सीतातृतीयानारूढान् दृष्ट्वा रथमचोदयत्। सुमन्त्रः सम्मतानश्वान् वायुवेगसमाञ्जवे
प्रयाते तु महारण्यं चिररात्राय राघवे। बभूव नगरे मूर्च्छा बलमूर्च्छा जनस्य च
तत् समाकुलसम्भ्रान्तं मत्तसंकुपितद्विपम्। हयसिञ्जितनिर्घोषं पुरमासीन्महास्वनम्
ततः सबालवृद्धा सा पुरी परमपीडिता। राममेवाभिदुद्राव घर्मार्तः सलिलं यथा
पार्श्वतः पृष्ठतश्चापि लम्बमानास्तदुन्मुखाः। बाष्पपूर्णमुखाः सर्वे तमूचुर्भृशनिःस्वनाः
संयच्छ वाजिनां रश्मीन् सूत याहि शनैः शनैः। मुखं द्रक्ष्याम रामस्य दुर्दर्शं नो भविष्यति
आयसं हृदयं नूनं राममातुरसंशयम्। यद् देवगर्भप्रतिमे वनं याति न भिद्यते
कृतकृत्या हि वैदेही छायेवानुगता पतिम्। न जहाति रता धर्मे मेरुमर्कप्रभा यथा
अहो लक्ष्मण सिद्धार्थः सततं प्रियवादिनम्। भ्रातरं देवसंकाशं यस्त्वं परिचरिष्यसि
महत्येषा हि ते बुद्धिरेष चाभ्युदयो महान्। एष स्वर्गस्य मार्गश्च यदेनमनुगच्छसि
एवं वदन्तस्ते सोढुं न शेकुर्बाष्पमागतम्। नरास्तमनुगच्छन्ति प्रियमिक्ष्वाकुनन्दनम्
अथ राजा वृतः स्त्रीभिर्दीनाभिर्दीनचेतनः। निर्जगाम प्रियं पुत्रं द्रक्ष्यामीति ब्रुवन् गृहात्
शुश्रुवे चाग्रतः स्त्रीणां रुदतीनां महास्वनः। यथा नादः करेणूनां बद्धे महति कुञ्जरे
पिता हि राजा काकुत्स्थः श्रीमान् सन्नस्तदा बभौ। परिपूर्णः शशी काले ग्रहेणोपप्लुतो यथा
स च श्रीमानचिन्त्यात्मा रामो दशरथात्मजः। सूतं संचोदयामास त्वरितं वाह्यतामिति
रामो याहीति तं सूतं तिष्ठेति च जनस्तथा। उभयं नाशकत् सूतः कर्तुमध्वनि चोदितः
निर्गच्छति महाबाहौ रामे पौरजनाश्रुभिः। पतितैरभ्यवहितं प्रणनाश महीरजः
रुदिताश्रुपरिद्यूनं हाहाकृतमचेतनम्। प्रयाणे राघवस्यासीत् पुरं परमपीडितम्
सुस्राव नयनैः स्त्रीणामस्रमायाससम्भवम्। मीनसंक्षोभचलितैः सलिलं पङ्कजैरिव
दृष्ट्वा तु नृपतिः श्रीमानेकचित्तगतं पुरम्। निपपातैव दुःखेन कृत्तमूल इव द्रुमः
ततो हलहलाशब्दो जज्ञे रामस्य पृष्ठतः। नराणां प्रेक्ष्य राजानं सीदन्तं भृशदुःखितम्
हा रामेति जनाः केचिद् राममातेति चापरे। अन्तःपुरसमृद्धं च क्रोशन्तं पर्यदेवयन्
अन्वीक्षमाणो रामस्तु विषण्णं भ्रान्तचेतसम्। राजानं मातरं चैव ददर्शानुगतौ पथि
पदातिनौ च यानार्हावदुःखार्हौ सुखोचितौ। दृष्ट्वा संचोदयामास शीघ्रं याहीति सारथिम्
नहि तत् पुरुषव्याघ्रो दुःखजं दर्शनं पितुः। मातुश्च सहितुं शक्तस्तोत्त्रैर्नुन्न इव द्विपः
प्रत्यगारमिवायान्ती सवत्सा वत्सकारणात्। बद्धवत्सा यथा धेनू राममाताभ्यधावत
तथा रुदन्तीं कौसल्यां रथं तमनुधावतीम्। क्रोशन्तीं राम रामेति हा सीते लक्ष्मणेति च
रामलक्ष्मणसीतार्थं स्रवन्तीं वारि नेत्रजम्। असकृत् प्रैक्षत स तां नृत्यन्तीमिव मातरम्
तिष्ठेति राजा चुक्रोश याहि याहीति राघवः। सुमन्त्रस्य बभूवात्मा चक्रयोरिव चान्तरा
नाश्रौषमिति राजानमुपालब्धोऽपि वक्ष्यसि। चिरं दुःखस्य पापिष्ठमिति रामस्तमब्रवीत्