रामस्तु पुनरालक्ष्य नागरस्य जनस्य च । तत्रागमनमेकाग्रो दण्डकान् प्रविवेश ह ॥१-१-
प्रविश्य तु महारण्यं रामो राजीवलोचनः । विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह ॥१-१-
सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्यभ्रातरं तथा । अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम् ॥१-१-
खड्गञ्च परम प्रीतस्तूणी चाक्षयसायकौ । वसतस्तस्य रामस्य वने वनचरैः सह ॥१-१-
ऋषयोऽभ्यागमन् सर्वे वधायासुररक्षसाम् । स तेषां प्रतिशुश्राव राक्षसानां तदा वने ॥१-१-
प्रतिज्ञातश्च रामेण वधः संयति रक्षसाम् । ऋषीणामग्निकल्पानां दण्डकारण्यवासीनाम् ॥१-१-
तेन तत्रैव वसता जनस्थाननिवासिनी । विरूपिता शूर्पणखा राक्षसी कामरूपिणी ॥१-१-
ततः शूर्पणखावाक्यादुद्युक्तान् सर्वराक्षसान् । खरं त्रिशिरसं चैव दूषणं चैव राक्षसम् ॥१-१-
निजघान रणे रामस्तेषां चैव पदानुगान् । वने तस्मिन् निवसता जनस्थाननिवासिनाम् ॥१-१-
रक्षसां निहतान्यासन् सहस्राणि चतुर्दश । ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्छितः ॥१-१-
सहायं वरयामास मारीचं नाम राक्षसम् । वार्यमाणः सुबहुशो मारीचेन स रावणः ॥१-१-
न विरोधो बलवता क्षमो रावण तेन ते । अनादृत्य तु तद्वाक्यं रावणः कालचोदितः ॥१-१-
जगाम सहमारीचस्तस्याश्रमपदं तदा । तेन मायाविना दूरमपवाह्य नृपात्मजौ ॥१-१-
जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम् । गृध्रञ्च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम् ॥१-१-
राघवः शोकसंतप्तो विललापाकुलेन्द्रियः । ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम् ॥१-१-
मार्गमाणो वने सीतां राक्षसं सन्ददर्श ह । कबन्धं नाम रूपेण विकृतं घोरदर्शनम् ॥१-१-
तन्निहत्य महाबाहुर्ददाह स्वर्गतश्च सः । स चास्य कथयामास शबरीं धर्मचारिणीम् ॥१-१-
श्रमणां धर्मनिपुणामभिगच्छेति राघव । सोऽभ्य गच्छन्महातेजाः शबरीं शत्रुसूदनः ॥१-१-
शबर्या पूजितः सम्यग् रामो दशरथात्मजः । पम्पातीरे हनुमता सङ्गतो वानरेण ह ॥१-१-
हनुमद्वचनाच्चैव सुग्रीवेण समागतः । सुग्रीवाय च तत्सर्वं शंसद्रामो महाबलः ॥१-१-
आदितस्तद् यथावृत्तं सीतायाश्च विशेषतः । सुग्रीवश्चापि तत्सर्वं श्रुत्वा रामस्य वानरः ॥१-१-
चकार सख्यं रामेण प्रीतश्चैवाग्निसाक्षिकम् । ततो वानरराजेन वैरानुकथनं प्रति ॥१-१-
रामायावेदितं सर्वं प्रणयात् दुःखितेन च । प्रतिज्ञातञ्च रामेण तदा वालिवधं प्रति ॥१-१-
वालिनश्च बलं तत्र कथयामास वानरः । सुग्रीवः शङ्कितश्चासीन्नित्यं वीर्येण राघवे ॥१-१-
राघवप्रत्ययार्थं तु दुन्दुभेः कायमुत्तमम् । दर्शयामास सुग्रीवः महापर्वतसन्निभम् ॥१-१-
उत्स्मयित्वा महाबाहुः प्रेक्ष्य चास्ति महाबलः । पादाङ्गुष्ठेन चिक्षेप संपूर्णं दशयोजनम् ॥१-१-
बिभेद च पुनस्सालान् सप्तैकेन महेषुणा । गिरिं रसातलञ्चैव जनयन् प्रत्ययं तथा ॥१-१-
ततः प्रीतमनास्तेन विश्वस्तस्स महाकपिः । किष्किन्धां रामसहितो जगाम च गुहां तदा ॥१-१-
ततोऽगर्जद्धरिवरः सुग्रीवो हेमपिङ्गलः । तेन नादेन महता निर्जगाम हरीश्वरः ॥१-१-
अनुमान्य तदा तारां सुग्रीवेण समागतः । निजघान च तत्रैनं शरेणैकेन राघवः ॥१-१-