तवामरसुतप्रख्य तर्तुम् सागरगाम् नदीम् । नौरियम् पुरुषव्याग्र! ताम् त्वमारोह सुव्रत! ॥२-५२-
अथोवाच महातेजा रामो गुहमिदम् वचः । कृतकामोऽस्मि भवता शीघ्रमारोप्यतामिति ॥२-५२-
ततः कलापान् सम्नह्य खड्गौ बद्ध्वा च धन्विनौ । जग्मतुर् येन तौ गन्गाम् सीतया सह राघवौ ॥२-५२-
रामम् एव तु धर्मज्ञम् उपगम्य विनीतवत् । किम् अहम् करवाणि इति सूतः प्रान्जलिर् अब्रवीत् ॥२-५२-
ततोऽब्रवीद्दाशरथिः सुमन्त्रम् । स्पृशन् करेणोत्तमदक्षिणेन । सुमन्त्र शीघ्रम् पुनरेव याहि । राज्ञः सकाशे भवचाप्रमत्तः ॥२-५२-
निवर्तस्व इति उवाच एनम् एतावद्द् हि कृतम् मम । रथम् विहाय पद्भ्याम् तु गमिष्यामि महावनम् ॥२-५२-
आत्मानम् तु अभ्यनुज्ञातम् अवेक्ष्य आर्तः स सारथिः । सुमन्त्रः पुरुष व्याघ्रम् ऐक्ष्वाकम् इदम् अब्रवीत् ॥२-५२-
न अतिक्रान्तम् इदम् लोके पुरुषेण इह केनचित् । तव सभ्रातृ भार्यस्य वासः प्राकृतवद् वने ॥२-५२-
न मन्ये ब्रह्म चर्ये अस्ति स्वधीते वा फल उदयः । मार्दव आर्जवयोः वा अपि त्वाम् चेद् व्यसनम् आगतम् ॥२-५२-
सह राघव वैदेह्या भ्रात्रा चैव वने वसन् । त्वम् गतिम् प्राप्स्यसे वीर त्रीम्ल् लोकाम्स् तु जयन्न् इव ॥२-५२-
वयम् खलु हता राम ये तया अपि उपवन्चिताः । कैकेय्या वशम् एष्यामः पापाया दुह्ख भागिनः ॥२-५२-
इति ब्रुवन्न् आत्म समम् सुमन्त्रः सारथिस् तदा । दृष्ट्वा दुर गतम् रामम् दुह्ख आर्तः रुरुदे चिरम् ॥२-५२-
ततः तु विगते बाष्पे सूतम् स्पृष्ट उदकम् शुचिम् । रामः तु मधुरम् वाक्यम् पुनः पुनर् उवाच तम् ॥२-५२-
इक्ष्वाकूणाम् त्वया तुल्यम् सुहृदम् न उपलक्षये । यथा दशरथो राजा माम् न शोचेत् तथा कुरु ॥२-५२-
शोक उपहत चेताः च वृद्धः च जगती पतिः । काम भार अवसन्नः च तस्मात् एतत् ब्रवीमि ते ॥२-५२-
यद् यद् आज्ञापयेत् किम्चित् स महात्मा मही पतिः । कैकेय्याः प्रिय काम अर्थम् कार्यम् तत् अविकान्क्षया ॥२-५२-
एतत् अर्थम् हि राज्यानि प्रशासति नर ईश्वराः । यद् एषाम् सर्व कृत्येषु मनो न प्रतिहन्यते ॥२-५२-
यद्यथा स महा राजो न अलीकम् अधिगच्चति । न च ताम्यति दुह्खेन सुमन्त्र कुरु तत् तथा ॥२-५२-
अदृष्ट दुह्खम् राजानम् वृद्धम् आर्यम् जित इन्द्रियम् । ब्रूयाः त्वम् अभिवाद्य एव मम हेतोर् इदम् वचः ॥२-५२-
न एव अहम् अनुशोचामि लक्ष्मणो न च मैथिली । अयोध्यायाः च्युताः च इति वने वत्स्यामह इति वा (महेति!)॥२-५२-
चतुर् दशसु वर्षेषु निवृत्तेषु पुनः पुनः । लक्ष्मणम् माम् च सीताम् च द्रक्ष्यसि क्षिप्रम् आगतान् ॥२-५२-
एवम् उक्त्वा तु राजानम् मातरम् च सुमन्त्र मे । अन्याः च देवीः सहिताः कैकेयीम् च पुनः पुनः ॥२-५२-
आरोग्यम् ब्रूहि कौसल्याम् अथ पाद अभिवन्दनम् । सीताया मम च आर्यस्य वचनाल् लक्ष्मणस्य च ॥२-५२-
ब्रूयाः च हि महा राजम् भरतम् क्षिप्रम् आनय । आगतः च अपि भरतः स्थाप्यो नृप मते पदे ॥२-५२-
भरतम् च परिष्वज्य यौवराज्ये अभिषिच्य च । अस्मत् सम्तापजम् दुह्खम् न त्वाम् अभिभविष्यति ॥२-५२-
भरतः च अपि वक्तव्यो यथा राजनि वर्तसे । तथा मातृषु वर्तेथाः सर्वास्व् एव अविशेषतः ॥२-५२-
यथा च तव कैकेयी सुमित्रा च अविशेषतः । तथैव देवी कौसल्या मम माता विशेषतः ॥२-५२-
तातस्य प्रियकामेन यौवराज्यमपेक्षता । लोकयोरुभयोः शक्यम् त्वया यत्सुखमेधितुम् ॥२-५२-
निवर्त्यमानो रामेण सुमन्त्रः शोक कर्शितः । तत् सर्वम् वचनम् श्रुत्वा स्नेहात् काकुत्स्थम् अब्रवीत् ॥२-५२-
यद् अहम् न उपचारेण ब्रूयाम् स्नेहात् अविक्लवः । भक्तिमान् इति तत् तावद् वाक्यम् त्वम् क्षन्तुम् अर्हसि ॥२-५२-