दैवतं देवतानां च भूतानां भूतसत्तमः। तस्य के ह्यगुणा देवि वने वाप्यथवा पुरे
पृथिव्या सह वैदेह्या श्रिया च पुरुषर्षभः। क्षिप्रं तिसृभिरेताभिः सह रामोऽभिषेक्ष्यते
दुःखजं विसृजत्यश्रु निष्क्रामन्तमुदीक्ष्य यम्। अयोध्यायां जनः सर्वः शोकवेगसमाहतः
कुशचीरधरं वीरं गच्छन्तमपराजितम्। सीतेवानुगता लक्ष्मीस्तस्य किं नाम दुर्लभम्
धनुर्ग्रहवरो यस्य बाणखड्गास्त्रभृत् स्वयम्। लक्ष्मणो व्रजति ह्यग्रे तस्य किं नाम दुर्लभम्
निवृत्तवनवासं तं द्रष्टासि पुनरागतम्। जहि शोकं च मोहं च देवि सत्यं ब्रवीमि ते
शिरसा चरणावेतौ वन्दमानमनिन्दिते। पुनर्द्रक्ष्यसि कल्याणि पुत्रं चन्द्रमिवोदितम्
पुनः प्रविष्टं दृष्ट्वा तमभिषिक्तं महाश्रियम्। समुत्स्रक्ष्यसि नेत्राभ्यां शीघ्रमानन्दजं जलम्
मा शोको देवि दुःखं वा न रामे दृष्यतेऽशिवम्। क्षिप्रं द्रक्ष्यसि पुत्रं त्वं ससीतं सहलक्ष्मणम्
त्वयाऽशेषो जनश्चायं समाश्वास्यो यतोऽनघे। कमिदानीमिदं देवि करोषि हृदि विक्लवम्
नार्हा त्वं शोचितुं देवि यस्यास्ते राघवः सुतः। नहि रामात् परो लोके विद्यते सत्पथे स्थितः
अभिवादयमानं तं दृष्ट्वा ससुहृदं सुतम्। मुदाश्रु मोक्ष्यसे क्षिप्रं मेघरेखेव वार्षिकी
पुत्रस्ते वरदः क्षिप्रमयोध्यां पुनरागतः। कराभ्यां मृदुपीनाभ्यां चरणौ पीडयिष्यति
अभिवाद्य नमस्यन्तं शूरं ससुहृदं सुतम्। मुदास्रैः प्रोक्षसे पुत्रं मेघराजिरिवाचलम्
आश्वासयन्ती विविधैश्च वाक्यै- र्वाक्योपचारे कुशलानवद्या। रामस्य तां मातरमेवमुक्त्वा देवी सुमित्रा विरराम रामा
निशम्य तल्लक्ष्मणमातृवाक्यं रामस्य मातुर्नरदेवपत्न्याः। सद्यः शरीरे विननाश शोकः शरद्गतो मेघ इवाल्पतोयः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चतुश्चत्वारिंशः सर्गः ॥२-
thumb|पञ्चचत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चचत्वारिंशः सर्गः ॥२-
अनुरक्ता महात्मानं रामं सत्यपराक्रमम्। अनुजग्मुः प्रयान्तं तं वनवासाय मानवाः
निवर्तितेऽतीव बलात् सुहृद्धर्मेण राजनि। नैव ते संन्यवर्तन्त रामस्यानुगता रथम्
अयोध्यानिलयानां हि पुरुषाणां महायशाः। बभूव गुणसम्पन्नः पूर्णचन्द्र इव प्रियः
स याच्यमानः काकुत्स्थस्ताभिः प्रकृतिभिस्तदा। कुर्वाणः पितरं सत्यं वनमेवान्वपद्यत
अवेक्षमाणः सस्नेहं चक्षुषा प्रपिबन्निव। उवाच रामः सस्नेहं ताः प्रजाः स्वाः प्रजा इव
या प्रीतिर्बहुमानश्च मय्ययोध्यानिवासिनाम्। मत्प्रियार्थं विशेषेण भरते सा विधीयताम्
स हि कल्याणचारित्रः कैकेय्यानन्दवर्धनः। करिष्यति यथावद् वः प्रियाणि च हितानि च
ज्ञानवृद्धो वयोबालो मृदुर्वीर्यगुणान्वितः। अनुरूपः स वो भर्ता भविष्यति भयापहः
स हि राजगुणैर्युक्तो युवराजः समीक्षितः। अपि चापि मया शिष्टैः कार्यं वो भर्तृशासनम्
न संतप्येद् यथा चासौ वनवासं गते मयि। महाराजस्तथा कार्यो मम प्रियचिकीर्षया
यथा यथा दाशरथिर्धर्ममेवाश्रितो भवेत्। तथा तथा प्रकृतयो रामं पतिमकामयन्
बाष्पेण पिहितं दीनं रामः सौमित्रिणा सह। चकर्षेव गुणैर्बद्धं जनं पुरनिवासिनम्