अथ भ्रातरमव्यग्रं प्रियं रामः प्रियंवदम्। सौमित्रिं तमुवाचेदं ब्रह्मेव त्रिदशेश्वरम्
अगस्त्यं कौशिकं चैव तावुभौ ब्राह्मणोत्तमौ। अर्चयाहूय सौमित्रे रत्नैः सस्यमिवाम्बुभिः
तर्पयस्व महाबाहो गोसहस्रेण राघव। सुवर्णरजतैश्चैव मणिभिश्च महाधनैः
कौसल्यां च य आशीर्भिर्भक्तः पर्युपतिष्ठति। आचार्यस्तैत्तिरीयाणामभिरूपश्च वेदवित्
तस्य यानं च दासीश्च सौमित्रे सम्प्रदापय। कौशेयानि च वस्त्राणि यावत् तुष्यति स द्विजः
सूतश्चित्ररथश्चार्यः सचिवः सुचिरोषितः। तोषयैनं महार्हैश्च रत्नैर्वस्त्रैर्धनैस्तथा
पशुकाभिश्च सर्वाभिर्गवां दशशतेन च। ये चेमे कठकालापा बहवो दण्डमाणवाः
नित्यस्वाध्यायशीलत्वान्नान्यत् कुर्वन्ति किंचन। अलसाः स्वादुकामाश्च महतां चापि सम्मताः
तेषामशीतियानानि रत्नपूर्णानि दापय। शालिवाहसहस्रं च द्वे शते भद्रकांस्तथा
व्यञ्जनार्थं च सौमित्रे गोसहस्रमुपाकुरु। मेखलीनां महासङ्घः कौसल्यां समुपस्थितः। तेषां सहस्रं सौमित्रे प्रत्येकं सम्प्रदापय
अम्बा यथा नो नन्देच्च कौसल्या मम दक्षिणाम्। तथा द्विजातींस्तान् सर्वाल्ँलक्ष्मणार्चय सर्वशः
ततः पुरुषशार्दूलस्तद् धनं लक्ष्मणः स्वयम्। यथोक्तं ब्राह्मणेन्द्राणामददाद् धनदो यथा
अथाब्रवीद् बाष्पगलांस्तिष्ठतश्चोपजीविनः। स प्रदाय बहुद्रव्यमेकैकस्योपजीवनम्
लक्ष्मणस्य च यद् वेश्म गृहं च यदिदं मम। अशून्यं कार्यमेकैकं यावदागमनं मम
इत्युक्त्वा दुःखितं सर्वं जनं तमुपजीविनम्। उवाचेदं धनाध्यक्षं धनमानीयतां मम
ततोऽस्य धनमाजह्रुः सर्व एवोपजीविनः। स राशिः सुमहांस्तत्र दर्शनीयो ह्यदृश्यत
ततः स पुरुषव्याघ्रस्तद् धनं सहलक्ष्मणः। द्विजेभ्यो बालवृद्धेभ्यः कृपणेभ्यो ह्यदापयत्
तत्रासीत् पिङ्गलो गार्ग्यस्त्रिजटो नाम वै द्विजः। क्षतवृत्तिर्वने नित्यं फालकुद्दाललाङ्गली
तं वृद्धं तरुणी भार्या बालानादाय दारकान्। अब्रवीद् ब्राह्मणं वाक्यं स्त्रीणां भर्ता हि देवता
अपास्य फालं कुद्दालं कुरुष्व वचनं मम। रामं दर्शय धर्मज्ञं यदि किंचिदवाप्स्यसि
भृग्वङ्गिरःसमं दीप्त्या त्रिजटं जनसंसदि। आपञ्चमायाः कक्ष्याया नैतं कश्चिदवारयत्
स राममासाद्य तदा त्रिजटो वाक्यमब्रवीत्। निर्धनो बहुपुत्रोऽस्मि राजपुत्र महाबल
क्षतवृत्तिर्वने नित्यं प्रत्यवेक्षस्व मामिति। तमुवाच ततो रामः परिहाससमन्वितम्
गवां सहस्रमप्येकं न च विश्राणितं मया। परिक्षिपसि दण्डेन यावत्तावदवाप्स्यसे
स शाटीं परितः कट्यां सम्भ्रान्तः परिवेष्ट्य ताम्। आविध्य दण्डं चिक्षेप सर्वप्राणेन वेगतः
स तीर्त्वा सरयूपारं दण्डस्तस्य कराच्च्युतः। गोव्रजे बहुसाहस्रे पपातोक्षणसंनिधौ
तं परिष्वज्य धर्मात्मा आ तस्मात् सरयूतटात्। आनयामास ता गावस्त्रिजटस्याश्रमं प्रति
उवाच च तदा रामस्तं गार्ग्यमभिसान्त्वयन्। मन्युर्न खलु कर्तव्यः परिहासो ह्ययं मम
इदं हि तेजस्तव यद् दुरत्ययं तदेव जिज्ञासितुमिच्छता मया। इमं भवानर्थमभिप्रचोदितो वृणीष्व किंचेदपरं व्यवस्यसि
ब्रवीमि सत्येन न ते स्म यन्त्रणां धनं हि यद्यन्मम विप्रकारणात्। भवत्सु सम्यक्प्रतिपादनेन मयार्जितं चैव यशस्करं भवेत्