चीराण्यपास्याज्जनकस्य कन्या नेयं प्रतिज्ञा मम दत्तपूर्वा। यथासुखं गच्छतु राजपुत्री वनं समग्रा सह सर्वरत्नैः
अजीवनार्हेण मया नृशंसा कृता प्रतिज्ञा नियमेन तावत्। त्वया हि बाल्यात् प्रतिपन्नमेतत् तन्मा दहेद् वेणुमिवात्मपुष्पम्
रामेण यदि ते पापे किंचित्कृतमशोभनम्। अपकारः क इह ते वैदेह्या दर्शितोऽधमे
मृगीवोत्फुल्लनयना मृदुशीला मनस्विनी। अपकारं कमिव ते करोति जनकात्मजा
ननु पर्याप्तमेवं ते पापे रामविवासनम्। किमेभिः कृपणैर्भूयः पातकैरपि ते कृतैः
प्रतिज्ञातं मया तावत् त्वयोक्तं देवि शृण्वता। रामं यदभिषेकाय त्वमिहागतमब्रवीः
तत्त्वेतत् समतिक्रम्य निरयं गन्तुमिच्छसि। मैथिलीमपि या हि त्वमीक्षसे चीरवासिनीम्
एवं ब्रुवन्तं पितरं रामः सम्प्रस्थितो वनम्। अवाक्शिरसमासीनमिदं वचनमब्रवीत्
इयं धार्मिक कौसल्या मम माता यशस्विनी। वृद्धा चाक्षुद्रशीला च न च त्वां देव गर्हते
मया विहीनां वरद प्रपन्नां शोकसागरम्। अदृष्टपूर्वव्यसनां भूयः सम्मन्तुमर्हसि
पुत्रशोकं यथा नर्च्छेत् त्वया पूज्येन पूजिता। मां हि संचिन्तयन्ती सा त्वयि जीवेत् तपस्विनी
इमां महेन्द्रोपम जातगर्धिनीं तथा विधातुं जननीं ममार्हसि। यथा वनस्थे मयि शोककर्शिता न जीवितं न्यस्य यमक्षयं व्रजेत्
thumb|एकोनचत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकोनचत्वारिंशः सर्गः ॥२-
रामस्य तु वचः श्रुत्वा मुनिवेषधरं च तम्। समीक्ष्य सह भार्याभी राजा विगतचेतनः
नैनं दुःखेन संतप्तः प्रत्यवैक्षत राघवम्। न चैनमभिसम्प्रेक्ष्य प्रत्यभाषत दुर्मनाः
स मुहूर्तमिवासंज्ञो दुःखितश्च महीपतिः। विललाप महाबाहू राममेवानुचिन्तयन्
मन्ये खलु मया पूर्वं विवत्सा बहवः कृताः। प्राणिनो हिंसिता वापि तन्मामिदमुपस्थितम्
न त्वेवानागते काले देहाच्च्यवति जीवितम्। कैकेय्या क्लिश्यमानस्य मृत्युर्मम न विद्यते
योऽहं पावकसंकाशं पश्यामि पुरतः स्थितम्। विहाय वसने सूक्ष्मे तापसाच्छादमात्मजम्
एकस्याः खलु कैकेय्याः कृतेऽयं खिद्यते जनः। स्वार्थे प्रयतमानायाः संश्रित्य निकृतिं त्विमाम्
एवमुक्त्वा तु वचनं बाष्पेण विहतेन्द्रियः। रामेति सकृदेवोक्त्वा व्याहर्तुं न शशाक सः
संज्ञां तु प्रतिलभ्यैव मुहूर्तात् स महीपतिः। नेत्राभ्यामश्रुपूर्णाभ्यां सुमन्त्रमिदमब्रवीत्
औपवाह्यं रथं युक्त्वा त्वमायाहि हयोत्तमैः। प्रापयैनं महाभागमितो जनपदात् परम्
एवं मन्ये गुणवतां गुणानां फलमुच्यते। पित्रा मात्रा च यत्साधुर्वीरो निर्वास्यते वनम्
राज्ञो वचनमाज्ञाय सुमन्त्रः शीघ्रविक्रमः। योजयित्वा ययौ तत्र रथमश्वैरलंकृतम्
तं रथं राजपुत्राय सूतः कनकभूषितम्। आचचक्षेऽञ्जलिं कृत्वा युक्तं परमवाजिभिः
राजा सत्वरमाहूय व्यापृतं वित्तसंचये। उवाच देशकालज्ञो निश्चितं सर्वतः शुचिः
वासांसि च वरार्हाणि भूषणानि महान्ति च। वर्षाण्येतानि संख्याय वैदेह्याः क्षिप्रमानय
नरेन्द्रेणैवमुक्तस्तु गत्वा कोशगृहं ततः। प्रायच्छत् सर्वमाहृत्य सीतायै क्षिप्रमेव तत्
सा सुजाता सुजातानि वैदेही प्रस्थिता वनम्। भूषयामास गात्राणि तैर्विचित्रैर्विभूषणैः