धिगस्तु खलु निद्रां तां ययापहतचेतसः। नाद्य पश्यामहे रामं पृथूरस्कं महाभुजम्
कथं रामो महाबाहुः स तथावितथक्रियः। भक्तं जनमभित्यज्य प्रवासं तापसो गतः
यो नः सदा पालयति पिता पुत्रानिवौरसान्। कथं रघूणां स श्रेष्ठस्त्यक्त्वा नो विपिनं गतः
इहैव निधनं याम महाप्रस्थानमेव वा। रामेण रहितानां नो किमर्थं जीवितं हितम्
सन्ति शुष्काणि काष्ठानि प्रभूतानि महान्ति च। तैः प्रज्वाल्य चितां सर्वे प्रविशामोऽथवा वयम्
किं वक्ष्यामो महाबाहुरनसूयः प्रियंवदः। नीतः स राघवोऽस्माभिरिति वक्तुं कथं क्षमम्
सा नूनं नगरी दीना दृष्ट्वास्मान् राघवं विना। भविष्यति निरानन्दा सस्त्रीबालवयोऽधिका
निर्यातास्तेन वीरेण सह नित्यं महात्मना। विहीनास्तेन च पुनः कथं द्रक्ष्याम तां पुरीम्
इतीव बहुधा वाचो बाहुमुद्यम्य ते जनाः। विलपन्ति स्म दुःखार्ता हृतवत्सा इवाग्र्यगाः
ततो मार्गानुसारेण गत्वा किंचित् ततः क्षणम्। मार्गनाशाद् विषादेन महता समभिप्लुताः
रथमार्गानुसारेण न्यवर्तन्त मनस्विनः। किमिदं किं करिष्यामो दैवेनोपहता इति
तदा यथागतेनैव मार्गेण क्लान्तचेतसः। अयोध्यामगमन् सर्वे पुरीं व्यथितसज्जनाम्
आलोक्य नगरीं तां च क्षयव्याकुलमानसाः। आवर्तयन्त तेऽश्रूणि नयनैः शोकपीडितैः
एषा रामेण नगरी रहिता नातिशोभते। आपगा गरुडेनेव ह्रदादुद्धृतपन्नगा
चन्द्रहीनमिवाकाशं तोयहीनमिवार्णवम्। अपश्यन् निहतानन्दं नगरं ते विचेतसः
ते तानि वेश्मानि महाधनानि दुःखेन दुःखोपहता विशन्तः। नैव प्रजग्मुः स्वजनं परं वा निरीक्ष्यमाणाः प्रविनष्टहर्षाः
thumb| अष्टचत्वारिंशः सर्गः श्रूयताम्|center तेषामेवम् विष्ण्णानाम्पीडितानामतीव च । बाष्पविप्लुतनेत्राणाम् सशोकानाम् मुमूर्षया ॥२-४८-
अनुगम्य निवृत्तानाम् रामम् नगर वासिनाम् । उद्गतानि इव सत्त्वानि बभूवुर् अमनस्विनाम् ॥२-४८-
स्वम् स्वम् निलयम् आगम्य पुत्र दारैः समावृताः । अश्रूणि मुमुचुः सर्वे बाष्पेण पिहित आननाः ॥२-४८-
न च आहृष्यन् न च अमोदन् वणिजो न प्रसारयन् । न च अशोभन्त पण्यानि न अपचन् गृह मेधिनः ॥२-४८-
नष्टम् दृष्ट्वा न अभ्यनन्दन् विपुलम् वा धन आगमम् । पुत्रम् प्रथमजम् लब्ध्वा जननी न अभ्यनन्दत ॥२-४८-
गृहे गृहे रुदन्त्यः च भर्तारम् गृहम् आगतम् । व्यगर्हयन्तः दुह्ख आर्ता वाग्भिस् तोत्रैः इव द्विपान् ॥२-४८-
किम् नु तेषाम् गृहैः कार्यम् किम् दारैः किम् धनेन वा । पुत्रैः वा किम् सुखैः वा अपि ये न पश्यन्ति राघवम् ॥२-४८-
एकः सत् पुरुषो लोके लक्ष्मणः सह सीतया । यो अनुगच्चति काकुत्स्थम् रामम् परिचरन् वने ॥२-४८-
आपगाः कृत पुण्याः ताः पद्मिन्यः च सराम्सि च । येषु स्नास्यति काकुत्स्थो विगाह्य सलिलम् शुचि ॥२-४८-
शोभयिष्यन्ति काकुत्स्थम् अटव्यो रम्य काननाः । आपगाः च महा अनूपाः सानुमन्तः च पर्वताः ॥२-४८-
काननम् वा अपि शैलम् वा यम् रामः अभिगमिष्यति । प्रिय अतिथिम् इव प्राप्तम् न एनम् शक्ष्यन्ति अनर्चितुम् ॥२-४८-
विचित्र कुसुम आपीडा बहु मन्जलि धारिणः । अकाले च अपि मुख्यानि पुष्पाणि च फलानि च ॥२-४८-
अकाले चापि मुख्यानि पुष्पाणि च फलानि च । दर्शयिष्यन्ति अनुक्रोशात् गिरयो रामम् आगतम् ॥२-४८-
प्रस्रविष्यन्ति तोयानि विमलानि महीधराः । विदर्शयन्तः विविधान् भूयः चित्रामः च निर्झरान् ॥२-४८-