यदर्थं प्रतिषेधो मे क्रियते गन्तुमिच्छतः। एतदिच्छामि विज्ञातुं संशयो हि ममानघ
ततोऽब्रवीन्महातेजा रामो लक्ष्मणमग्रतः। स्थितं प्राग्गामिनं धीरं याचमानं कृताञ्जलिम्
स्निग्धो धर्मरतो धीरः सततं सत्पथे स्थितः। प्रियः प्राणसमो वश्यो विजेयश्च सखा च मे
मयाद्य सह सौमित्रे त्वयि गच्छति तद्वनम्। को भजिष्यति कौसल्यां सुमित्रां वा यशस्विनीम्
अभिवर्षति कामैर्यः पर्जन्यः पृथिवीमिव। स कामपाशपर्यस्तो महातेजा महीपतिः
सा हि राज्यमिदं प्राप्य नृपस्याश्वपतेः सुता। दुःखितानां सपत्नीनां न करिष्यति शोभनम्
न भरिष्यति कौसल्यां सुमित्रां च सुदुःखिताम्। भरतो राज्यमासाद्य कैकेय्यां पर्यवस्थितः
तामार्यां स्वयमेवेह राजानुग्रहणेन वा। सौमित्रे भर कौसल्यामुक्तमर्थममुं चर
एवं मयि च ते भक्तिर्भविष्यति सुदर्शिता। धर्मज्ञगुरुपूजायां धर्मश्चाप्यतुलो महान्
एवं कुरुष्व सौमित्रे मत्कृते रघुनन्दन। अस्माभिर्विप्रहीणाया मातुर्नो न भवेत् सुखम्
एवमुक्तस्तु रामेण लक्ष्मणः श्लक्ष्णया गिरा। प्रत्युवाच तदा रामं वाक्यज्ञो वाक्यकोविदम्
तवैव तेजसा वीर भरतः पूजयिष्यति। कौसल्यां च सुमित्रां च प्रयतो नास्ति संशयः
यदि दुःस्थो न रक्षेत भरतो राज्यमुत्तमम्। प्राप्य दुर्मनसा वीर गर्वेण च विशेषतः
तमहं दुर्मतिं क्रूरं वधिष्यामि न संशयः। तत्पक्षानपि तान् सर्वांस्त्रैलोक्यमपि किं तु सा
कौसल्या बिभृयादार्या सहस्रं मद्विधानपि। यस्याः सहस्रं ग्रामाणां सम्प्राप्तमुपजीविनाम्
तदात्मभरणे चैव मम मातुस्तथैव च। पर्याप्ता मद्विधानां च भरणाय मनस्विनी
कुरुष्व मामनुचरं वैधर्म्यं नेह विद्यते। कृतार्थोऽहं भविष्यामि तव चार्थः प्रकल्प्यते
धनुरादाय सगुणं खनित्रपिटकाधरः। अग्रतस्ते गमिष्यामि पन्थानं तव दर्शयन्
आहरिष्यामि ते नित्यं मूलानि च फलानि च। वन्यानि च तथान्यानि स्वाहार्हाणि तपस्विनाम्
भवांस्तु सह वैदेह्या गिरिसानुषु रंस्यसे। अहं सर्वं करिष्यामि जाग्रतः स्वपतश्च ते
रामस्त्वनेन वाक्येन सुप्रीतः प्रत्युवाच तम्। व्रजापृच्छस्व सौमित्रे सर्वमेव सुहृज्जनम्
ये च राज्ञो ददौ दिव्ये महात्मा वरुणः स्वयम्। जनकस्य महायज्ञे धनुषी रौद्रदर्शने
अभेद्ये कवचे दिव्ये तूणी चाक्षय्यसायकौ। आदित्यविमलाभौ द्वौ खड्गौ हेमपरिष्कृतौ
स सुहृज्जनमामन्त्र्य वनवासाय निश्चितः। इक्ष्वाकुगुरुमागम्य जग्राहायुधमुत्तमम्
तद् दिव्यं राजशार्दूलः सत्कृतं माल्यभूषितम्। रामाय दर्शयामास सौमित्रिः सर्वमायुधम्
तमुवाचात्मवान् रामः प्रीत्या लक्ष्मणमागतम्। काले त्वमागतः सौम्य कांक्षिते मम लक्ष्मण
अहं प्रदातुमिच्छामि यदिदं मामकं धनम्। ब्राह्मणेभ्यस्तपस्विभ्यस्त्वया सह परंतप
वसन्तीह दृढं भक्त्या गुरुषु द्विजसत्तमाः। तेषामपि च मे भूयः सर्वेषां चोपजीविनाम्
वसिष्ठपुत्रं तु सुयज्ञमार्यं त्वमानयाशु प्रवरं द्विजानाम्। अपि प्रयास्यामि वनं समस्ता- नभ्यर्च्य शिष्टानपरान् द्विजातीन्
thumb|द्वात्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्वात्रिंशः सर्गः ॥२-