कथम् नाम महाभागा सीता जनकनन्दिनी । सदा सुखेष्वभिरता दुःखान्यनुभविष्यति ॥२-४९-
अहो दशरथो राजा निस्नेहः स्वसुत प्रियम् । प्रजानामनघम् रामम् परित्यक्तुमिहेच्छति ॥२-४९-
एता वाचो मनुष्याणाम् ग्राम सम्वास वासिनाम् । शृण्वन्न् अति ययौ वीरः कोसलान् कोसल ईश्वरः ॥२-४९-
ततः वेद श्रुतिम् नाम शिव वारि वहाम् नदीम् । उत्तीर्य अभिमुखः प्रायात् अगस्त्य अध्युषिताम् दिशम् ॥२-४९-
गत्वा तु सुचिरम् कालम् ततः शीत जलाम् नदीम् । गोमतीम् गोयुत अनूपाम् अतरत् सागरम् गमाम् ॥२-४९-
गोमतीम् च अपि अतिक्रम्य राघवः शीघ्रगैः हयैः । मयूर हम्स अभिरुताम् ततार स्यन्दिकाम् नदीम् ॥२-४९-
स महीम् मनुना राज्ञा दत्ताम् इक्ष्वाकवे पुरा । स्फीताम् राष्ट्र आवृताम् रामः वैदेहीम् अन्वदर्शयत् ॥२-४९-
सूतैति एव च आभाष्य सारथिम् तम् अभीक्ष्णशः । हम्स मत्त स्वरः श्रीमान् उवाच पुरुष ऋषभः ॥२-४९-
कदा अहम् पुनर् आगम्य सरय्वाः पुष्पिते वने । मृगयाम् पर्याटष्यामि मात्रा पित्रा च सम्गतः ॥२-४९-
न अत्यर्थम् अभिकान्क्षामि मृगयाम् सरयू वने । रतिर् हि एषा अतुला लोके राज ऋषि गण सम्मता ॥२-४९-
राजर्षीणाम् हि लोकेऽस्मिन् रत्यर्थम् मृगया वने । काले कृताम् ताम् मनुजैर्धन्विनामभिकाङ्क्षिताम् ॥२-४९-
स तम् अध्वानम् ऐक्ष्वाकः सूतम् मधुरया गिरातम् तम् अर्थम् अभिप्रेत्य ययौवाक्यम् उदीरयन् ॥२-४९-
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकोनपञ्चाशः सर्गः ॥२-
thumb|पञ्चाशः सर्गः श्रूयताम्|center विशालान् कोसलान् रम्यान् यात्वा लक्ष्मण पूर्वजः । अयोध्याभिमुखो धीमान् प्राञ्ञ्लिर्वाक्वमब्रवीत् ॥२-५०-
आपृच्छे त्वाम् पुरीश्रेष्ठे काकुत्स्थपरिपालिते । दैवतानि च यानि त्वाम् पालयन्त्यावसन्ति च ॥२-५०-
निवृत्तवनवासस्त्वामनृणो जगतीपतेः । पुनर्ध्रक्ष्यामि मात्रा च पित्रा च सह सम्गतः ॥२-५०-
ततो रुधिरताम्राक्षो भुजमुद्यम्य दक्षिणम् । अश्रुपूर्णमुखो दीनोऽब्रवीज्जानपदम् जनम् ॥२-५०-
अनुक्रोशो दया चैव यथार्हम् मयि वह् कृतः । चिरम् दुःखस्य पापीयो गम्यतामर्थसिद्धये ॥२-५०-
तेऽभिवाद्य महात्मानम् कृत्वा चापि प्रदक्षिणम् । विलपन्तो नरा घोरम् व्यतिष्ठन्त क्वचित् क्वचित् ॥२-५०-
तथा विलपताम् तेषामतृप्तानाम् च राघवः । अचक्षुरिषयम् प्रायाद्यथार्कः क्षणदामुखे ॥२-५०-
ततो धान्यधनोपेतान् दानशीलजनान् शिवान् । अकुतश्चिद्भयान् रम्याम् श्चैत्ययूपसमावृतान् ॥२-५०-
उद्यानाम्रवनोपेतान् सम्पन्नसलिलाशयान् । तुष्टपुष्टजनाकीर्णान् गोकुलाकुलसेवितान् ॥२-५०-
लक्षणीयान्न रेम्द्राणाम् ब्रह्मघोषाभिनादितान् । रथेन पुरुषव्याघ्रः कोसलानत्यवर्तत ॥२-५०-
मध्येन मुदितम् स्फीतम् रम्योद्यानसमाकुलम् । राज्यम् भोग्यम् नरेन्द्राणाम् ययौ धृतिमताम् वरः ॥२-५०-
तत्र त्रिपथगाम् दिव्याम् शिव तोयाम् अशैवलाम् । ददर्श राघवो गन्गाम् पुण्याम् ऋषि निसेविताम् ॥२-५०-
आश्रमैरविदूर्स्थैः श्रीमद्भिः समलम् कृताम् । कालेऽप्सरोभिर्हृष्टाभिः सेविताम्भोह्रदाम् शिवाम् ॥२-५०-
देवदानवगन्धर्वैः किन्नरैरुपशोभिताम् । नागगन्धर्वपत्नीभिः सेविताम् सततम् शिवाम् ॥२-५०-
देवाक्रीडशताकीर्णाम् देवोद्यानशतायुताम् । देवार्थमाकाशगमाम् विख्याताम् देवपद्मिनीम् ॥२-५०-
जलघाताट्टहासोग्राम् फेननिर्मलहासिनीम् । क्वचिद्वेणीकृतजलाम् क्वचिदावर्तशोभिताम् ॥२-५०-
क्वचित्स्तिमितगम्भीराम् क्वचिद्वेगजलाकुलाम् । क्वचिद्गम्भीरनिर्घोषाम् क्वचिद्भैरवनिस्वनाम् ॥२-५०-