तं वर्धयित्वा राजानं पूर्वं सूतो जयाशिषा। भयविक्लवया वाचा मन्दया श्लक्ष्णयाब्रवीत्
अयं स पुरुषव्याघ्रो द्वारि तिष्ठति ते सुतः। ब्राह्मणेभ्यो धनं दत्त्वा सर्वं चैवोपजीविनाम्
स त्वां पश्यतु भद्रं ते रामः सत्यपराक्रमः। सर्वान् सुहृद आपृच्छ्य त्वां हीदानीं दिदृक्षते
गमिष्यति महारण्यं तं पश्य जगतीपते। वृतं राजगुणैः सर्वैरादित्यमिव रश्मिभिः
स सत्यवाक्यो धर्मात्मा गाम्भीर्यात् सागरोपमः। आकाश इव निष्पङ्को नरेन्द्रः प्रत्युवाच तम्
सुमन्त्रानय मे दारान् ये केचिदिह मामकाः। दारैः परिवृतः सर्वैर्द्रष्टुमिच्छामि राघवम्
सोऽन्तःपुरमतीत्यैव स्त्रियस्ता वाक्यमब्रवीत्। आर्यो ह्वयति वो राजा गम्यतां तत्र मा चिरम्
एवमुक्ताः स्त्रियः सर्वाः सुमन्त्रेण नृपाज्ञया। प्रचक्रमुस्तद् भवनं भर्तुराज्ञाय शासनम्
अर्धसप्तशतास्तत्र प्रमदास्ताम्रलोचनाः। कौसल्यां परिवार्याथ शनैर्जग्मुर्धृतव्रताः
आगतेषु च दारेषु समवेक्ष्य महीपतिः। उवाच राजा तं सूतं सुमन्त्रानय मे सुतम्
स सूतो राममादाय लक्ष्मणं मैथिलीं तथा। जगामाभिमुखस्तूर्णं सकाशं जगतीपतेः
स राजा पुत्रमायान्तं दृष्ट्वा चारात् कृताञ्जलिम्। उत्पपातासनात् तूर्णमार्तः स्त्रीजनसंवृतः
सोऽभिदुद्राव वेगेन रामं दृष्ट्वा विशाम्पतिः। तमसम्प्राप्य दुःखार्तः पपात भुवि मूर्च्छितः
तं रामोऽभ्यपतत् क्षिप्रं लक्ष्मणश्च महारथः। विसंज्ञमिव दुःखेन सशोकं नृपतिं तथा
स्त्रीसहस्रनिनादश्च संजज्ञे राजवेश्मनि। हा हा रामेति सहसा भूषणध्वनिमिश्रितः
तं परिष्वज्य बाहुभ्यां तावुभौ रामलक्ष्मणौ। पर्यङ्के सीतया सार्धं रुदन्तः समवेशयन्
अथ रामो मुहूर्तस्य लब्धसंज्ञं महीपतिम्। उवाच प्राञ्जलिर्बाष्पशोकार्णवपरिप्लुतम्
आपृच्छे त्वां महाराज सर्वेषामीश्वरोऽसि नः। प्रस्थितं दण्डकारण्यं पश्य त्वं कुशलेन माम्
लक्ष्मणं चानुजानीहि सीता चान्वेतु मां वनम्। कारणैर्बहुभिस्तथ्यैर्वार्यमाणौ न चेच्छतः
अनुजानीहि सर्वान् नः शोकमुत्सृज्य मानद। लक्ष्मणं मां च सीतां च प्रजापतिरिवात्मजान्
प्रतीक्षमाणमव्यग्रमनुज्ञां जगतीपतेः। उवाच राजा सम्प्रेक्ष्य वनवासाय राघवम्
अहं राघव कैकेय्या वरदानेन मोहितः। अयोध्यायां त्वमेवाद्य भव राजा निगृह्य माम्
एवमुक्तो नृपतिना रामो धर्मभृतां वरः। प्रत्युवाचाञ्जलिं कृत्वा पितरं वाक्यकोविदः
भवान् वर्षसहस्राय पृथिव्या नृपते पतिः। अहं त्वरण्ये वत्स्यामि न मे राज्यस्य कांक्षिता
नव पञ्च च वर्षाणि वनवासे विहृत्य ते। पुनः पादौ ग्रहीष्यामि प्रतिज्ञान्ते नराधिप
रुदन्नार्तः प्रियं पुत्रं सत्यपाशेन संयुतः। कैकेय्या चोद्यमानस्तु मिथो राजा तमब्रवीत्
श्रेयसे वृद्धये तात पुनरागमनाय च। गच्छस्वारिष्टमव्यग्रः पन्थानमकुतोभयम्
न हि सत्यात्मनस्तात धर्माभिमनसस्तव। संनिवर्तयितुं बुद्धिः शक्यते रघुनन्दन
अद्य त्विदानीं रजनीं पुत्र मा गच्छ सर्वथा। एकाहं दर्शनेनापि साधु तावच्चराम्यहम्
दुष्करं क्रियते पुत्र सर्वथा राघव प्रिय। त्वया हि मत्प्रियार्थं तु वनमेवमुपाश्रितम्