पादपाः पर्वत अग्रेषु रमयिष्यन्ति राघवम् । यत्र रामः भयम् न अत्र न अस्ति तत्र पराभवः ॥२-४८-
स हि शूरः महा बाहुः पुत्रः दशरथस्य च । पुरा भवति नो दूरात् अनुगच्चाम राघवम् ॥२-४८-
पादच् चाया सुखा भर्तुस् तादृशस्य महात्मनः । स हि नाथो जनस्य अस्य स गतिः स परायणम् ॥२-४८-
वयम् परिचरिष्यामः सीताम् यूयम् तु राघवम् । इति पौर स्त्रियो भर्तृऋन् दुह्ख आर्ताः तत् तत् अब्रुवन् ॥२-४८-
युष्माकम् राघवो अरण्ये योग क्षेमम् विधास्यति । सीता नारी जनस्य अस्य योग क्षेमम् करिष्यति ॥२-४८-
को न्व् अनेन अप्रतीतेन स उत्कण्ठित जनेन च । सम्प्रीयेत अमनोज्ञेन वासेन हृत चेतसा ॥२-४८-
कैकेय्या यदि चेद् राज्यम् स्यात् अधर्म्यम् अनाथवत् । न हि नो जीवितेन अर्थः कुतः पुत्रैः कुतः धनैः ॥२-४८-
यया पुत्रः च भर्ता च त्यक्ताव् ऐश्वर्य कारणात् । कम् सा परिहरेद् अन्यम् कैकेयी कुल पाम्सनी ॥२-४८-
कैकेय्या न वयम् राज्ये भृतका निवसेमहि । जीवन्त्या जातु जीवन्त्यः पुत्रैः अपि शपामहे ॥२-४८-
या पुत्रम् पार्थिव इन्द्रस्य प्रवासयति निर्घृणा । कः ताम् प्राप्य सुखम् जीवेद् अधर्म्याम् दुष्ट चारिणीम् ॥२-४८-
उपद्रुतमिदम् सर्वमनालम्बमनायकम् । कैकेय्या हि कृते सर्वम् विनाशमुपयास्यति ॥२-४८-
न हि प्रव्रजिते रामे जीविष्यति मही पतिः । मृते दशरथे व्यक्तम् विलोपः तत् अनन्तरम् ॥२-४८-
ते विषम् पिबत आलोड्य क्षीण पुण्याः सुदुर्गताः । राघवम् वा अनुगच्चध्वम् अश्रुतिम् वा अपि गच्चत ॥२-४८-
मिथ्या प्रव्राजितः रामः सभार्यः सह लक्ष्मणः । भरते सम्निषृष्टाः स्मः सौनिके पशवो यथा ॥२-४८-
पूर्णचन्द्राननः श्यामो गूढजत्रुररिंदमः । आजानुबाहुः पद्माक्षो रामो लक्ष्मनपूर्वजः ॥२-४८-
पूर्वाभिभाषी मधुरः सत्यवादी महाबलः । सौम्यः सर्वस्य लोकस्य चन्द्रवत्प्रियदर्शनः ॥२-४८-
नूनम् पुरुषशार्दूलो मत्तमातङ्गविक्रमः । शोभयुश्यत्यरण्यानि विचरन् स महारथः ॥२-४८-
तास्तथा विलपन्त्यस्तु नगरे नागरस्त्रियः । चुक्रुशुर्दुःखसम्तप्तामृत्योरिव भयागमे ॥२-४८-
इत्येव विलपन्तीनाम् स्त्रीणाम् वेश्मसु राघवम् । जगामास्तम् दिनकरो रजनी चाभ्यवर्तत ॥२-४८-
नष्टज्वलनसम्पाता प्रशान्ताध्यायसत्कथा । तिमिरेणाभिलिप्तेव तदा सा नगरी बभौ ॥२-४८-
उपशान्तवणिक्पण्या नष्टहर्षा निराश्रया । अयोध्या नगरी चासीन्नष्टतारमिवाम्बरम् ॥२-४८-
तथा स्त्रियो राम निमित्तम् आतुरा । यथा सुते भ्रातरि वा विवासिते । विलप्य दीना रुरुदुर् विचेतसः । सुतैः हि तासाम् अधिको हि सो अभवत् ॥२-४८-
प्रशान्तगीतोत्सव नृत्तवादना । व्यपास्तहर्षा पिहितापणोदया । तदा ह्ययोध्या नगरी बभूव सा । महार्णवः सम्क्षपितोदको यथा ॥२-४८-
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे अष्टचत्वारिंशः सर्गः ॥२-
thumb|नवचत्वारिंशः सर्गः श्रूयताम्|center]] रामः अपि रात्रि शेषेण तेन एव महद् अन्तरम् । जगाम पुरुष व्याघ्रः पितुर् आज्ञाम् अनुस्मरन् ॥२-४९-
तथैव गच्चतः तस्य व्यपायात् रजनी शिवा । उपास्य स शिवाम् सम्ध्याम् विषय अन्तम् व्यगाहत ॥२-४९-
ग्रामान् विकृष्ट सीमान् तान् पुष्पितानि वनानि च । पश्यन्न् अतिययौ शीघ्रम् शरैः इव हय उत्तमैः ॥२-४९-
शृण्वन् वाचो मनुष्याणाम् ग्राम सम्वास वासिनाम् । राजानम् धिग् दशरथम् कामस्य वशम् आगतम् ॥२-४९-
हा नृशम्स अद्य कैकेयी पापा पाप अनुबन्धिनी । तीक्ष्णा सम्भिन्न मर्यादा तीक्ष्णे कर्मणि वर्तते ॥२-४९-
या पुत्रम् ईदृशम् राज्ञः प्रवासयति धार्मिकम् । वन वासे महा प्राज्ञम् सानुक्रोशम् अतन्द्रितम् ॥२-४९-