यो मन्त्र तपसा लब्धो विविधैः च परिश्रमैः । एको दशरथस्य एष पुत्रः सदृश लक्षणः ॥२-५१-
अस्मिन् प्रव्रजितः राजा न चिरम् वर्तयिष्यति । विधवा मेदिनी नूनम् क्षिप्रम् एव भविष्यति ॥२-५१-
विनद्य सुमहा नादम् श्रमेण उपरताः स्त्रियः । निर्घोष उपरतम् तात मन्ये राज निवेशनम् ॥२-५१-
कौसल्या चैव राजा च तथैव जननी मम । न आशम्से यदि जीवन्ति सर्वे ते शर्वरीम् इमाम् ॥२-५१-
जीवेद् अपि हि मे माता शत्रुघ्नस्य अन्ववेक्षया । तत् दुह्खम् यत् तु कौसल्या वीरसूर् विनशिष्यति ॥२-५१-
अनुरक्त जन आकीर्णा सुख आलोक प्रिय आवहा । राज व्यसन सम्सृष्टा सा पुरी विनशिष्यति ॥२-५१-
कथम् पुत्रम् महात्मानम् ज्येष्ठम् प्रियमपस्यतः । शरीरम् धारयुष्यान्ति प्राणा राज्ञो महात्मनः ॥२-५१-
विनष्टे नृपतौ पश्चात्कौसल्या विनशिष्यति । अनन्तरम् च माताऽपि मम नाशमुपैष्यति ॥२-५१-
अतिक्रान्तम् अतिक्रान्तम् अनवाप्य मनोरथम् । राज्ये रामम् अनिक्षिप्य पिता मे विनशिष्यति ॥२-५१-
सिद्ध अर्थाः पितरम् वृत्तम् तस्मिन् काले हि उपस्थिते । प्रेत कार्येषु सर्वेषु सम्स्करिष्यन्ति भूमिपम् ॥२-५१-
रम्य चत्वर सम्स्थानाम् सुविभक्त महा पथाम् । हर्म्य प्रसाद सम्पन्नाम् गणिका वर शोभिताम् ॥२-५१-
रथ अश्व गज सम्बाधाम् तूर्य नाद विनादिताम् । सर्व कल्याण सम्पूर्णाम् हृष्ट पुष्ट जन आकुलाम् ॥२-५१-
आराम उद्यान सम्पन्नाम् समाज उत्सव शालिनीम् । सुखिता विचरिष्यन्ति राज धानीम् पितुर् मम ॥२-५१-
अपि जीवेद्धशरथो वनवासात्पुनर्वयम् । प्रत्यागम्य महात्मानमपि पश्येम सुव्रतम् ॥२-५१-
अपि सत्य प्रतिज्ञेन सार्धम् कुशलिना वयम् । निवृत्ते वन वासे अस्मिन्न् अयोध्याम् प्रविशेमहि ॥२-५१-
परिदेवयमानस्य दुह्ख आर्तस्य महात्मनः । तिष्ठतः राज पुत्रस्य शर्वरी सा अत्यवर्तत ॥२-५१-
तथा हि सत्यम् ब्रुवति प्रजा हिते । नर इन्द्र पुत्रे गुरु सौहृदात् गुहः । मुमोच बाष्पम् व्यसन अभिपीडितः । ज्वरा आतुरः नागैव व्यथा आतुरः ॥२-५१-
thumb|द्विपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्विपञ्चाशः सर्गः ॥२-
प्रभातायाम् तु शर्वर्याम् पृथु वृक्षा महा यशाः । उवाच रामः सौमित्रिम् लक्ष्मणम् शुभ लक्षणम् ॥२-५२-
भास्कर उदय कालो अयम् गता भगवती निशा । असौ सुकृष्णो विहगः कोकिलः तात कूजति ॥२-५२-
बर्हिणानाम् च निर्घोषः श्रूयते नदताम् वने । तराम जाह्नवीम् सौम्य शीघ्रगाम् सागरम् गमाम् ॥२-५२-
विज्ञाय रामस्य वचः सौमित्रिर् मित्र नन्दनः । गुहम् आमन्त्र्य सूतम् च सो अतिष्ठद् भ्रातुर् अग्रतः ॥२-५२-
स तु रामस्य वचनम् निशम्य प्रतिगृह्य च । स्थपतिस्तूर्णमाहुय सचिवानिदमब्रवीत् ॥२-५२-
अस्य वाहनसम्युक्ताम् कर्णग्राहवतीम् शुभाम् । सुप्रताराम् दृढाम् तीर्खे शीग्रम् नावमुपाहर ॥२-५२-
तम् निशम्य समादेशम् गुहामात्यगणो महान् । उपोह्य रुचिराम् नावम् गुहाय प्रत्यवेदयत् ॥२-५२-
ततः सप्राञ्जलिर्भूत्वा गुहो राघवमब्रवीत् । उपस्थितेयम् नौर्देव भूयः किम् करवाणि ते ॥२-५२-
तवामरसुतप्रख्य तर्तुम् सागरगाम् नदीम् । नौरियम् पुरुषव्याग्र! ताम् त्वमारोह सुव्रत! ॥२-५२-
अथोवाच महातेजा रामो गुहमिदम् वचः । कृतकामोऽस्मि भवता शीघ्रमारोप्यतामिति ॥२-५२-
ततः कलापान् सम्नह्य खड्गौ बद्ध्वा च धन्विनौ । जग्मतुर् येन तौ गन्गाम् सीतया सह राघवौ ॥२-५२-
रामम् एव तु धर्मज्ञम् उपगम्य विनीतवत् । किम् अहम् करवाणि इति सूतः प्रान्जलिर् अब्रवीत् ॥२-५२-