आश्चर्यमिव पश्यामि यस्यास्ते वृत्तमीदृशम्। आचरन्त्या न विवृता सद्यो भवति मेदिनी
महाब्रह्मर्षिसृष्टा वा ज्वलन्तो भीमदर्शनाः। धिग्वाग्दण्डा न हिंसन्ति रामप्रव्राजने स्थिताम्
आम्रं छित्त्वा कुठारेण निम्बं परिचरेत् तु कः। यश्चैनं पयसा सिञ्चेन्नैवास्य मधुरो भवेत्
आभिजात्यं हि ते मन्ये यथा मातुस्तथैव च। न हि निम्बात् स्रवेत् क्षौद्रं लोके निगदितं वचः
तव मातुरसद्ग्राहं विद्म पूर्वं यथा श्रुतम्। पितुस्ते वरदः कश्चिद् ददौ वरमनुत्तमम्
सर्वभूतरुतं तस्मात् संजज्ञे वसुधाधिपः। तेन तिर्यग्गतानां च भूतानां विदितं वचः
ततो जृम्भस्य शयने विरुताद् भूरिवर्चसः। पितुस्ते विदितो भावः स तत्र बहुधाहसत्
तत्र ते जननी क्रुद्धा मृत्युपाशमभीप्सती। हासं ते नृपते सौम्य जिज्ञासामीति चाब्रवीत्
नृपश्चोवाच तां देवीं हासं शंसामि ते यदि। ततो मे मरणं सद्यो भविष्यति न संशयः
माता ते पितरं देवि पुनः केकयमब्रवीत्। शंस मे जीव वा मा वा न मां त्वं प्रहसिष्यसि
प्रियया च तथोक्तः स केकयः पृथिवीपतिः। तस्मै तं वरदायार्थं कथयामास तत्त्वतः
ततः स वरदः साधू राजानं प्रत्यभाषत। म्रियतां ध्वंसतां वेयं मा शंसीस्त्वं महीपते
स तच्छ्रुत्वा वचस्तस्य प्रसन्नमनसो नृपः। मातरं ते निरस्याशु विजहार कुबेरवत्
तथा त्वमपि राजानं दुर्जनाचरिते पथि। असद्ग्राहमिमं मोहात् कुरुषे पापदर्शिनी
सत्यश्चात्र प्रवादोऽयं लौकिकः प्रतिभाति मा। पितॄन् समनुजायन्ते नरा मातरमङ्गनाः
नैवं भव गृहाणेदं यदाह वसुधाधिपः। भर्तुरिच्छामुपास्वेह जनस्यास्य गतिर्भव
मा त्वं प्रोत्साहिता पापैर्देवराजसमप्रभम्। भर्तारं लोकभर्तारमसद्धर्ममुपादध
नहि मिथ्या प्रतिज्ञातं करिष्यति तवानघः। श्रीमान् दशरथो राजा देवि राजीवलोचनः
ज्येष्ठो वदान्यः कर्मण्यः स्वधर्मस्यापि रक्षिता। रक्षिता जीवलोकस्य बली रामोऽभिषिच्यताम्
परिवादो हि ते देवि महाँल्लोके चरिष्यति। यदि रामो वनं याति विहाय पितरं नृपम्
स्वराज्यं राघवः पातु भव त्वं विगतज्वरा। नहि ते राघवादन्यः क्षमः पुरवरे वसन्
इति सान्त्वैश्च तीक्ष्णैश्च कैकेयीं राजसंसदि। भूयः संक्षोभयामास सुमन्त्रस्तु कृताञ्जलिः
नैव सा क्षुभ्यते देवी न च स्म परिदूयते। न चास्या मुखवर्णस्य लक्ष्यते विक्रिया तदा
thumb|षड्त्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षड्त्रिंशः सर्गः ॥२-
ततः सुमन्त्रमैक्ष्वाकः पीडितोऽत्र प्रतिज्ञया। सबाष्पमतिनिःश्वस्य जगादेदं पुनर्वचः
सूत रत्नसुसम्पूर्णा चतुर्विधबला चमूः। राघवस्यानुयात्रार्थं क्षिप्रं प्रतिविधीयताम्
रूपाजीवाश्च वादिन्यो वणिजश्च महाधनाः। शोभयन्तु कुमारस्य वाहिनीः सुप्रसारिताः
ये चैनमुपजीवन्ति रमते यैश्च वीर्यतः। तेषां बहुविधं दत्त्वा तानप्यत्र नियोजय
आयुधानि च मुख्यानि नागराः शकटानि च। अनुगच्छन्तु काकुत्स्थं व्याधाश्चारण्यकोविदाः
निघ्नन् मृगान् कुञ्जरांश्च पिबंश्चारण्यकं मधु। नदीश्च विविधाः पश्यन् न राज्यं संस्मरिष्यति