न चैतन्मे प्रियं पुत्र शपे सत्येन राघव। छन्नया चलितस्त्वस्मि स्त्रिया भस्माग्निकल्पया
वञ्चना या तु लब्धा मे तां त्वं निस्तर्तुमिच्छसि। अनया वृत्तसादिन्या कैकेय्याभिप्रचोदितः
न चैतदाश्चर्यतमं यत् त्वं ज्येष्ठः सुतो मम। अपानृतकथं पुत्र पितरं कर्तुमिच्छसि
अथ रामस्तदा श्रुत्वा पितुरार्तस्य भाषितम्। लक्ष्मणेन सह भ्रात्रा दीनो वचनमब्रवीत्
प्राप्स्यामि यानद्य गुणान् को मे श्वस्तान् प्रदास्यति। अपक्रमणमेवातः सर्वकामैरहं वृणे
इयं सराष्ट्रा सजना धनधान्यसमाकुला। मया विसृष्टा वसुधा भरताय प्रदीयताम्
वनवासकृता बुद्धिर्न च मेऽद्य चलिष्यति। यस्तु युद्धे वरो दत्तः कैकेय्यै वरद त्वया
दीयतां निखिलेनैव सत्यस्त्वं भव पार्थिव। अहं निदेशं भवतो यथोक्तमनुपालयन्
चतुर्दश समा वत्स्ये वने वनचरैः सह। मा विमर्शो वसुमती भरताय प्रदीयताम्
नहि मे कांक्षितं राज्यं सुखमात्मनि वा प्रियम्। यथानिदेशं कर्तुं वै तवैव रघुनन्दन
अपगच्छतु ते दुःखं मा भूर्बाष्पपरिप्लुतः। नहि क्षुभ्यति दुर्धर्षः समुद्रः सरितां पतिः
नैवाहं राज्यमिच्छामि न सुखं न च मेदिनीम्। नैव सर्वानिमान् कामान् न स्वर्गं न च जीवितुम्
त्वामहं सत्यमिच्छामि नानृतं पुरुषर्षभ। प्रत्यक्षं तव सत्येन सुकृतेन च ते शपे
न च शक्यं मया तात स्थातुं क्षणमपि प्रभो। स शोकं धारयस्वेमं नहि मेऽस्ति विपर्ययः
अर्थितो ह्यस्मि कैकेय्या वनं गच्छेति राघव। मया चोक्तं व्रजामीति तत्सत्यमनुपालये
मा चोत्कण्ठां कृथा देव वने रंस्यामहे वयम्। प्रशान्तहरिणाकीर्णे नानाशकुनिनादिते
पिता हि दैवतं तात देवतानामपि स्मृतम्। तस्माद् दैवतमित्येव करिष्यामि पितुर्वचः
चतुर्दशसु वर्षेषु गतेषु नृपसत्तम। पुनर्द्रक्ष्यसि मां प्राप्तं संतापोऽयं विमुच्यताम्
येन संस्तम्भनीयोऽयं सर्वो बाष्पकलो जनः। स त्वं पुरुषशार्दूल किमर्थं विक्रियां गतः
पुरं च राष्ट्रं च मही च केवला मया विसृष्टा भरताय दीयताम्। अहं निदेशं भवतोऽनुपालयन् वनं गमिष्यामि चिराय सेवितुम्
मया विसृष्टां भरतो महीमिमां सशैलखण्डां सपुरोपकाननाम्। शिवासु सीमास्वनुशास्तु केवलं त्वया यदुक्तं नृपते तथास्तु तत्
न मे तथा पार्थिव धीयते मनो महत्सु कामेषु न चात्मनः प्रिये। यथा निदेशे तव शिष्टसम्मते व्यपैतु दुःखं तव मत्कृतेऽनघ
तदद्य नैवानघ राज्यमव्ययं न सर्वकामान् वसुधां न मैथिलीम्। न चिन्तितं त्वामनृतेन योजयन् वृणीय सत्यं व्रतमस्तु ते तथा
फलानि मूलानि च भक्षयन् वने गिरींश्च पश्यन् सरितः सरांसि च। वनं प्रविश्यैव विचित्रपादपं सुखी भविष्यामि तवास्तु निर्वृतिः
एवं स राजा व्यसनाभिपन्न- स्तापेन दुःखेन च पीड्यमानः। आलिङ्ग्य पुत्रं सुविनष्टसंज्ञो भूमिं गतो नैव चिचेष्ट किंचित्
देव्यः समस्ता रुरुदुः समेता- स्तां वर्जयित्वा नरदेवपत्नीम्। रुदन् सुमन्त्रोऽपि जगाम मूर्च्छां हाहाकृतं तत्र बभूव सर्वम्
thumb|पञ्चत्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चत्रिंशः सर्गः ॥२-
ततो निधूय सहसा शिरो निःश्वस्य चासकृत्। पाणिं पाणौ विनिष्पिष्य दन्तान् कटकटाय्य च
लोचने कोपसंरक्ते वर्णं पूर्वोचितं जहत्। कोपाभिभूतः सहसा संतापमशुभं गतः
मनः समीक्षमाणश्च सूतो दशरथस्य च। कम्पयन्निव कैकेय्या हृदयं वाक्शरैः शितैः