अहो निश्चेतनो राजा जीवलोकस्य संक्षयम्। धर्म्यं सत्यव्रतं रामं वनवासे प्रवत्स्यति
इति सर्वा महिष्यस्ता विवत्सा इव धेनवः। रुरुदुश्चैव दुःखार्ताः सस्वरं च विचुक्रुशुः
स तमन्तःपुरे घोरमार्तशब्दं महीपतिः। पुत्रशोकाभिसंतप्तः श्रुत्वा चासीत् सुदुःखितः
नाग्निहोत्राण्यहूयन्त नापचन् गृहमेधिनः। अकुर्वन् न प्रजाः कार्यं सूर्यश्चान्तरधीयत
व्यसृजन् कवलान् नागा गावो वत्सान् न पाययन्। पुत्रां प्रथमजं लब्ध्वा जननी नाभ्यनन्दत
त्रिशङ्कुर्लोहिताङ्गश्च बृहस्पतिबुधावपि। दारुणाः सोममभ्येत्य ग्रहाः सर्वे व्यवस्थिताः
नक्षत्राणि गतार्चींषि ग्रहाश्च गततेजसः। विशाखाश्च सधूमाश्च नभसि प्रचकाशिरे
कालिकानिलवेगेन महोदधिरिवोत्थितः। रामे वनं प्रव्रजिते नगरं प्रचचाल तत्
दिशः पर्याकुलाः सर्वास्तिमिरेणेव संवृताः। न ग्रहो नापि नक्षत्रं प्रचकाशे न किंचन
अकस्मान्नागरः सर्वो जनो दैन्यमुपागमत्। आहारे वा विहारे वा न कश्चिदकरोन्मनः
शोकपर्यायसंतप्तः सततं दीर्घमुच्छ्वसन्। अयोध्यायां जनः सर्वश्चुक्रोश जगतीपतिम्
बाष्पपर्याकुलमुखो राजमार्गगतो जनः। न हृष्टो लभ्यते कश्चित् सर्वः शोकपरायणः
न वाति पवनः शीतो न शशी सौम्यदर्शनः। न सूर्यस्तपते लोकं सर्वं पर्याकुलं जगत्
अनर्थिनः सुताः स्त्रीणां भर्तारो भ्रातरस्तथा। सर्वे सर्वं परित्यज्य राममेवान्वचिन्तयन्
ये तु रामस्य सुहृदः सर्वे ते मूढचेतसः। शोकभारेण चाक्रान्ताः शयनं नैव भेजिरे
ततस्त्वयोध्या रहिता महात्मना पुरन्दरेणेव मही सपर्वता। चचाल घोरं भयशोकदीपिता सनागयोधाश्वगणा ननाद च
thumb|द्विचत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्विचत्वारिंशः सर्गः ॥२-
यावत् तु निर्यतस्तस्य रजोरूपमदृश्यत। नैवेक्ष्वाकुवरस्तावत् संजहारात्मचक्षुषी
यावद् राजा प्रियं पुत्रं पश्यत्यत्यन्तधार्मिकम्। तावद् व्यवर्धतेवास्य धरण्यां पुत्रदर्शने
न पश्यति रजोऽप्यस्य यदा रामस्य भूमिपः। तदार्तश्च निषण्णश्च पपात धरणीतले
तस्य दक्षिणमन्वागात् कौसल्या बाहुमङ्गना। परं चास्यान्वगात् पार्श्वं कैकेयी सा सुमध्यमा
तां नयेन च सम्पन्नो धर्मेण विनयेन च। उवाच राजा कैकेयीं समीक्ष्य व्यथितेन्द्रियः
कैकेयि मामकाङ्गानि मा स्प्राक्षीः पापनिश्चये। नहि त्वां द्रष्टुमिच्छामि न भार्या न च बान्धवी
ये च त्वामनुजीवन्ति नाहं तेषां न ते मम। केवलार्थपरां हि त्वां त्यक्तधर्मां त्यजाम्यहम्
अगृह्णां यच्च ते पाणिमग्निं पर्यणयं च यत्। अनुजानामि तत् सर्वमस्मिंल्लोके परत्र च
भरतश्चेत् प्रतीतः स्याद् राज्यं प्राप्यैतदव्ययम्। यन्मे स दद्यात् पित्रर्थं मा मां तद्दत्तमागमत्
अथ रेणुसमुद्ध्वस्तं समुत्थाप्य नराधिपम्। न्यवर्तत तदा देवी कौसल्या शोककर्शिता
हत्वेव ब्राह्मणं कामात् स्पृष्ट्वाग्निमिव पाणिना। अन्वतप्यत धर्मात्मा पुत्रं संचिन्त्य राघवम्
निवृत्यैव निवृत्यैव सीदतो रथवर्त्मसु। राज्ञो नातिबभौ रूपं ग्रस्तस्यांशुमतो यथा
विललाप स दुःखार्तः प्रियं पुत्रमनुस्मरन्। नगरान्तमनुप्राप्तं बुद्ध्वा पुत्रमथाब्रवीत्