संवासात् परुषं किंचिदज्ञानादपि यत् कृतम्। तन्मे समुपजानीत सर्वाश्चामन्त्रयामि वः
जज्ञोऽथ तासां संनादः क्रौञ्चीनामिव निःस्वनः। मानवेन्द्रस्य भार्याणामेवं वदति राघवे
मुरजपणवमेघघोषवद् दशरथवेश्म बभूव यत् पुरा। विलपितपरिदेवनाकुलं व्यसनगतं तदभूत् सुदुःखितम्
thumb|चत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चत्वारिंशः सर्गः ॥२-
अथ रामश्च सीता च लक्ष्मणश्च कृताञ्जलिः। उपसंगृह्य राजानं चक्रुर्दीनाः प्रदक्षिणम्
तं चापि समनुज्ञाप्य धर्मज्ञः सह सीतया। राघवः शोकसम्मूढो जननीमभ्यवादयत्
अन्वक्षं लक्ष्मणो भ्रातुः कौसल्यामभ्यवादयत्। अपि मातुः सुमित्राया जग्राह चरणौ पुनः
तं वन्दमानं रुदती माता सौमित्रिमब्रवीत्। हितकामा महाबाहुं मूर्ध्न्युपाघ्राय लक्ष्मणम्
सृष्टस्त्वं वनवासाय स्वनुरक्तः सुहृज्जने। रामे प्रमादं मा कार्षीः पुत्र भ्रातरि गच्छति
व्यसनी वा समृद्धो वा गतिरेष तवानघ। एष लोके सतां धर्मो यज्ज्येष्ठवशगो भवेत्
इदं हि वृत्तमुचितं कुलस्यास्य सनातनम्। दानं दीक्षा च यज्ञेषु तनुत्यागो मृधेषु हि
लक्ष्मणं त्वेवमुक्त्वासौ संसिद्धं प्रियराघवम्। सुमित्रा गच्छ गच्छेति पुनः पुनरुवाच तम्
रामं दशरथं विद्धि मां विद्धि जनकात्मजाम्। अयोध्यामटवीं विद्धि गच्छ तात यथासुखम्
ततः सुमन्त्रः काकुत्स्थं प्राञ्जलिर्वाक्यमब्रवीत्। विनीतो विनयज्ञश्च मातलिर्वासवं यथा
रथमारोह भद्रं ते राजपुत्र महायशः। क्षिप्रं त्वां प्रापयिष्यामि यत्र मां राम वक्ष्यसे
चतुर्दश हि वर्षाणि वस्तव्यानि वने त्वया। तान्युपक्रमितव्यानि यानि देव्या प्रचोदितः
तं रथं सूर्यसंकाशं सीता हृष्टेन चेतसा। आरुरोह वरारोहा कृत्वालंकारमात्मनः
वनवासं हि संख्याय वासांस्याभरणानि च। भर्तारमनुगच्छन्त्यै सीतायै श्वशुरो ददौ
तथैवायुधजातानि भ्रातृभ्यां कवचानि च। रथोपस्थे प्रविन्यस्य सचर्म कठिनं च यत्
अथो ज्वलनसंकाशं चामीकरविभूषितम्। तमारुरुहतुस्तूर्णं भ्रातरौ रामलक्ष्मणौ
सीतातृतीयानारूढान् दृष्ट्वा रथमचोदयत्। सुमन्त्रः सम्मतानश्वान् वायुवेगसमाञ्जवे
प्रयाते तु महारण्यं चिररात्राय राघवे। बभूव नगरे मूर्च्छा बलमूर्च्छा जनस्य च
तत् समाकुलसम्भ्रान्तं मत्तसंकुपितद्विपम्। हयसिञ्जितनिर्घोषं पुरमासीन्महास्वनम्
ततः सबालवृद्धा सा पुरी परमपीडिता। राममेवाभिदुद्राव घर्मार्तः सलिलं यथा
पार्श्वतः पृष्ठतश्चापि लम्बमानास्तदुन्मुखाः। बाष्पपूर्णमुखाः सर्वे तमूचुर्भृशनिःस्वनाः
संयच्छ वाजिनां रश्मीन् सूत याहि शनैः शनैः। मुखं द्रक्ष्याम रामस्य दुर्दर्शं नो भविष्यति
आयसं हृदयं नूनं राममातुरसंशयम्। यद् देवगर्भप्रतिमे वनं याति न भिद्यते
कृतकृत्या हि वैदेही छायेवानुगता पतिम्। न जहाति रता धर्मे मेरुमर्कप्रभा यथा
अहो लक्ष्मण सिद्धार्थः सततं प्रियवादिनम्। भ्रातरं देवसंकाशं यस्त्वं परिचरिष्यसि
महत्येषा हि ते बुद्धिरेष चाभ्युदयो महान्। एष स्वर्गस्य मार्गश्च यदेनमनुगच्छसि