तामवेक्ष्य पुरीं सर्वां राममेवानुचिन्तयन्। विलपन् प्राविशद् राजा गृहं सूर्य इवाम्बुदम्
महाह्रदमिवाक्षोभ्यं सुपर्णेन हृतोरगम्। रामेण रहितं वेश्म वैदेह्या लक्ष्मणेन च
अथ गद्गदशब्दस्तु विलपन् वसुधाधिपः। उवाच मृदु मन्दार्थं वचनं दीनमस्वरम्
कौसल्याया गृहं शीघ्रं राममातुर्नयन्तु माम्। नह्यन्यत्र ममाश्वासो हृदयस्य भविष्यति
इति ब्रुवन्तं राजानमनयन् द्वारदर्शिनः। कौसल्याया गृहं तत्र न्यवेस्यत विनीतवत्
ततस्तत्र प्रविष्टस्य कौसल्याया निवेशनम्। अधिरुह्यापि शयनं बभूव लुलितं मनः
पुत्रद्वयविहीनं च स्नुषया च विवर्जितम्। अपश्यद् भवनं राजा नष्टचन्द्रमिवाम्बरम्
तच्च दृष्ट्वा महाराजो भुजमुद्यम्य वीर्यवान्। उच्चैःस्वरेण प्राक्रोशद्धा राम विजहासि नौ
सुखिता बत तं कालं जीविष्यन्ति नरोत्तमाः। परिष्वजन्तो ये रामं द्रक्ष्यन्ति पुनरागतम्
अथ रात्र्यां प्रपन्नायां कालरात्र्यामिवात्मनः। अर्धरात्रे दशरथः कौसल्यामिदमब्रवीत्
न त्वां पश्यामि कौसल्ये साधु मां पाणिना स्पृश। रामं मेऽनुगता दृष्टिरद्यापि न निवर्तते
तं राममेवानुविचिन्तयन्तं समीक्ष्य देवी शयने नरेन्द्रम्। उपोपविश्याधिकमार्तरूपा विनिश्वसन्तं विललाप कृच्छ्रम्
thumb|त्रिचत्वारिशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रिचत्वारिशः सर्गः ॥२-
ततः समीक्ष्य शयने सन्नं शोकेन पार्थिवम्। कौसल्या पुत्रशोकार्ता तमुवाच महीपतिम्
राघवे नरशार्दूले विषं मुक्त्वाहिजिह्मगा। विचरिष्यति कैकेयी निर्मुक्तेव हि पन्नगी
विवास्य रामं सुभगा लब्धकामा समाहिता। त्रासयिष्यति मां भूयो दुष्टाहिरिव वेश्मनि
अथास्मिन् नगरे रामश्चरन् भैक्षं गृहे वसेत्। कामकारो वरं दातुमपि दासं ममात्मजम्
पातयित्वा तु कैकेय्या रामं स्थानाद् यथेष्टतः। प्रविद्धो रक्षसां भागः पर्वणीवाहिताग्निना
नागराजगतिर्वीरो महाबाहुर्धनुर्धरः। वनमाविशते नूनं सभार्यः सहलक्ष्मणः
वने त्वदृष्टदुःखानां कैकेय्यनुमते त्वया। त्यक्तानां वनवासाय कान्यावस्था भविष्यति
ते रत्नहीनास्तरुणाः फलकाले विवासिताः। कथं वत्स्यन्ति कृपणाः फलमूलैः कृताशनाः
अपीदानीं स कालः स्यान्मम शोकक्षयः शिवः। सहभार्यं सह भ्रात्रा पश्येयमिह राघवम्
श्रुत्वैवोपस्थितौ वीरौ कदायोध्या भविष्यति। यशस्विनी हृष्टजना सूच्छ्रितध्वजमालिनी
कदा प्रेक्ष्य नरव्याघ्रावरण्यात् पुनरागतौ। भविष्यति पुरी हृष्टा समुद्र इव पर्वणि
कदायोध्यां महाबाहुः पुरीं वीरः प्रवेक्ष्यति। पुरस्कृत्य रथे सीतां वृषभो गोवधूमिव
कदा प्राणिसहस्राणि राजमार्गे ममात्मजौ। लाजैरवकरिष्यन्ति प्रविशन्तावरिंदमौ
प्रविशन्तौ कदायोध्यां द्रक्ष्यामि शुभकुण्डलौ। उदग्रायुधनिस्त्रिंशौ सशृङ्गाविव पर्वतौ
कदा सुमनसः कन्या द्विजातीनां फलानि च। प्रदिशन्त्यः पुरीं हृष्टाः करिष्यन्ति प्रदक्षिणम्
कदा परिणतो बुद्ध्या वयसा चामरप्रभाः। अभ्युपैष्यति धर्मात्मा सुवर्ष इव लालयन्
निःसंशयं मया मन्ये पुरा वीर कदर्यया। पातुकामेषु वत्सेषु मातॄणां शातिताः स्तनाः