मया विसृष्टां भरतो महीमिमां सशैलखण्डां सपुरोपकाननाम्। शिवासु सीमास्वनुशास्तु केवलं त्वया यदुक्तं नृपते तथास्तु तत्
न मे तथा पार्थिव धीयते मनो महत्सु कामेषु न चात्मनः प्रिये। यथा निदेशे तव शिष्टसम्मते व्यपैतु दुःखं तव मत्कृतेऽनघ
तदद्य नैवानघ राज्यमव्ययं न सर्वकामान् वसुधां न मैथिलीम्। न चिन्तितं त्वामनृतेन योजयन् वृणीय सत्यं व्रतमस्तु ते तथा
फलानि मूलानि च भक्षयन् वने गिरींश्च पश्यन् सरितः सरांसि च। वनं प्रविश्यैव विचित्रपादपं सुखी भविष्यामि तवास्तु निर्वृतिः
एवं स राजा व्यसनाभिपन्न- स्तापेन दुःखेन च पीड्यमानः। आलिङ्ग्य पुत्रं सुविनष्टसंज्ञो भूमिं गतो नैव चिचेष्ट किंचित्
देव्यः समस्ता रुरुदुः समेता- स्तां वर्जयित्वा नरदेवपत्नीम्। रुदन् सुमन्त्रोऽपि जगाम मूर्च्छां हाहाकृतं तत्र बभूव सर्वम्
thumb|पञ्चत्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चत्रिंशः सर्गः ॥२-
ततो निधूय सहसा शिरो निःश्वस्य चासकृत्। पाणिं पाणौ विनिष्पिष्य दन्तान् कटकटाय्य च
लोचने कोपसंरक्ते वर्णं पूर्वोचितं जहत्। कोपाभिभूतः सहसा संतापमशुभं गतः
मनः समीक्षमाणश्च सूतो दशरथस्य च। कम्पयन्निव कैकेय्या हृदयं वाक्शरैः शितैः
वाक्यवज्रैरनुपमैर्निर्भिन्दन्निव चाशुभैः। कैकेय्याः सर्वमर्माणि सुमन्त्रः प्रत्यभाषत
यस्यास्तव पतिस्त्यक्तो राजा दशरथः स्वयम्। भर्ता सर्वस्य जगतः स्थावरस्य चरस्य च
नह्यकार्यतमं किंचित्तव देवीह विद्यते। पतिघ्नीं त्वामहं मन्ये कुलघ्नीमपि चान्ततः
यन्महेन्द्रमिवाजय्यं दुष्प्रकम्प्यमिवाचलम्। महोदधिमिवाक्षोभ्यं संतापयसि कर्मभिः
मावमंस्था दशरथं भर्तारं वरदं पतिम्। भर्तुरिच्छा हि नारीणां पुत्रकोट्या विशिष्यते
यथावयो हि राज्यानि प्राप्नुवन्ति नृपक्षये। इक्ष्वाकुकुलनाथेऽस्मिंस्तं लोपयितुमिच्छसि
राजा भवतु ते पुत्रो भरतः शास्तु मेदिनीम्। वयं तत्र गमिष्यामो यत्र रामो गमिष्यति
न च ते विषये कश्चिद् ब्राह्मणो वस्तुमर्हति। तादृशं त्वममर्यादमद्य कर्म करिष्यसि
नूनं सर्वे गमिष्यामो मार्गं रामनिषेवितम्। त्यक्ता या बान्धवैः सर्वैर्ब्राह्मणैः साधुभिः सदा
का प्रीती राज्यलाभेन तव देवि भविष्यति। तादृशं त्वममर्यादं कर्म कर्तुं चिकीर्षसि
आश्चर्यमिव पश्यामि यस्यास्ते वृत्तमीदृशम्। आचरन्त्या न विवृता सद्यो भवति मेदिनी
महाब्रह्मर्षिसृष्टा वा ज्वलन्तो भीमदर्शनाः। धिग्वाग्दण्डा न हिंसन्ति रामप्रव्राजने स्थिताम्
आम्रं छित्त्वा कुठारेण निम्बं परिचरेत् तु कः। यश्चैनं पयसा सिञ्चेन्नैवास्य मधुरो भवेत्
आभिजात्यं हि ते मन्ये यथा मातुस्तथैव च। न हि निम्बात् स्रवेत् क्षौद्रं लोके निगदितं वचः
तव मातुरसद्ग्राहं विद्म पूर्वं यथा श्रुतम्। पितुस्ते वरदः कश्चिद् ददौ वरमनुत्तमम्
सर्वभूतरुतं तस्मात् संजज्ञे वसुधाधिपः। तेन तिर्यग्गतानां च भूतानां विदितं वचः
ततो जृम्भस्य शयने विरुताद् भूरिवर्चसः। पितुस्ते विदितो भावः स तत्र बहुधाहसत्
तत्र ते जननी क्रुद्धा मृत्युपाशमभीप्सती। हासं ते नृपते सौम्य जिज्ञासामीति चाब्रवीत्
नृपश्चोवाच तां देवीं हासं शंसामि ते यदि। ततो मे मरणं सद्यो भविष्यति न संशयः
माता ते पितरं देवि पुनः केकयमब्रवीत्। शंस मे जीव वा मा वा न मां त्वं प्रहसिष्यसि