ते रत्नहीनास्तरुणाः फलकाले विवासिताः। कथं वत्स्यन्ति कृपणाः फलमूलैः कृताशनाः
अपीदानीं स कालः स्यान्मम शोकक्षयः शिवः। सहभार्यं सह भ्रात्रा पश्येयमिह राघवम्
श्रुत्वैवोपस्थितौ वीरौ कदायोध्या भविष्यति। यशस्विनी हृष्टजना सूच्छ्रितध्वजमालिनी
कदा प्रेक्ष्य नरव्याघ्रावरण्यात् पुनरागतौ। भविष्यति पुरी हृष्टा समुद्र इव पर्वणि
कदायोध्यां महाबाहुः पुरीं वीरः प्रवेक्ष्यति। पुरस्कृत्य रथे सीतां वृषभो गोवधूमिव
कदा प्राणिसहस्राणि राजमार्गे ममात्मजौ। लाजैरवकरिष्यन्ति प्रविशन्तावरिंदमौ
प्रविशन्तौ कदायोध्यां द्रक्ष्यामि शुभकुण्डलौ। उदग्रायुधनिस्त्रिंशौ सशृङ्गाविव पर्वतौ
कदा सुमनसः कन्या द्विजातीनां फलानि च। प्रदिशन्त्यः पुरीं हृष्टाः करिष्यन्ति प्रदक्षिणम्
कदा परिणतो बुद्ध्या वयसा चामरप्रभाः। अभ्युपैष्यति धर्मात्मा सुवर्ष इव लालयन्
निःसंशयं मया मन्ये पुरा वीर कदर्यया। पातुकामेषु वत्सेषु मातॄणां शातिताः स्तनाः
साहं गौरिव सिंहेन विवत्सा वत्सला कृता। कैकेय्या पुरुषव्याघ्र बालवत्सेव गौर्बलात्
नहि तावद्गुणैर्जुष्टं सर्वशास्त्रविशारदम्। एकपुत्रा विना पुत्रमहं जीवितुमुत्सहे
न हि मे जीविते किंचित् सामर्थ्यमिह कल्प्यते। अपश्यन्त्याः प्रियं पुत्रं लक्ष्मणं च महाबलम्
अयं हि मां दीपयतेऽद्य वह्नि- स्तनूजशोकप्रभवो महाहितः। महीमिमां रश्मिभिरुत्तमप्रभो यथा निदाघे भगवान् दिवाकरः
thumb|चतुश्चत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुश्चत्वारिंशः सर्गः ॥२-
विलपन्तीं तथा तां तु कौसल्यां प्रमदोत्तमाम्। इदं धर्मे स्थिता धर्म्यं सुमित्रा वाक्यमब्रवीत्
तवार्ये सद्गुणैर्युक्तः स पुत्रः पुरुषोत्तमः। किं ते विलपितेनैवं कृपणं रुदितेन वा
यस्तवार्ये गतः पुत्रस्त्यक्त्वा राज्यं महाबलः। साधु कुर्वन् महात्मानं पितरं सत्यवादिनम्
शिष्टैराचरिते सम्यक्शश्वत् प्रेत्य फलोदये। रामो धर्मे स्थितः श्रेष्ठो न स शोच्यः कदाचन
वर्तते चोत्तमां वृत्तिं लक्ष्मणोऽस्मिन् सदानघः। दयावान् सर्वभूतेषु लाभस्तस्य महात्मनः
अरण्यवासे यद् दुःखं जानन्त्येव सुखोचिता। अनुगच्छति वैदेही धर्मात्मानं तवात्मजम्
कीर्तिभूतां पताकां यो लोके भ्रमयति प्रभुः। धर्मः सत्यव्रतपरः किं न प्राप्तस्तवात्मजः
व्यक्तं रामस्य विज्ञाय शौचं माहात्म्यमुत्तमम्। न गात्रमंशुभिः सूर्यः संतापयितुमर्हति
शिवः सर्वेषु कालेषु काननेभ्यो विनिःसृतः। राघवं युक्तशीतोष्णः सेविष्यति सुखोऽनिलः
शयानमनघं रात्रौ पितेवाभिपरिष्वजन्। घर्मघ्नः संस्पृशन् शीतश्चन्द्रमा ह्लादयिष्यति
ददौ चास्त्राणि दिव्यानि यस्मै ब्रह्मा महौजसे। दानवेन्द्रं हतं दृष्ट्वा तिमिध्वजसुतं रणे
स शूरः पुरुषव्याघ्रः स्वबाहुबलमाश्रितः। असंत्रस्तो ह्यरण्येऽसौ वेश्मनीव निवत्स्यते
यस्येषुपथमासाद्य विनाशं यान्ति शत्रवः। कथं न पृथिवी तस्य शासने स्थातुमर्हति
या श्रीः शौर्यं च रामस्य या च कल्याणसत्त्वता। निवृत्तारण्यवासः स्वं क्षिप्रं राज्यमवाप्स्यति
सूर्यस्यापि भवेत् सूर्यो ह्यग्नेरग्नः प्रभोः प्रभुः। श्रियाः श्रीश्च भवेदग्र्या कीर्त्याः कीर्तिः क्षमाक्षमा