त्वया कार्यं नरव्याघ्र मामनुव्रजता कृतम्। अन्वेष्टव्या हि वैदेह्या रक्षणार्थं सहायता
अद्भिरेव हि सौमित्रे वत्स्याम्यद्य निशामिमाम्। एतद्धि रोचते मह्यं वन्येऽपि विविधे सति
एवमुक्त्वा तु सौमित्रिं सुमन्त्रमपि राघवः। अप्रमत्तस्त्वमश्वेषु भव सौम्येत्युवाच ह
सोऽश्वान् सुमन्त्रः संयम्य सूर्येऽस्तं समुपागते। प्रभूतयवसान् कृत्वा बभूव प्रत्यनन्तरः
उपास्य तु शिवां संध्यां दृष्ट्वा रात्रिमुपागताम्। रामस्य शयनं चक्रे सूतः सौमित्रिणा सह
तां शय्यां तमसातीरे वीक्ष्य वृक्षदलैर्वृताम्। रामः सौमित्रिणा सार्धं सभार्यः संविवेश ह
सभार्यं सम्प्रसुप्तं तु श्रान्तं सम्प्रेक्ष्य लक्ष्मणः। कथयामास सूताय रामस्य विविधान् गुणान्
जाग्रतोरेव तां रात्रिं सौमित्रेरुदितो रविः। सूतस्य तमसातीरे रामस्य ब्रुवतो गुणान्
गोकुलाकुलतीरायास्तमसाया विदूरतः। अवसत् तत्र तां रात्रिं रामः प्रकृतिभिः सह
उत्थाय च महातेजाः प्रकृतीस्ता निशाम्य च। अब्रवीद् भ्रातरं रामो लक्ष्मणं पुण्यलक्षणम्
अस्मद्व्यपेक्षान् सौमित्रे निर्व्यपेक्षान् गृहेष्वपि। वृक्षमूलेषु संसक्तान् पश्य लक्ष्मण साम्प्रतम्
यथैते नियमं पौराः कुर्वन्त्यस्मन्निवर्तने। अपि प्राणान् न्यसिष्यन्ति न तु त्यक्ष्यन्ति निश्चयम्
यावदेव तु संसुप्तास्तावदेव वयं लघु। रथमारुह्य गच्छामः पन्थानमकुतोभयम्
अतो भूयोऽपि नेदानीमिक्ष्वाकुपुरवासिनः। स्वपेयुरनुरक्ता मा वृक्षमूलेषु संश्रिताः
पौरा ह्यात्मकृताद् दुःखाद् विप्रमोच्या नृपात्मजैः। न तु खल्वात्मना योज्या दुःखेन पुरवासिनः
अब्रवील्लक्ष्मणो रामं साक्षाद् धर्ममिव स्थितम्। रोचते मे तथा प्राज्ञ क्षिप्रमारुह्यतामिति
अथ रामोऽब्रवीत् सूतं शीघ्रं संयुज्यतां रथः। गमिष्यामि ततोऽरण्यं गच्छ शीघ्रमितः प्रभो
सूतस्ततः संत्वरितः स्यन्दनं तैर्हयोत्तमैः। योजयित्वा तु रामस्य प्राञ्जलिः प्रत्यवेदयत्
अयं युक्तो महाबाहो रथस्ते रथिनां वर। त्वरयाऽऽरोह भद्रं ते ससीतः सहलक्ष्मणः
तं स्यन्दनमधिष्ठाय राघवः सपरिच्छदः। शीघ्रगामाकुलावर्तां तमसामतरन्नदीम्
स संतीर्य महाबाहुः श्रीमान् शिवमकण्टकम्। प्रापद्यत महामार्गमभयं भयदर्शिनाम्
मोहनार्थं तु पौराणां सूतं रामोऽब्रवीद् वचः। उदङ्मुखः प्रयाहि त्वं रथमारुह्य सारथे
मुहूर्तं त्वरितं गत्वा निवर्तय रथं पुनः। यथा न विद्युः पौरा मां तथा कुरु समाहितः
रामस्य तु वचः श्रुत्वा तथा चक्रे च सारथिः। प्रत्यागम्य च रामस्य स्यन्दनं प्रत्यवेदयत्
तौ सम्प्रयुक्तं तु रथं समास्थितौ तदा ससीतौ रघुवंशवर्धनौ। प्रचोदयामास ततस्तुरंगमान् स सारथिर्येन पथा तपोवनम्
ततः समास्थाय रथं महारथः ससारथिर्दाशरथिर्वनं ययौ। उदङ्मुखं तं तु रथं चकार प्रयाणमाङ्गल्यनिमित्तदर्शनात्
thumb|सप्तचत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तचत्वारिंशः सर्गः ॥२-
प्रभातायां तु शर्वर्यां पौरास्ते राघवं विना। शोकोपहतनिश्चेष्टा बभूवुर्हतचेतसः
शोकजाश्रुपरिद्यूना वीक्षमाणास्ततस्ततः। आलोकमपि रामस्य न पश्यन्ति स्म दुःखिताः
ते विषादार्तवदना रहितास्तेन धीमता। कृपणाः करुणा वाचो वदन्ति स्म मनीषिणः