भृग्वङ्गिरःसमं दीप्त्या त्रिजटं जनसंसदि। आपञ्चमायाः कक्ष्याया नैतं कश्चिदवारयत्
स राममासाद्य तदा त्रिजटो वाक्यमब्रवीत्। निर्धनो बहुपुत्रोऽस्मि राजपुत्र महाबल
क्षतवृत्तिर्वने नित्यं प्रत्यवेक्षस्व मामिति। तमुवाच ततो रामः परिहाससमन्वितम्
गवां सहस्रमप्येकं न च विश्राणितं मया। परिक्षिपसि दण्डेन यावत्तावदवाप्स्यसे
स शाटीं परितः कट्यां सम्भ्रान्तः परिवेष्ट्य ताम्। आविध्य दण्डं चिक्षेप सर्वप्राणेन वेगतः
स तीर्त्वा सरयूपारं दण्डस्तस्य कराच्च्युतः। गोव्रजे बहुसाहस्रे पपातोक्षणसंनिधौ
तं परिष्वज्य धर्मात्मा आ तस्मात् सरयूतटात्। आनयामास ता गावस्त्रिजटस्याश्रमं प्रति
उवाच च तदा रामस्तं गार्ग्यमभिसान्त्वयन्। मन्युर्न खलु कर्तव्यः परिहासो ह्ययं मम
इदं हि तेजस्तव यद् दुरत्ययं तदेव जिज्ञासितुमिच्छता मया। इमं भवानर्थमभिप्रचोदितो वृणीष्व किंचेदपरं व्यवस्यसि
ब्रवीमि सत्येन न ते स्म यन्त्रणां धनं हि यद्यन्मम विप्रकारणात्। भवत्सु सम्यक्प्रतिपादनेन मयार्जितं चैव यशस्करं भवेत्
ततः सभार्यस्त्रिजटो महामुनि- र्गवामनीकं प्रतिगृह्य मोदितः। यशोबलप्रीतिसुखोपबृंहिणी- स्तदाशिषः प्रत्यवदन्महात्मनः
स चापि रामः प्रतिपूर्णपौरुषो महाधनं धर्मबलैरुपार्जितम्। नियोजयामास सुहृज्जने चिराद् यथार्हसम्मानवचः प्रचोदितः
द्विजः सुहृद् भृत्यजनोऽथवा तदा दरिद्रभिक्षाचरणश्च यो भवेत्। न तत्र कश्चिन्न बभूव तर्पितो यथार्हसम्माननदानसम्भ्रमैः
thumb|त्रयस्त्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रयस्त्रिंशः सर्गः ॥२-
दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनं बहु। जग्मतुः पितरं द्रष्टुं सीतया सह राघवौ
ततो गृहीते प्रेष्याभ्यामशोभेतां तदायुधे। मालादामभिरासक्ते सीतया समलंकृते
ततः प्रासादहर्म्याणि विमानशिखराणि च। अभिरुह्य जनः श्रीमानुदासीनो व्यलोकयत्
न हि रथ्याः सुशक्यन्ते गन्तुं बहुजनाकुलाः। आरुह्य तस्मात् प्रासादाद् दीनाः पश्यन्ति राघवम्
पदातिं सानुजं दृष्ट्वा ससीतं च जनास्तदा। ऊचुर्बहुजना वाचः शोकोपहतचेतसः
यं यान्तमनुयाति स्म चतुरङ्गबलं महत्। तमेकं सीतया सार्धमनुयाति स्म लक्ष्मणः
ऐश्वर्यस्य रसज्ञः सन् कामानां चाकरो महान्। नेच्छत्येवानृतं कर्तुं वचनं धर्मगौरवात्
या न शक्या पुरा द्रष्टुं भूतैराकाशगैरपि। तामद्य सीतां पश्यन्ति राजमार्गगता जनाः
अङ्गरागोचितां सीतां रक्तचन्दनसेविनीम्। वर्षमुष्णं च शीतं च नेष्यत्याशु विवर्णताम्
अद्य नूनं दशरथः सत्त्वमाविश्य भाषते। नहि राजा प्रियं पुत्रं विवासयितुमर्हति
निर्गुणस्यापि पुत्रस्य कथं स्याद् विनिवासनम्। किं पुनर्यस्य लोकोऽयं जितो वृत्तेन केवलम्
आनृशंस्यमनुक्रोशः श्रुतं शीलं दमः शमः। राघवं शोभयन्त्येते षड्गुणाः पुरुषर्षभम्
तस्मात् तस्योपघातेन प्रजाः परमपीडिताः। औदकानीव सत्त्वानि ग्रीष्मे सलिलसंक्षयात्
पीडया पीडितं सर्वं जगदस्य जगत्पतेः। मूलस्येवोपघातेन वृक्षः पुष्पफलोपगः
मूलं ह्येष मनुष्याणां धर्मसारो महाद्युतिः। पुष्पं फलं च पत्रं च शाखाश्चास्येतरे जनाः
ते लक्ष्मण इव क्षिप्रं सपत्न्यः सहबान्धवाः। गच्छन्तमनुगच्छामो येन गच्छति राघवः