वाहनानां च मुख्यानां वहतां तं ममात्मजम्। पदानि पथि दृश्यन्ते स महात्मा न दृश्यते
यः सुखेनोपधानेषु शेते चन्दनरूषितः। वीज्यमानो महार्हाभिः स्त्रीभिर्मम सुतोत्तमः
स नूनं क्वचिदेवाद्य वृक्षमूलमुपाश्रितः। काष्ठं वा यदि वाश्मानमुपधाय शयिष्यते
उत्थास्यति च मेदिन्याः कृपणः पांसुगुण्ठितः। विनिःश्वसन् प्रस्रवणात् करेणूनामिवर्षभः
द्रक्ष्यन्ति नूनं पुरुषा दीर्घबाहुं वनेचराः। राममुत्थाय गच्छन्तं लोकनाथमनाथवत्
सा नूनं जनकस्येष्टा सुता सुखसदोचिता। कण्टकाक्रमणक्लान्ता वनमद्य गमिष्यति
अनभिज्ञा वनानां सा नूनं भयमुपैष्यति। श्वपदानर्दितं श्रुत्वा गम्भीरं रोमहर्षणम्
सकामा भव कैकेयि विधवा राज्यमावस। नहि तं पुरुषव्याघ्रं विना जीवितुमुत्सहे
इत्येवं विलपन् राजा जनौघेनाभिसंवृतः। अपस्नात इवारिष्टं प्रविवेश गृहोत्तमम्
शून्यचत्वरवेश्मान्तां संवृतापणवेदिकाम्। क्लान्तदुर्बलदुःखार्तां नात्याकीर्णमहापथाम्
तामवेक्ष्य पुरीं सर्वां राममेवानुचिन्तयन्। विलपन् प्राविशद् राजा गृहं सूर्य इवाम्बुदम्
महाह्रदमिवाक्षोभ्यं सुपर्णेन हृतोरगम्। रामेण रहितं वेश्म वैदेह्या लक्ष्मणेन च
अथ गद्गदशब्दस्तु विलपन् वसुधाधिपः। उवाच मृदु मन्दार्थं वचनं दीनमस्वरम्
कौसल्याया गृहं शीघ्रं राममातुर्नयन्तु माम्। नह्यन्यत्र ममाश्वासो हृदयस्य भविष्यति
इति ब्रुवन्तं राजानमनयन् द्वारदर्शिनः। कौसल्याया गृहं तत्र न्यवेस्यत विनीतवत्
ततस्तत्र प्रविष्टस्य कौसल्याया निवेशनम्। अधिरुह्यापि शयनं बभूव लुलितं मनः
पुत्रद्वयविहीनं च स्नुषया च विवर्जितम्। अपश्यद् भवनं राजा नष्टचन्द्रमिवाम्बरम्
तच्च दृष्ट्वा महाराजो भुजमुद्यम्य वीर्यवान्। उच्चैःस्वरेण प्राक्रोशद्धा राम विजहासि नौ
सुखिता बत तं कालं जीविष्यन्ति नरोत्तमाः। परिष्वजन्तो ये रामं द्रक्ष्यन्ति पुनरागतम्
अथ रात्र्यां प्रपन्नायां कालरात्र्यामिवात्मनः। अर्धरात्रे दशरथः कौसल्यामिदमब्रवीत्
न त्वां पश्यामि कौसल्ये साधु मां पाणिना स्पृश। रामं मेऽनुगता दृष्टिरद्यापि न निवर्तते
तं राममेवानुविचिन्तयन्तं समीक्ष्य देवी शयने नरेन्द्रम्। उपोपविश्याधिकमार्तरूपा विनिश्वसन्तं विललाप कृच्छ्रम्
thumb|त्रिचत्वारिशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रिचत्वारिशः सर्गः ॥२-
ततः समीक्ष्य शयने सन्नं शोकेन पार्थिवम्। कौसल्या पुत्रशोकार्ता तमुवाच महीपतिम्
राघवे नरशार्दूले विषं मुक्त्वाहिजिह्मगा। विचरिष्यति कैकेयी निर्मुक्तेव हि पन्नगी
विवास्य रामं सुभगा लब्धकामा समाहिता। त्रासयिष्यति मां भूयो दुष्टाहिरिव वेश्मनि
अथास्मिन् नगरे रामश्चरन् भैक्षं गृहे वसेत्। कामकारो वरं दातुमपि दासं ममात्मजम्
पातयित्वा तु कैकेय्या रामं स्थानाद् यथेष्टतः। प्रविद्धो रक्षसां भागः पर्वणीवाहिताग्निना
नागराजगतिर्वीरो महाबाहुर्धनुर्धरः। वनमाविशते नूनं सभार्यः सहलक्ष्मणः
वने त्वदृष्टदुःखानां कैकेय्यनुमते त्वया। त्यक्तानां वनवासाय कान्यावस्था भविष्यति