रथमार्गानुसारेण न्यवर्तन्त मनस्विनः। किमिदं किं करिष्यामो दैवेनोपहता इति
तदा यथागतेनैव मार्गेण क्लान्तचेतसः। अयोध्यामगमन् सर्वे पुरीं व्यथितसज्जनाम्
आलोक्य नगरीं तां च क्षयव्याकुलमानसाः। आवर्तयन्त तेऽश्रूणि नयनैः शोकपीडितैः
एषा रामेण नगरी रहिता नातिशोभते। आपगा गरुडेनेव ह्रदादुद्धृतपन्नगा
चन्द्रहीनमिवाकाशं तोयहीनमिवार्णवम्। अपश्यन् निहतानन्दं नगरं ते विचेतसः
ते तानि वेश्मानि महाधनानि दुःखेन दुःखोपहता विशन्तः। नैव प्रजग्मुः स्वजनं परं वा निरीक्ष्यमाणाः प्रविनष्टहर्षाः
thumb| अष्टचत्वारिंशः सर्गः श्रूयताम्|center तेषामेवम् विष्ण्णानाम्पीडितानामतीव च । बाष्पविप्लुतनेत्राणाम् सशोकानाम् मुमूर्षया ॥२-४८-
अनुगम्य निवृत्तानाम् रामम् नगर वासिनाम् । उद्गतानि इव सत्त्वानि बभूवुर् अमनस्विनाम् ॥२-४८-
स्वम् स्वम् निलयम् आगम्य पुत्र दारैः समावृताः । अश्रूणि मुमुचुः सर्वे बाष्पेण पिहित आननाः ॥२-४८-
न च आहृष्यन् न च अमोदन् वणिजो न प्रसारयन् । न च अशोभन्त पण्यानि न अपचन् गृह मेधिनः ॥२-४८-
नष्टम् दृष्ट्वा न अभ्यनन्दन् विपुलम् वा धन आगमम् । पुत्रम् प्रथमजम् लब्ध्वा जननी न अभ्यनन्दत ॥२-४८-
गृहे गृहे रुदन्त्यः च भर्तारम् गृहम् आगतम् । व्यगर्हयन्तः दुह्ख आर्ता वाग्भिस् तोत्रैः इव द्विपान् ॥२-४८-
किम् नु तेषाम् गृहैः कार्यम् किम् दारैः किम् धनेन वा । पुत्रैः वा किम् सुखैः वा अपि ये न पश्यन्ति राघवम् ॥२-४८-
एकः सत् पुरुषो लोके लक्ष्मणः सह सीतया । यो अनुगच्चति काकुत्स्थम् रामम् परिचरन् वने ॥२-४८-
आपगाः कृत पुण्याः ताः पद्मिन्यः च सराम्सि च । येषु स्नास्यति काकुत्स्थो विगाह्य सलिलम् शुचि ॥२-४८-
शोभयिष्यन्ति काकुत्स्थम् अटव्यो रम्य काननाः । आपगाः च महा अनूपाः सानुमन्तः च पर्वताः ॥२-४८-
काननम् वा अपि शैलम् वा यम् रामः अभिगमिष्यति । प्रिय अतिथिम् इव प्राप्तम् न एनम् शक्ष्यन्ति अनर्चितुम् ॥२-४८-
विचित्र कुसुम आपीडा बहु मन्जलि धारिणः । अकाले च अपि मुख्यानि पुष्पाणि च फलानि च ॥२-४८-
अकाले चापि मुख्यानि पुष्पाणि च फलानि च । दर्शयिष्यन्ति अनुक्रोशात् गिरयो रामम् आगतम् ॥२-४८-
प्रस्रविष्यन्ति तोयानि विमलानि महीधराः । विदर्शयन्तः विविधान् भूयः चित्रामः च निर्झरान् ॥२-४८-
पादपाः पर्वत अग्रेषु रमयिष्यन्ति राघवम् । यत्र रामः भयम् न अत्र न अस्ति तत्र पराभवः ॥२-४८-
स हि शूरः महा बाहुः पुत्रः दशरथस्य च । पुरा भवति नो दूरात् अनुगच्चाम राघवम् ॥२-४८-
पादच् चाया सुखा भर्तुस् तादृशस्य महात्मनः । स हि नाथो जनस्य अस्य स गतिः स परायणम् ॥२-४८-
वयम् परिचरिष्यामः सीताम् यूयम् तु राघवम् । इति पौर स्त्रियो भर्तृऋन् दुह्ख आर्ताः तत् तत् अब्रुवन् ॥२-४८-
युष्माकम् राघवो अरण्ये योग क्षेमम् विधास्यति । सीता नारी जनस्य अस्य योग क्षेमम् करिष्यति ॥२-४८-
को न्व् अनेन अप्रतीतेन स उत्कण्ठित जनेन च । सम्प्रीयेत अमनोज्ञेन वासेन हृत चेतसा ॥२-४८-
कैकेय्या यदि चेद् राज्यम् स्यात् अधर्म्यम् अनाथवत् । न हि नो जीवितेन अर्थः कुतः पुत्रैः कुतः धनैः ॥२-४८-
यया पुत्रः च भर्ता च त्यक्ताव् ऐश्वर्य कारणात् । कम् सा परिहरेद् अन्यम् कैकेयी कुल पाम्सनी ॥२-४८-
कैकेय्या न वयम् राज्ये भृतका निवसेमहि । जीवन्त्या जातु जीवन्त्यः पुत्रैः अपि शपामहे ॥२-४८-
या पुत्रम् पार्थिव इन्द्रस्य प्रवासयति निर्घृणा । कः ताम् प्राप्य सुखम् जीवेद् अधर्म्याम् दुष्ट चारिणीम् ॥२-४८-