एवमुक्तो धिगित्येव राजा दशरथोऽब्रवीत्। व्रीडितश्च जनः सर्वः सा च तन्नावबुध्यत
तत्र वृद्धो महामात्रः सिद्धार्थो नाम नामतः। शुचिर्बहुमतो राज्ञः कैकेयीमिदमब्रवीत्
असमञ्जो गृहीत्वा तु क्रीडतः पथि दारकान्। सरय्वां प्रक्षिपन्नप्सु रमते तेन दुर्मतिः
तं दृष्ट्वा नागराः सर्वे क्रुद्धा राजानमब्रुवन्। असमञ्जं वृणीष्वैकमस्मान् वा राष्ट्रवर्धन
तानुवाच ततो राजा किंनिमित्तमिदं भयम्। ताश्चापि राज्ञा सम्पृष्टा वाक्यं प्रकृतयोऽब्रुवन्
क्रीडतस्त्वेष नः पुत्रान् बालानुद्भ्रान्तचेतसः। सरय्वां प्रक्षिपन्मौर्ख्यादतुलां प्रीतिमश्नुते
स तासां वचनं श्रुत्वा प्रकृतीनां नराधिपः। तं तत्याजाहितं पुत्रं तासां प्रियचिकीर्षया
तं यानं शीघ्रमारोप्य सभार्यं सपरिच्छदम्। यावज्जीवं विवास्योऽयमिति तानन्वशात् पिता
स फालपिटकं गृह्य गिरिदुर्गाण्यलोकयत्। दिशः सर्वास्त्वनुचरन् स यथा पापकर्मकृत्
इत्येनमत्यजद् राजा सगरो वै सुधार्मिकः। रामः किमकरोत् पापं येनैवमुपरुध्यते
नहि कंचन पश्यामो राघवस्यागुणं वयम्। दुर्लभो ह्यस्य निरयः शशाङ्कस्येव कल्मषम्
अथवा देवि त्वं कंचिद् दोषं पश्यसि राघवे। तमद्य ब्रूहि तत्त्वेन तदा रामो विवास्यते
अदुष्टस्य हि संत्यागः सत्पथे निरतस्य च। निर्दहेदपि शक्रस्य द्युतिं धर्मविरोधवान्
तदलं देवि रामस्य श्रिया विहतया त्वया। लोकतोऽपि हि ते रक्ष्यः परिवादः शुभानने
श्रुत्वा तु सिद्धार्थवचो राजा श्रान्ततरस्वरः। शोकोपहतया वाचा कैकेयीमिदमब्रवीत्
एतद्वचो नेच्छसि पापरूपे हितं न जानासि ममात्मनोऽथवा। आस्थाय मार्गं कृपणं कुचेष्टा चेष्टा हि ते साधुपथादपेता
अनुव्रजिष्याम्यहमद्य रामं राज्यं परित्यज्य सुखं धनं च। सर्वे च राज्ञा भरतेन च त्वं यथासुखं भुङ्क्ष्व चिराय राज्यम्
thumb|सप्तत्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तत्रिंशः सर्गः ॥२-
महामात्रवचः श्रुत्वा रामो दशरथं तदा। अभ्यभाषत वाक्यं तु विनयज्ञो विनीतवत्
त्यक्तभोगस्य मे राजन् वने वन्येन जीवतः। किं कार्यमनुयात्रेण त्यक्तसङ्गस्य सर्वतः
यो हि दत्त्वा द्विपश्रेष्ठं कक्ष्यायां कुरुते मनः। रज्जुस्नेहेन किं तस्य त्यजतः कुञ्जरोत्तमम्
तथा मम सतां श्रेष्ठ किं ध्वजिन्या जगत्पते। सर्वाण्येवानुजानामि चीराण्येवानयन्तु मे
खनित्रपिटके चोभे समानयत गच्छत। चतुर्दश वने वासं वर्षाणि वसतो मम
अथ चीराणि कैकेयी स्वयमाहृत्य राघवम्। उवाच परिधत्स्वेति जनौघे निरपत्रपा
स चीरे पुरुषव्याघ्रः कैकेय्याः प्रतिगृह्य ते। सूक्ष्मवस्त्रमवक्षिप्य मुनिवस्त्राण्यवस्त ह
लक्ष्मणश्चापि तत्रैव विहाय वसने शुभे। तापसाच्छादने चैव जग्राह पितुरग्रतः
अथात्मपरिधानार्थं सीता कौशेयवासिनी। सम्प्रेक्ष्य चीरं संत्रस्ता पृषती वागुरामिव
सा व्यपत्रपमाणेव प्रगृह्य च सुदुर्मनाः। कैकेय्याः कुशचीरे ते जानकी शुभलक्षणा
अश्रुसम्पूर्णनेत्रा च धर्मज्ञा धर्मदर्शिनी। गन्धर्वराजप्रतिमं भर्तारमिदमब्रवीत्
कथं नु चीरं बघ्नन्ति मुनयो वनवासिनः। इति ह्यकुशला सीता सा मुमोह मुहुर्मुहुः