आनृशंस्यमनुक्रोशः श्रुतं शीलं दमः शमः। राघवं शोभयन्त्येते षड्गुणाः पुरुषर्षभम्
तस्मात् तस्योपघातेन प्रजाः परमपीडिताः। औदकानीव सत्त्वानि ग्रीष्मे सलिलसंक्षयात्
पीडया पीडितं सर्वं जगदस्य जगत्पतेः। मूलस्येवोपघातेन वृक्षः पुष्पफलोपगः
मूलं ह्येष मनुष्याणां धर्मसारो महाद्युतिः। पुष्पं फलं च पत्रं च शाखाश्चास्येतरे जनाः
ते लक्ष्मण इव क्षिप्रं सपत्न्यः सहबान्धवाः। गच्छन्तमनुगच्छामो येन गच्छति राघवः
उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च। एकदुःखसुखा राममनुगच्छाम धार्मिकम्
समुद्धृतनिधानानि परिध्वस्ताजिराणि च। उपात्तधनधान्यानि हृतसाराणि सर्वशः
रजसाभ्यवकीर्णानि परित्यक्तानि दैवतैः। मूषकैः परिधावद्भिरुद्बिलैरावृतानि च
अपेतोदकधूमानि हीनसम्मार्जनानि च। प्रणष्टबलिकर्मेज्यामन्त्रहोमजपानि च
दुष्कालेनेव भग्नानि भिन्नभाजनवन्ति च। अस्मत्त्यक्तानि कैकेयी वेश्मानि प्रतिपद्यताम्
वनं नगरमेवास्तु येन गच्छति राघवः। अस्माभिश्च परित्यक्तं पुरं सम्पद्यतां वनम्
बिलानि दंष्ट्रिणः सर्वे सानूनि मृगपक्षिणः। त्यजन्त्वस्मद्भयाद्भीता गजाः सिंहा वनान्यपि
अस्मत्त्यक्तं प्रपद्यन्तु सेव्यमानं त्यजन्तु च। तृणमांसफलादानां देशं व्यालमृगद्विजम्
प्रपद्यतां हि कैकेयी सपुत्रा सह बान्धवैः। राघवेण वयं सर्वे वने वत्स्याम निर्वृताः
इत्येवं विविधा वाचो नानाजनसमीरिताः। शुश्राव राघवः श्रुत्वा न विचक्रेऽस्य मानसम्
स तु वेश्म पुनर्मातुः कैलासशिखरप्रभम्। अभिचक्राम धर्मात्मा मत्तमातङ्गविक्रमः
विनीतवीरपुरुषं प्रविश्य तु नृपालयम्। ददर्शावस्थितं दीनं सुमन्त्रमविदूरतः
प्रतीक्षमाणोऽभिजनं तदार्त- मनार्तरूपः प्रहसन्निवाथ। जगाम रामः पितरं दिदृक्षुः पितुर्निदेशं विधिवच्चिकीर्षुः
तत्पूर्वमैक्ष्वाकसुतो महात्मा रामो गमिष्यन् नृपमार्तरूपम्। व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रं पितुर्महात्मा प्रतिहारणार्थम्
पितुर्निदेशेन तु धर्मवत्सलो वनप्रवेशे कृतबुद्धिनिश्चयः। स राघवः प्रेक्ष्य सुमन्त्रमब्रवी- न्निवेदयस्वागमनं नृपाय मे
thumb|चतुस्त्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुस्त्रिंशः सर्गः ॥२-
ततः कमलपत्राक्षः श्यामो निरुपमो महान्। उवाच रामस्तं सूतं पितुराख्याहि मामिति
स रामप्रेषितः क्षिप्रं संतापकलुषेन्द्रियम्। प्रविश्य नृपतिं सूतो निःश्वसन्तं ददर्श ह
उपरक्तमिवादित्यं भस्मच्छन्नमिवानलम्। तटाकमिव निस्तोयमपश्यज्जगतीपतिम्
आबोध्य च महाप्राज्ञः परमाकुलचेतनम्। राममेवानुशोचन्तं सूतः प्राञ्जलिरब्रवीत्
तं वर्धयित्वा राजानं पूर्वं सूतो जयाशिषा। भयविक्लवया वाचा मन्दया श्लक्ष्णयाब्रवीत्
अयं स पुरुषव्याघ्रो द्वारि तिष्ठति ते सुतः। ब्राह्मणेभ्यो धनं दत्त्वा सर्वं चैवोपजीविनाम्
स त्वां पश्यतु भद्रं ते रामः सत्यपराक्रमः। सर्वान् सुहृद आपृच्छ्य त्वां हीदानीं दिदृक्षते
गमिष्यति महारण्यं तं पश्य जगतीपते। वृतं राजगुणैः सर्वैरादित्यमिव रश्मिभिः
स सत्यवाक्यो धर्मात्मा गाम्भीर्यात् सागरोपमः। आकाश इव निष्पङ्को नरेन्द्रः प्रत्युवाच तम्