तं रथं राजपुत्राय सूतः कनकभूषितम्। आचचक्षेऽञ्जलिं कृत्वा युक्तं परमवाजिभिः
राजा सत्वरमाहूय व्यापृतं वित्तसंचये। उवाच देशकालज्ञो निश्चितं सर्वतः शुचिः
वासांसि च वरार्हाणि भूषणानि महान्ति च। वर्षाण्येतानि संख्याय वैदेह्याः क्षिप्रमानय
नरेन्द्रेणैवमुक्तस्तु गत्वा कोशगृहं ततः। प्रायच्छत् सर्वमाहृत्य सीतायै क्षिप्रमेव तत्
सा सुजाता सुजातानि वैदेही प्रस्थिता वनम्। भूषयामास गात्राणि तैर्विचित्रैर्विभूषणैः
व्यराजयत वैदेही वेश्म तत् सुविभूषिता। उद्यतोंऽशुमतः काले खं प्रभेव विवस्वतः
तां भुजाभ्यां परिष्वज्य श्वश्रूर्वचनमब्रवीत्। अनाचरन्तीं कृपणं मूर्ध्न्युपाघ्राय मैथिलीम्
असत्यः सर्वलोकेऽस्मिन् सततं सत्कृताः प्रियैः। भर्तारं नानुमन्यन्ते विनिपातगतं स्त्रियः
एष स्वभावो नारीणामनुभूय पुरा सुखम्। अल्पामप्यापदं प्राप्य दुष्यन्ति प्रजहत्यपि
असत्यशीला विकृता दुर्गा अहृदयाः सदा। असत्यः पापसंकल्पाः क्षणमात्रविरागिणः
न कुलं न कृतं विद्या न दत्तं नापि संग्रहः। स्त्रीणां गृह्णाति हृदयमनित्यहृदया हि ताः
साध्वीनां तु स्थितानां तु शीले सत्ये श्रुते स्थिते। स्त्रीणां पवित्रं परमं पतिरेको विशिष्यते
स त्वया नावमन्तव्यः पुत्रः प्रव्राजितो वनम्। तव देवसमस्त्वेष निर्धनः सधनोऽपि वा
विज्ञाय वचनं सीता तस्या धर्मार्थसंहितम्। कृत्वाञ्जलिमुवाचेदं श्वश्रूमभिमुखे स्थिता
करिष्ये सर्वमेवाहमार्या यदनुशास्ति माम्। अभिज्ञास्मि यथा भर्तुर्वर्तितव्यं श्रुतं च मे
न मामसज्जनेनार्या समानयितुमर्हति। धर्माद् विचलितुं नाहमलं चन्द्रादिव प्रभा
नातन्त्री वाद्यते वीणा नाचक्रो विद्यते रथः। नापतिः सुखमेधेत या स्यादपि शतात्मजा
मितं ददाति हि पिता मितं भ्राता मितं सुतः। अमितस्य तु दातारं भर्तारं का न पूजयेत्
साहमेवंगता श्रेष्ठा श्रुतधर्मपरावरा। आर्ये किमवमन्येयं स्त्रिया भर्ता हि दैवतम्
सीताया वचनं श्रुत्वा कौसल्या हृदयङ्गमम्। शुद्धसत्त्वा मुमोचाश्रु सहसा दुःखहर्षजम्
तां प्राञ्जलिरभिप्रेक्ष्य मातृमध्येऽतिसत्कृताम्। रामः परमधर्मात्मा मातरं वाक्यमब्रवीत्
अम्ब मा दुःखिता भूत्वा पश्येस्त्वं पितरं मम। क्षयोऽपि वनवासस्य क्षिप्रमेव भविष्यति
सुप्तायास्ते गमिष्यन्ति नव वर्षाणि पञ्च च। समग्रमिह सम्प्राप्तं मां द्रक्ष्यसि सुहृद्वृतम्
एतावदभिनीतार्थमुक्त्वा स जननीं वचः। त्रयः शतशतार्धा हि ददर्शावेक्ष्य मातरः
ताश्चापि स तथैवार्ता मातॄर्दशरथात्मजः। धर्मयुक्तमिदं वाक्यं निजगाद कृताञ्जलिः
संवासात् परुषं किंचिदज्ञानादपि यत् कृतम्। तन्मे समुपजानीत सर्वाश्चामन्त्रयामि वः
जज्ञोऽथ तासां संनादः क्रौञ्चीनामिव निःस्वनः। मानवेन्द्रस्य भार्याणामेवं वदति राघवे
मुरजपणवमेघघोषवद् दशरथवेश्म बभूव यत् पुरा। विलपितपरिदेवनाकुलं व्यसनगतं तदभूत् सुदुःखितम्
thumb|चत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चत्वारिंशः सर्गः ॥२-
अथ रामश्च सीता च लक्ष्मणश्च कृताञ्जलिः। उपसंगृह्य राजानं चक्रुर्दीनाः प्रदक्षिणम्