अनुकूलं तु सा भर्तुर्ज्ञात्वा गमनमात्मनः। क्षिप्रं प्रमुदिता देवी दातुमेव प्रचक्रमे
ततः प्रहृष्टा प्रतिपूर्णमानसा यशस्विनी भर्तुरवेक्ष्य भाषितम्। धनानि रत्नानि च दातुमङ्गना प्रचक्रमे धर्मभृतां मनस्विनी
thumb|एकत्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकत्रिंशः सर्गः ॥२-
एवं श्रुत्वा स संवादं लक्ष्मणः पूर्वमागतः। बाष्पपर्याकुलमुखः शोकं सोढुमशक्नुवन्
स भ्रातुश्चरणौ गाढं निपीड्य रघुनन्दनः। सीतामुवाचातियशां राघवं च महाव्रतम्
यदि गन्तुं कृता बुद्धिर्वनं मृगगजायुतम्। अहं त्वानुगमिष्यामि वनमग्रे धनुर्धरः
मया समेतोऽरण्यानि रम्याणि विचरिष्यसि। पक्षिभिर्मृगयूथैश्च संघुष्टानि समन्ततः
न देवलोकाक्रमणं नामरत्वमहं वृणे। ऐश्वर्यं चापि लोकानां कामये न त्वया विना
एवं ब्रुवाणः सौमित्रिर्वनवासाय निश्चितः। रामेण बहुभिः सान्त्वैर्निषिद्धः पुनरब्रवीत्
अनुज्ञातस्तु भवता पूर्वमेव यदस्म्यहम्। किमिदानीं पुनरपि क्रियते मे निवारणम्
यदर्थं प्रतिषेधो मे क्रियते गन्तुमिच्छतः। एतदिच्छामि विज्ञातुं संशयो हि ममानघ
ततोऽब्रवीन्महातेजा रामो लक्ष्मणमग्रतः। स्थितं प्राग्गामिनं धीरं याचमानं कृताञ्जलिम्
स्निग्धो धर्मरतो धीरः सततं सत्पथे स्थितः। प्रियः प्राणसमो वश्यो विजेयश्च सखा च मे
मयाद्य सह सौमित्रे त्वयि गच्छति तद्वनम्। को भजिष्यति कौसल्यां सुमित्रां वा यशस्विनीम्
अभिवर्षति कामैर्यः पर्जन्यः पृथिवीमिव। स कामपाशपर्यस्तो महातेजा महीपतिः
सा हि राज्यमिदं प्राप्य नृपस्याश्वपतेः सुता। दुःखितानां सपत्नीनां न करिष्यति शोभनम्
न भरिष्यति कौसल्यां सुमित्रां च सुदुःखिताम्। भरतो राज्यमासाद्य कैकेय्यां पर्यवस्थितः
तामार्यां स्वयमेवेह राजानुग्रहणेन वा। सौमित्रे भर कौसल्यामुक्तमर्थममुं चर
एवं मयि च ते भक्तिर्भविष्यति सुदर्शिता। धर्मज्ञगुरुपूजायां धर्मश्चाप्यतुलो महान्
एवं कुरुष्व सौमित्रे मत्कृते रघुनन्दन। अस्माभिर्विप्रहीणाया मातुर्नो न भवेत् सुखम्
एवमुक्तस्तु रामेण लक्ष्मणः श्लक्ष्णया गिरा। प्रत्युवाच तदा रामं वाक्यज्ञो वाक्यकोविदम्
तवैव तेजसा वीर भरतः पूजयिष्यति। कौसल्यां च सुमित्रां च प्रयतो नास्ति संशयः
यदि दुःस्थो न रक्षेत भरतो राज्यमुत्तमम्। प्राप्य दुर्मनसा वीर गर्वेण च विशेषतः
तमहं दुर्मतिं क्रूरं वधिष्यामि न संशयः। तत्पक्षानपि तान् सर्वांस्त्रैलोक्यमपि किं तु सा
कौसल्या बिभृयादार्या सहस्रं मद्विधानपि। यस्याः सहस्रं ग्रामाणां सम्प्राप्तमुपजीविनाम्
तदात्मभरणे चैव मम मातुस्तथैव च। पर्याप्ता मद्विधानां च भरणाय मनस्विनी
कुरुष्व मामनुचरं वैधर्म्यं नेह विद्यते। कृतार्थोऽहं भविष्यामि तव चार्थः प्रकल्प्यते
धनुरादाय सगुणं खनित्रपिटकाधरः। अग्रतस्ते गमिष्यामि पन्थानं तव दर्शयन्
आहरिष्यामि ते नित्यं मूलानि च फलानि च। वन्यानि च तथान्यानि स्वाहार्हाणि तपस्विनाम्
भवांस्तु सह वैदेह्या गिरिसानुषु रंस्यसे। अहं सर्वं करिष्यामि जाग्रतः स्वपतश्च ते