नार्हा त्वं शोचितुं देवि यस्यास्ते राघवः सुतः। नहि रामात् परो लोके विद्यते सत्पथे स्थितः
अभिवादयमानं तं दृष्ट्वा ससुहृदं सुतम्। मुदाश्रु मोक्ष्यसे क्षिप्रं मेघरेखेव वार्षिकी
पुत्रस्ते वरदः क्षिप्रमयोध्यां पुनरागतः। कराभ्यां मृदुपीनाभ्यां चरणौ पीडयिष्यति
अभिवाद्य नमस्यन्तं शूरं ससुहृदं सुतम्। मुदास्रैः प्रोक्षसे पुत्रं मेघराजिरिवाचलम्
आश्वासयन्ती विविधैश्च वाक्यै- र्वाक्योपचारे कुशलानवद्या। रामस्य तां मातरमेवमुक्त्वा देवी सुमित्रा विरराम रामा
निशम्य तल्लक्ष्मणमातृवाक्यं रामस्य मातुर्नरदेवपत्न्याः। सद्यः शरीरे विननाश शोकः शरद्गतो मेघ इवाल्पतोयः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चतुश्चत्वारिंशः सर्गः ॥२-
thumb|पञ्चचत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चचत्वारिंशः सर्गः ॥२-
अनुरक्ता महात्मानं रामं सत्यपराक्रमम्। अनुजग्मुः प्रयान्तं तं वनवासाय मानवाः
निवर्तितेऽतीव बलात् सुहृद्धर्मेण राजनि। नैव ते संन्यवर्तन्त रामस्यानुगता रथम्
अयोध्यानिलयानां हि पुरुषाणां महायशाः। बभूव गुणसम्पन्नः पूर्णचन्द्र इव प्रियः
स याच्यमानः काकुत्स्थस्ताभिः प्रकृतिभिस्तदा। कुर्वाणः पितरं सत्यं वनमेवान्वपद्यत
अवेक्षमाणः सस्नेहं चक्षुषा प्रपिबन्निव। उवाच रामः सस्नेहं ताः प्रजाः स्वाः प्रजा इव
या प्रीतिर्बहुमानश्च मय्ययोध्यानिवासिनाम्। मत्प्रियार्थं विशेषेण भरते सा विधीयताम्
स हि कल्याणचारित्रः कैकेय्यानन्दवर्धनः। करिष्यति यथावद् वः प्रियाणि च हितानि च
ज्ञानवृद्धो वयोबालो मृदुर्वीर्यगुणान्वितः। अनुरूपः स वो भर्ता भविष्यति भयापहः
स हि राजगुणैर्युक्तो युवराजः समीक्षितः। अपि चापि मया शिष्टैः कार्यं वो भर्तृशासनम्
न संतप्येद् यथा चासौ वनवासं गते मयि। महाराजस्तथा कार्यो मम प्रियचिकीर्षया
यथा यथा दाशरथिर्धर्ममेवाश्रितो भवेत्। तथा तथा प्रकृतयो रामं पतिमकामयन्
बाष्पेण पिहितं दीनं रामः सौमित्रिणा सह। चकर्षेव गुणैर्बद्धं जनं पुरनिवासिनम्
ते द्विजास्त्रिविधं वृद्धा ज्ञानेन वयसौजसा। वयःप्रकम्पशिरसो दूरादूचुरिदं वचः
वहन्तो जवना रामं भो भो जात्यास्तुरंगमाः। निवर्तध्वं न गन्तव्यं हिता भवत भर्तरि
कर्णवन्ति हि भूतानि विशेषेण तुरङ्गमाः। यूयं तस्मान्निवर्तध्वं याचनां प्रतिवेदिताः
धर्मतः स विशुद्धात्मा वीरः शुभदृढव्रतः। उपवाह्यस्तु वो भर्ता नापवाह्यः पुराद् वनम्
एवमार्तप्रलापांस्तान् वृद्धान् प्रलपतो द्विजान्। अवेक्ष्य सहसा रामो रथादवततार ह
पद्भ्यामेव जगामाथ ससीतः सहलक्ष्मणः। संनिकृष्टपदन्यासो रामो वनपरायणः
द्विजातीन् हि पदातींस्तान् रामश्चारित्रवत्सलः। न शशाक घृणाचक्षुः परिमोक्तुं रथेन सः
गच्छन्तमेव तं दृष्ट्वा रामं सम्भ्रान्तमानसाः। ऊचुः परमसंतप्ता रामं वाक्यमिदं द्विजाः
ब्राह्मण्यं कृत्स्नमेतत् त्वां ब्रह्मण्यमनुगच्छति। द्विजस्कन्धाधिरूढास्त्वामग्नयोऽप्यनुयान्त्वमी
वाजपेयसमुत्थानि च्छत्राण्येतानि पश्य नः। पृष्ठतोऽनुप्रयातानि मेघानिव जलात्यये