अन्वीक्षमाणो रामस्तु विषण्णं भ्रान्तचेतसम्। राजानं मातरं चैव ददर्शानुगतौ पथि
पदातिनौ च यानार्हावदुःखार्हौ सुखोचितौ। दृष्ट्वा संचोदयामास शीघ्रं याहीति सारथिम्
नहि तत् पुरुषव्याघ्रो दुःखजं दर्शनं पितुः। मातुश्च सहितुं शक्तस्तोत्त्रैर्नुन्न इव द्विपः
प्रत्यगारमिवायान्ती सवत्सा वत्सकारणात्। बद्धवत्सा यथा धेनू राममाताभ्यधावत
तथा रुदन्तीं कौसल्यां रथं तमनुधावतीम्। क्रोशन्तीं राम रामेति हा सीते लक्ष्मणेति च
रामलक्ष्मणसीतार्थं स्रवन्तीं वारि नेत्रजम्। असकृत् प्रैक्षत स तां नृत्यन्तीमिव मातरम्
तिष्ठेति राजा चुक्रोश याहि याहीति राघवः। सुमन्त्रस्य बभूवात्मा चक्रयोरिव चान्तरा
नाश्रौषमिति राजानमुपालब्धोऽपि वक्ष्यसि। चिरं दुःखस्य पापिष्ठमिति रामस्तमब्रवीत्
स रामस्य वचः कुर्वन्ननुज्ञाप्य च तं जनम्। व्रजतोऽपि हयान् शीघ्रं चोदयामास सारथिः
न्यवर्तत जनो राज्ञो रामं कृत्वा प्रदक्षिणम्। मनसाप्याशुवेगेन न न्यवर्तत मानुषम्
यमिच्छेत् पुनरायातं नैनं दूरमनुव्रजेत्। इत्यमात्या महाराजमूचुर्दशरथं वचः
तेषां वचः सर्वगुणोपपन्नः प्रस्विन्नगात्रः प्रविषण्णरूपः। निशम्य राजा कृपणः सभार्यो व्यवस्थितस्तं सुतमीक्षमाणः
thumb|एकचत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकचत्वारिंशः सर्गः ॥२-
तस्मिंस्तु पुरुषव्याघ्रे निष्क्रामति कृताञ्जलौ। आर्तशब्दो हि संजज्ञे स्त्रीणामन्तःपुरे महान्
अनाथस्य जनस्यास्य दुर्बलस्य तपस्विनः। यो गतिः शरणं चासीत् स नाथः क्व नु गच्छति
न क्रुध्यत्यभिशस्तोऽपि क्रोधनीयानि वर्जयन्। क्रुद्धान् प्रसादयन् सर्वान् समदुःखः क्व गच्छति
कौसल्यायां महातेजा यथा मातरि वर्तते। तथा यो वर्ततेऽस्मासु महात्मा क्व नु गच्छति
कैकेय्या क्लिश्यमानेन राज्ञा संचोदितो वनम्। परित्राता जनस्यास्य जगतः क्व नु गच्छति
अहो निश्चेतनो राजा जीवलोकस्य संक्षयम्। धर्म्यं सत्यव्रतं रामं वनवासे प्रवत्स्यति
इति सर्वा महिष्यस्ता विवत्सा इव धेनवः। रुरुदुश्चैव दुःखार्ताः सस्वरं च विचुक्रुशुः
स तमन्तःपुरे घोरमार्तशब्दं महीपतिः। पुत्रशोकाभिसंतप्तः श्रुत्वा चासीत् सुदुःखितः
नाग्निहोत्राण्यहूयन्त नापचन् गृहमेधिनः। अकुर्वन् न प्रजाः कार्यं सूर्यश्चान्तरधीयत
व्यसृजन् कवलान् नागा गावो वत्सान् न पाययन्। पुत्रां प्रथमजं लब्ध्वा जननी नाभ्यनन्दत
त्रिशङ्कुर्लोहिताङ्गश्च बृहस्पतिबुधावपि। दारुणाः सोममभ्येत्य ग्रहाः सर्वे व्यवस्थिताः
नक्षत्राणि गतार्चींषि ग्रहाश्च गततेजसः। विशाखाश्च सधूमाश्च नभसि प्रचकाशिरे
कालिकानिलवेगेन महोदधिरिवोत्थितः। रामे वनं प्रव्रजिते नगरं प्रचचाल तत्
दिशः पर्याकुलाः सर्वास्तिमिरेणेव संवृताः। न ग्रहो नापि नक्षत्रं प्रचकाशे न किंचन
अकस्मान्नागरः सर्वो जनो दैन्यमुपागमत्। आहारे वा विहारे वा न कश्चिदकरोन्मनः
शोकपर्यायसंतप्तः सततं दीर्घमुच्छ्वसन्। अयोध्यायां जनः सर्वश्चुक्रोश जगतीपतिम्
बाष्पपर्याकुलमुखो राजमार्गगतो जनः। न हृष्टो लभ्यते कश्चित् सर्वः शोकपरायणः