । लोकयोरुभयोः शक्यम् त्वया यत्सुखमेधितुम् ॥२-५२-
निवर्त्यमानो रामेण सुमन्त्रः शोक कर्शितः । तत् सर्वम् वचनम् श्रुत्वा स्नेहात् काकुत्स्थम् अब्रवीत् ॥२-५२-
यद् अहम् न उपचारेण ब्रूयाम् स्नेहात् अविक्लवः । भक्तिमान् इति तत् तावद् वाक्यम् त्वम् क्षन्तुम् अर्हसि ॥२-५२-
कथम् हि त्वद् विहीनो अहम् प्रतियास्यामि ताम् पुरीम् । तव तात वियोगेन पुत्र शोक आकुलाम् इव ॥२-५२-
सरामम् अपि तावन् मे रथम् दृष्ट्वा तदा जनः । विना रामम् रथम् दृष्ट्वा विदीर्येत अपि सा पुरी ॥२-५२-
दैन्यम् हि नगरी गच्चेद् दृष्ट्वा शून्यम् इमम् रथम् । सूत अवशेषम् स्वम् सैन्यम् हत वीरम् इव आहवे ॥२-५२-
दूरे अपि निवसन्तम् त्वाम् मानसेन अग्रतः स्थितम् । चिन्तयन्त्यो अद्य नूनम् त्वाम् निराहाराः कृताः प्रजाः ॥२-५२-
दृष्टं तद्धि त्वया राम! यादृशम् त्वत्प्रवासने । प्रजानाम् सम्कुलम् वृत्तम् त्वच्छोकक्लान्तचेतसाम् ॥२-५२-
आर्त नादो हि यः पौरैः मुक्तः तत् विप्रवासने । रथस्थम् माम् निशाम्य एव कुर्युः शत गुणम् ततः ॥२-५२-
अहम् किम् च अपि वक्ष्यामि देवीम् तव सुतः मया । नीतः असौ मातुल कुलम् सम्तापम् मा कृथाइति ॥२-५२-
असत्यम् अपि न एव अहम् ब्रूयाम् वचनम् ईदृशम् । कथम् अप्रियम् एव अहम् ब्रूयाम् सत्यम् इदम् वचः ॥२-५२-
मम तावन् नियोगस्थाः त्वद् बन्धु जन वाहिनः । कथम् रथम् त्वया हीनम् प्रवक्ष्यन्ति हय उत्तमाः ॥२-५२-
तन्न शक्ष्याम्यहम् गन्तुमयोध्याम् त्वदृतेऽनघ । वनवासानुयानाय मामनुज्ञातुमर्हसि ॥२-५२-
यदि मे याचमानस्य त्यागम् एव करिष्यसि । सरथो अग्निम् प्रवेक्ष्यामि त्यक्त मात्रैह त्वया ॥२-५२-
भविष्यन्ति वने यानि तपो विघ्न कराणि ते । रथेन प्रतिबाधिष्ये तानि सत्त्वानि राघव ॥२-५२-
तत् कृतेन मया प्राप्तम् रथ चर्या कृतम् सुखम् । आशम्से त्वत् कृतेन अहम् वन वास कृतम् सुखम् ॥२-५२-
इमे चापि हया वीर यदि ते वनवासिनः । परिचर्याम् करिष्यन्ति प्राप्स्यन्ति परमाम् गतिम् ॥२-५२-
तव शुश्रूषणम् मूर्ध्ना करिष्यामि वने वसन् । अयोध्याम् देव लोकम् वा सर्वथा प्रजहाम्य् अहम् ॥२-५२-
न हि शक्या प्रवेष्टुम् सा मया अयोध्या त्वया विना । राज धानी महा इन्द्रस्य यथा दुष्कृत कर्मणा ॥२-५२-
वन वासे क्षयम् प्राप्ते मम एष हि मनो रथः । यद् अनेन रथेन एव त्वाम् वहेयम् पुरीम् पुनः ॥२-५२-
चतुर् दश हि वर्षाणि सहितस्य त्वया वने । क्षण भूतानि यास्यन्ति शतशः तु ततः अन्यथा ॥२-५२-
भृत्य वत्सल तिष्ठन्तम् भर्तृ पुत्र गते पथि । भक्तम् भृत्यम् स्थितम् स्थित्याम् त्वम् न माम् हातुम् अर्हसि ॥२-५२-