रामं प्रेक्ष्य तु सीताया बध्नन्तं चीरमुत्तमम्। अन्तःपुरचरा नार्यो मुमुचुर्वारि नेत्रजम्
ऊचुश्च परमायत्ता रामं ज्वलिततेजसम्। वत्स नैवं नियुक्तेयं वनवासे मनस्विनी
पितुर्वाक्यानुरोधेन गतस्य विजनं वनम्। तावद् दर्शनमस्या नः सफलं भवतु प्रभो
लक्ष्मणेन सहायेन वनं गच्छस्व पुत्रक। नेयमर्हति कल्याणि वस्तुं तापसवद् वने
कुरु नो याचनां पुत्र सीता तिष्ठतु भामिनी। धर्मनित्यः स्वयं स्थातुं न हीदानीं त्वमिच्छसि
तासामेवंविधा वाचः शृण्वन् दशरथात्मजः। बबन्धैव तथा चीरं सीतया तुल्यशीलया
चीरे गृहीते तु तया सबाष्पो नृपतेर्गुरुः। निवार्य सीतां कैकेयीं वसिष्ठो वाक्यमब्रवीत्
अतिप्रवृत्ते दुर्मेधे कैकेयि कुलपांसनि। वञ्चयित्वा तु राजानं न प्रमाणेऽवतिष्ठसि
न गन्तव्यं वनं देव्या सीतया शीलवर्जिते। अनुष्ठास्यति रामस्य सीता प्रकृतमासनम्
आत्मा हि दाराः सर्वेषां दारसंग्रहवर्तिनाम्। आत्मेयमिति रामस्य पालयिष्यति मेदिनीम्
अथ यास्यति वैदेही वनं रामेण संगता। वयमत्रानुयास्यामः पुरं चेदं गमिष्यति
अन्तपालाश्च यास्यन्ति सदारो यत्र राघवः। सहोपजीव्यं राष्ट्रं च पुरं च सपरिच्छदम्
भरतश्च सशत्रुघ्नश्चीरवासा वनेचरः। वने वसन्तं काकुत्स्थमनुवत्स्यति पूर्वजम्
ततः शून्यां गतजनां वसुधां पादपैः सह। त्वमेका शाधि दुर्वृत्ता प्रजानामहिते स्थिता
न हि तद् भविता राष्ट्रं यत्र रामो न भूपतिः। तद् वनं भविता राष्ट्रं यत्र रामो निवत्स्यति
न ह्यदत्तां महीं पित्रा भरतः शास्तुमिच्छति। त्वयि वा पुत्रवद् वस्तुं यदि जातो महीपतेः
यद्यपि त्वं क्षितितलाद् गगनं चोत्पतिष्यसि। पितृवंशचरित्रज्ञः सोऽन्यथा न करिष्यति
तत् त्वया पुत्रगर्धिन्या पुत्रस्य कृतमप्रियम्। लोके नहि स विद्येत यो न राममनुव्रतः
द्रक्ष्यस्यद्यैव कैकेयि पशुव्यालमृगद्विजान्। गच्छतः सह रामेण पादपांश्च तदुन्मुखान्
अथोत्तमान्याभरणानि देवि देहि स्नुषायै व्यपनीय चीरम्। न चीरमस्याः प्रविधीयतेति न्यवारयत् तद् वसनं वसिष्ठः
एकस्य रामस्य वने निवास- स्त्वया वृतः केकयराजपुत्रि। विभूषितेयं प्रतिकर्मनित्या वसत्वरण्ये सह राघवेण
यानैश्च मुख्यैः परिचारकैश्च सुसंवृता गच्छतु राजपुत्री। वस्त्रैश्च सर्वैः सहितैर्विधानै- र्नेयं वृता ते वरसम्प्रदाने
thumb|अष्टात्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टात्रिंशः सर्गः ॥२-
तस्यां चीरं वसानायां नाथवत्यामनाथवत्। प्रचुक्रोश जनः सर्वो धिक् त्वां दशरथं त्विति
तेन तत्र प्रणादेन दुःखितः स महीपतिः। चिच्छेद जीविते श्रद्धां धर्मे यशसि चात्मनः
स निःश्वस्योष्णमैक्ष्वाकस्तां भार्यामिदमब्रवीत्। कैकेयि कुशचीरेण न सीता गन्तुमर्हति
सुकुमारी च बाला च सततं च सुखोचिता। नेयं वनस्य योग्येति सत्यमाह गुरुर्मम
इयं हि कस्यापि करोति किंचित् तपस्विनी राजवरस्य पुत्री। या चीरमासाद्य जनस्य मध्ये स्थिता विसंज्ञा श्रमणीव काचित्
चीराण्यपास्याज्जनकस्य कन्या नेयं प्रतिज्ञा मम दत्तपूर्वा। यथासुखं गच्छतु राजपुत्री वनं समग्रा सह सर्वरत्नैः
अजीवनार्हेण मया नृशंसा कृता प्रतिज्ञा नियमेन तावत्। त्वया हि बाल्यात् प्रतिपन्नमेतत् तन्मा दहेद् वेणुमिवात्मपुष्पम्