स्वराज्यं राघवः पातु भव त्वं विगतज्वरा। नहि ते राघवादन्यः क्षमः पुरवरे वसन्
इति सान्त्वैश्च तीक्ष्णैश्च कैकेयीं राजसंसदि। भूयः संक्षोभयामास सुमन्त्रस्तु कृताञ्जलिः
नैव सा क्षुभ्यते देवी न च स्म परिदूयते। न चास्या मुखवर्णस्य लक्ष्यते विक्रिया तदा
thumb|षड्त्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षड्त्रिंशः सर्गः ॥२-
ततः सुमन्त्रमैक्ष्वाकः पीडितोऽत्र प्रतिज्ञया। सबाष्पमतिनिःश्वस्य जगादेदं पुनर्वचः
सूत रत्नसुसम्पूर्णा चतुर्विधबला चमूः। राघवस्यानुयात्रार्थं क्षिप्रं प्रतिविधीयताम्
रूपाजीवाश्च वादिन्यो वणिजश्च महाधनाः। शोभयन्तु कुमारस्य वाहिनीः सुप्रसारिताः
ये चैनमुपजीवन्ति रमते यैश्च वीर्यतः। तेषां बहुविधं दत्त्वा तानप्यत्र नियोजय
आयुधानि च मुख्यानि नागराः शकटानि च। अनुगच्छन्तु काकुत्स्थं व्याधाश्चारण्यकोविदाः
निघ्नन् मृगान् कुञ्जरांश्च पिबंश्चारण्यकं मधु। नदीश्च विविधाः पश्यन् न राज्यं संस्मरिष्यति
धान्यकोशश्च यः कश्चिद् धनकोशश्च मामकः। तौ राममनुगच्छेतां वसन्तं निर्जने वने
यजन् पुण्येषु देशेषु विसृजंश्चाप्तदक्षिणाः। ऋषिभिश्चापि संगम्य प्रवत्स्यति सुखं वने
भरतश्च महाबाहुरयोध्यां पालयिष्यति। सर्वकामैः पुनः श्रीमान् रामः संसाध्यतामिति
एवं ब्रुवति काकुत्स्थे कैकेय्या भयमागतम्। मुखं चाप्यगमच्छोषं स्वरश्चापि व्यरुध्यत
सा विषण्णा च संत्रस्ता मुखेन परिशुष्यता। राजानमेवाभिमुखी कैकेयी वाक्यमब्रवीत्
राज्यं गतधनं साधो पीतमण्डां सुरामिव। निरास्वाद्यतमं शून्यं भरतो नाभिपत्स्यते
कैकेय्यां मुक्तलज्जायां वदन्त्यामतिदारुणम्। राजा दशरथो वाक्यमुवाचायतलोचनाम्
वहन्तं किं तुदसि मां नियुज्य धुरि माहिते। अनार्ये कृत्यमारब्धं किं न पूर्वमुपारुधः
तस्यैतत् क्रोधसंयुक्तमुक्तं श्रुत्वा वराङ्गना। कैकेयी द्विगुणं क्रुद्धा राजानमिदमब्रवीत्
तवैव वंशे सगरो ज्येष्ठपुत्रमुपारुधत्। असमञ्ज इति ख्यातं तथायं गन्तुमर्हति
एवमुक्तो धिगित्येव राजा दशरथोऽब्रवीत्। व्रीडितश्च जनः सर्वः सा च तन्नावबुध्यत
तत्र वृद्धो महामात्रः सिद्धार्थो नाम नामतः। शुचिर्बहुमतो राज्ञः कैकेयीमिदमब्रवीत्
असमञ्जो गृहीत्वा तु क्रीडतः पथि दारकान्। सरय्वां प्रक्षिपन्नप्सु रमते तेन दुर्मतिः
तं दृष्ट्वा नागराः सर्वे क्रुद्धा राजानमब्रुवन्। असमञ्जं वृणीष्वैकमस्मान् वा राष्ट्रवर्धन
तानुवाच ततो राजा किंनिमित्तमिदं भयम्। ताश्चापि राज्ञा सम्पृष्टा वाक्यं प्रकृतयोऽब्रुवन्
क्रीडतस्त्वेष नः पुत्रान् बालानुद्भ्रान्तचेतसः। सरय्वां प्रक्षिपन्मौर्ख्यादतुलां प्रीतिमश्नुते
स तासां वचनं श्रुत्वा प्रकृतीनां नराधिपः। तं तत्याजाहितं पुत्रं तासां प्रियचिकीर्षया
तं यानं शीघ्रमारोप्य सभार्यं सपरिच्छदम्। यावज्जीवं विवास्योऽयमिति तानन्वशात् पिता
स फालपिटकं गृह्य गिरिदुर्गाण्यलोकयत्। दिशः सर्वास्त्वनुचरन् स यथा पापकर्मकृत्
इत्येनमत्यजद् राजा सगरो वै सुधार्मिकः। रामः किमकरोत् पापं येनैवमुपरुध्यते