रामस्त्वनेन वाक्येन सुप्रीतः प्रत्युवाच तम्। व्रजापृच्छस्व सौमित्रे सर्वमेव सुहृज्जनम्
ये च राज्ञो ददौ दिव्ये महात्मा वरुणः स्वयम्। जनकस्य महायज्ञे धनुषी रौद्रदर्शने
अभेद्ये कवचे दिव्ये तूणी चाक्षय्यसायकौ। आदित्यविमलाभौ द्वौ खड्गौ हेमपरिष्कृतौ
स सुहृज्जनमामन्त्र्य वनवासाय निश्चितः। इक्ष्वाकुगुरुमागम्य जग्राहायुधमुत्तमम्
तद् दिव्यं राजशार्दूलः सत्कृतं माल्यभूषितम्। रामाय दर्शयामास सौमित्रिः सर्वमायुधम्
तमुवाचात्मवान् रामः प्रीत्या लक्ष्मणमागतम्। काले त्वमागतः सौम्य कांक्षिते मम लक्ष्मण
अहं प्रदातुमिच्छामि यदिदं मामकं धनम्। ब्राह्मणेभ्यस्तपस्विभ्यस्त्वया सह परंतप
वसन्तीह दृढं भक्त्या गुरुषु द्विजसत्तमाः। तेषामपि च मे भूयः सर्वेषां चोपजीविनाम्
वसिष्ठपुत्रं तु सुयज्ञमार्यं त्वमानयाशु प्रवरं द्विजानाम्। अपि प्रयास्यामि वनं समस्ता- नभ्यर्च्य शिष्टानपरान् द्विजातीन्
thumb|द्वात्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्वात्रिंशः सर्गः ॥२-
ततः शासनमाज्ञाय भ्रातुः प्रियकरं हितम्। गत्वा स प्रविवेशाशु सुयज्ञस्य निवेशनम्
तं विप्रमग्न्यगारस्थं वन्दित्वा लक्ष्मणोऽब्रवीत्। सखेऽभ्यागच्छ पश्य त्वं वेश्म दुष्करकारिणः
ततः संध्यामुपास्थाय गत्वा सौमित्रिणा सह। ऋद्धं स प्राविशल्लक्ष्म्या रम्यं रामनिवेशनम्
जातरूपमयैर्मुख्यैरङ्गदैः कुण्डलैः शुभैः। सहेमसूत्रैर्मणिभिः केयूरैर्वलयैरपि
अन्यैश्च रत्नैर्बहुभिः काकुत्स्थः प्रत्यपूजयत्। सुयज्ञं स तदोवाच रामः सीताप्रचोदितः
हारं च हेमसूत्रं च भार्यायै सौम्य हारय। रशनां चाथ सा सीता दातुमिच्छति ते सखी
अङ्गदानि च चित्राणि केयूराणि शुभानि च। प्रयच्छति सखी तुभ्यं भार्यायै गच्छती वनम्
पर्यङ्कमग्र्यास्तरणं नानारत्नविभूषितम्। तमपीच्छति वैदेही प्रतिष्ठापयितुं त्वयि
नागः शत्रुंजयो नाम मातुलोऽयं ददौ मम। तं ते निष्कसहस्रेण ददामि द्विजपुङ्गव
इत्युक्तः स तु रामेण सुयज्ञः प्रतिगृह्य तत्। रामलक्ष्मणसीतानां प्रयुयोजाशिषः शिवाः
अथ भ्रातरमव्यग्रं प्रियं रामः प्रियंवदम्। सौमित्रिं तमुवाचेदं ब्रह्मेव त्रिदशेश्वरम्
अगस्त्यं कौशिकं चैव तावुभौ ब्राह्मणोत्तमौ। अर्चयाहूय सौमित्रे रत्नैः सस्यमिवाम्बुभिः
तर्पयस्व महाबाहो गोसहस्रेण राघव। सुवर्णरजतैश्चैव मणिभिश्च महाधनैः
कौसल्यां च य आशीर्भिर्भक्तः पर्युपतिष्ठति। आचार्यस्तैत्तिरीयाणामभिरूपश्च वेदवित्
तस्य यानं च दासीश्च सौमित्रे सम्प्रदापय। कौशेयानि च वस्त्राणि यावत् तुष्यति स द्विजः
सूतश्चित्ररथश्चार्यः सचिवः सुचिरोषितः। तोषयैनं महार्हैश्च रत्नैर्वस्त्रैर्धनैस्तथा
पशुकाभिश्च सर्वाभिर्गवां दशशतेन च। ये चेमे कठकालापा बहवो दण्डमाणवाः
नित्यस्वाध्यायशीलत्वान्नान्यत् कुर्वन्ति किंचन। अलसाः स्वादुकामाश्च महतां चापि सम्मताः
तेषामशीतियानानि रत्नपूर्णानि दापय। शालिवाहसहस्रं च द्वे शते भद्रकांस्तथा
व्यञ्जनार्थं च सौमित्रे गोसहस्रमुपाकुरु। मेखलीनां महासङ्घः कौसल्यां समुपस्थितः। तेषां सहस्रं सौमित्रे प्रत्येकं सम्प्रदापय