ततो धान्यधनोपेतान् दानशीलजनान् शिवान् । अकुतश्चिद्भयान् रम्याम् श्चैत्ययूपसमावृतान् ॥२-५०-
उद्यानाम्रवनोपेतान् सम्पन्नसलिलाशयान् । तुष्टपुष्टजनाकीर्णान् गोकुलाकुलसेवितान् ॥२-५०-
लक्षणीयान्न रेम्द्राणाम् ब्रह्मघोषाभिनादितान् । रथेन पुरुषव्याघ्रः कोसलानत्यवर्तत ॥२-५०-
मध्येन मुदितम् स्फीतम् रम्योद्यानसमाकुलम् । राज्यम् भोग्यम् नरेन्द्राणाम् ययौ धृतिमताम् वरः ॥२-५०-
तत्र त्रिपथगाम् दिव्याम् शिव तोयाम् अशैवलाम् । ददर्श राघवो गन्गाम् पुण्याम् ऋषि निसेविताम् ॥२-५०-
आश्रमैरविदूर्स्थैः श्रीमद्भिः समलम् कृताम् । कालेऽप्सरोभिर्हृष्टाभिः सेविताम्भोह्रदाम् शिवाम् ॥२-५०-
देवदानवगन्धर्वैः किन्नरैरुपशोभिताम् । नागगन्धर्वपत्नीभिः सेविताम् सततम् शिवाम् ॥२-५०-
देवाक्रीडशताकीर्णाम् देवोद्यानशतायुताम् । देवार्थमाकाशगमाम् विख्याताम् देवपद्मिनीम् ॥२-५०-
जलघाताट्टहासोग्राम् फेननिर्मलहासिनीम् । क्वचिद्वेणीकृतजलाम् क्वचिदावर्तशोभिताम् ॥२-५०-
क्वचित्स्तिमितगम्भीराम् क्वचिद्वेगजलाकुलाम् । क्वचिद्गम्भीरनिर्घोषाम् क्वचिद्भैरवनिस्वनाम् ॥२-५०-
देवसम्घाप्लुतजलाम् निर्मलोत्पलशोभिताम् । क्वचिदाभोगपुलिनाम् क्वचिन्नर्मलवालुकाम् ॥२-५०-
हम्स सरस सम्घुष्टाम् चक्र वाक उपकूजिताम् । सदामदैश्च विहगैरभिसम्नादिताम् तराम् ॥२-५०-
क्वचित्तीररुहैर्वृक्षैर्मालाभिरिव शोभिताम् । क्वचित्फुल्लोत्पलच्छन्नाम् क्वचित्पद्मवनाकुलाम् ॥२-५०-
क्वचित्कुमुदष्ण्डैश्च कुड्मलैरुपशोभिताम् । नानापुष्परजोध्वस्ताम् समदामिव च क्वचित् ॥२-५०-
व्यपेतमलसम्घाताम् मणिनिर्मलदर्शनाम् । दिशागजैर्वनगजैर्मत्तैश्च वरवारणैः ॥२-५०-
देवोपवाह्यश्च मुहुः सम्नादितवनान्तराम् । प्रमदामिव यत्ने न भूषिताम् भूषणोत्तमैः ॥२-५०-
फलैः पुष्पैः किसलयैर्वऋताम् गुल्मैद्द्विजैस्तथा । शिम्शुमरैः च नक्रैः च भुजम्गैः च निषेविताम् ॥२-५०-
विष्णुपादच्युताम् दिव्यामपापाम् पापनाशिनीम् । ताम् शङ्करजटाजूटाद्भ्रष्टाम् सागरतेजसा ॥२-५०-
समुद्रमहीषीम् गङ्गाम् सारसक्रौञ्चनादिताम् । आससाद महाबाहुः शृङ्गिबेरपुरम् प्रति ॥२-५०-
ताम् ऊर्मि कलिल आवर्ताम् अन्ववेक्ष्य महा रथः । सुमन्त्रम् अब्रवीत् सूतम् इह एव अद्य वसामहे ॥२-५०-
अविदूरात् अयम् नद्या बहु पुष्प प्रवालवान् । सुमहान् इन्गुदी वृक्षो वसामः अत्र एव सारथे ॥२-५०-
द्रक्ष्यामः सरिताम् श्रेष्ठाम् सम्मान्यसलिलाम् शिवाम् । देवदानवगन्धर्वमृगमानुषपक्षिणाम् ॥२-५०-
लक्षणः च सुमन्त्रः च बाढम् इति एव राघवम् । उक्त्वा तम् इन्गुदी वृक्षम् तदा उपययतुर् हयैः ॥२-५०-
रामः अभियाय तम् रम्यम् वृक्षम् इक्ष्वाकु नन्दनः । रथात् अवातरत् तस्मात् सभार्यः सह लक्ष्मणः ॥२-५०-
सुमन्त्रः अपि अवतीर्य एव मोचयित्वा हय उत्तमान् । वृक्ष मूल गतम् रामम् उपतस्थे कृत अन्जलिः ॥२-५०-
तत्र राजा गुहो नाम रामस्य आत्म समः सखा । निषाद जात्यो बलवान् स्थपतिः च इति विश्रुतः ॥२-५०-
स श्रुत्वा पुरुष व्याघ्रम् रामम् विषयम् आगतम् । वृद्धैः परिवृतः अमात्यैः ज्ञातिभिः च अपि उपागतः ॥२-५०-
ततः निषाद अधिपतिम् दृष्ट्वा दूरात् अवस्थितम् । सह सौमित्रिणा रामः समागच्चद् गुहेन सः ॥२-५०-
तम् आर्तः सम्परिष्वज्य गुहो राघवम् अब्रवीत् । यथा अयोध्या तथा इदम् ते राम किम् करवाणि ते ॥२-५०-
ईदृशम् हि महाबाहो कः प्रप्स्यत्यतिथिम् प्रियम् । ततः गुणवद् अन्न अद्यम् उपादाय पृथग् विधम् । अर्घ्यम् च उपानयत् क्षिप्रम् वाक्यम् च इदम् उवाच ह ॥२-५०-