ते द्विजास्त्रिविधं वृद्धा ज्ञानेन वयसौजसा। वयःप्रकम्पशिरसो दूरादूचुरिदं वचः
वहन्तो जवना रामं भो भो जात्यास्तुरंगमाः। निवर्तध्वं न गन्तव्यं हिता भवत भर्तरि
कर्णवन्ति हि भूतानि विशेषेण तुरङ्गमाः। यूयं तस्मान्निवर्तध्वं याचनां प्रतिवेदिताः
धर्मतः स विशुद्धात्मा वीरः शुभदृढव्रतः। उपवाह्यस्तु वो भर्ता नापवाह्यः पुराद् वनम्
एवमार्तप्रलापांस्तान् वृद्धान् प्रलपतो द्विजान्। अवेक्ष्य सहसा रामो रथादवततार ह
पद्भ्यामेव जगामाथ ससीतः सहलक्ष्मणः। संनिकृष्टपदन्यासो रामो वनपरायणः
द्विजातीन् हि पदातींस्तान् रामश्चारित्रवत्सलः। न शशाक घृणाचक्षुः परिमोक्तुं रथेन सः
गच्छन्तमेव तं दृष्ट्वा रामं सम्भ्रान्तमानसाः। ऊचुः परमसंतप्ता रामं वाक्यमिदं द्विजाः
ब्राह्मण्यं कृत्स्नमेतत् त्वां ब्रह्मण्यमनुगच्छति। द्विजस्कन्धाधिरूढास्त्वामग्नयोऽप्यनुयान्त्वमी
वाजपेयसमुत्थानि च्छत्राण्येतानि पश्य नः। पृष्ठतोऽनुप्रयातानि मेघानिव जलात्यये
अनवाप्तातपत्रस्य रश्मिसंतापितस्य ते। एभिश्छायां करिष्यामः स्वैश्छत्रैर्वाजपेयकैः
या हि नः सततं बुद्धिर्वेदमन्त्रानुसारिणी। त्वत्कृते सा कृता वत्स वनवासानुसारिणी
हृदयेष्ववतिष्ठन्ते वेदा ये नः परं धनम्। वत्स्यन्त्यपि गृहेष्वेव दाराश्चारित्ररक्षिताः
पुनर्न निश्चयः कार्यस्त्वद्गतौ सुकृता मतिः। त्वयि धर्मव्यपेक्षे तु किं स्याद् धर्मपथे स्थितम्
याचितो नो निवर्तस्व हंसशुक्लशिरोरुहैः। शिरोभिर्निभृताचार महीपतनपांसुलैः
बहूनां वितता यज्ञा द्विजानां य इहागताः। तेषां समाप्तिरायत्ता तव वत्स निवर्तने
भक्तिमन्तीह भूतानि जङ्गमाजङ्गमानि च। याचमानेषु तेषु त्वं भक्तिं भक्तेषु दर्शय
अनुगन्तुमशक्तास्त्वां मूलैरुद्धतवेगिनः। उन्नता वायुवेगेन विक्रोशन्तीव पादपाः
निश्चेष्टाहारसंचारा वृक्षैकस्थाननिश्चिताः। पक्षिणोऽपि प्रयाचन्ते सर्वभूतानुकम्पिनम्
एवं विक्रोशतां तेषां द्विजातीनां निवर्तने। ददृशे तमसा तत्र वारयन्तीव राघवम्
ततः सुमन्त्रोऽपि रथाद् विमुच्य श्रान्तान् हयान् सम्परिवर्त्य शीघ्रम्। पीतोदकांस्तोयपरिप्लुताङ्गा- नचारयद् वै तमसाविदूरे
thumb|षड्चत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षड्चत्वारिंशः सर्गः ॥२-
ततस्तु तमसातीरं रम्यमाश्रित्य राघवः। सीतामुद्वीक्ष्य सौमित्रिमिदं वचनमब्रवीत्
इयमद्य निशा पूर्वा सौमित्रे प्रहिता वनम्। वनवासस्य भद्रं ते न चोत्कण्ठितुमर्हसि
पश्य शून्यान्यरण्यानि रुदन्तीव समन्ततः। यथानिलयमायद्भिर्निलीनानि मृगद्विजैः
अद्यायोध्या तु नगरी राजधानी पितुर्मम। सस्त्रीपुंसा गतानस्मान् शोचिष्यति न संशयः
अनुरक्ता हि मनुजा राजानं बहुभिर्गुणैः। त्वां च मां च नरव्याघ्र शत्रुघ्नभरतौ तथा
पितरं चानुशोचामि मातरं च यशस्विनीम्। अपि नान्धौ भवेतां नौ रुदन्तौ तावभीक्ष्णशः
भरतः खलु धर्मात्मा पितरं मातरं च मे। धर्मार्थकामसहितैर्वाक्यैराश्वासयिष्यति
भरतस्यानृशंसत्वं संचिन्त्याहं पुनः पुनः। नानुशोचामि पितरं मातरं च महाभुज