पत्रं मूलं फलं यत्तु अल्पं वा यदि वा बहु। दास्यसे स्वयमाहृत्य तन्मेऽमृतरसोपमम्
न मातुर्न पितुस्तत्र स्मरिष्यामि न वेश्मनः। आर्तवान्युपभुञ्जाना पुष्पाणि च फलानि च
न च तत्र ततः किंचिद् द्रष्टुमर्हसि विप्रियम्। मत्कृते न च ते शोको न भविष्यामि दुर्भरा
यस्त्वया सह स स्वर्गो निरयो यस्त्वया विना। इति जानन् परां प्रीतिं गच्छ राम मया सह
अथ मामेवमव्यग्रां वनं नैव नयिष्यसे। विषमद्यैव पास्यामि मा वशं द्विषतां गमम्
पश्चादपि हि दुःखेन मम नैवास्ति जीवितम्। उज्झितायास्त्वया नाथ तदैव मरणं वरम्
इमं हि सहितुं शोकं मुहूर्तमपि नोत्सहे। किं पुनर्दश वर्षाणि त्रीणि चैकं च दुःखिता
इति सा शोकसंतप्ता विलप्य करुणं बहु। चुक्रोश पतिमायस्ता भृशमालिङ्ग्य सस्वरम्
सा विद्धा बहुभिर्वाक्यैर्दिग्धैरिव गजाङ्गना। चिरसंनियतं बाष्पं मुमोचाग्निमिवारणिः
तस्याः स्फटिकसंकाशं वारि संतापसम्भवम्। नेत्राभ्यां परिसुस्राव पङ्कजाभ्यामिवोदकम्
तत्सितामलचन्द्राभं मुखमायतलोचनम्। पर्यशुष्यत बाष्पेण जलोद्धृतमिवाम्बुजम्
तां परिष्वज्य बाहुभ्यां विसंज्ञामिव दुःखिताम्। उवाच वचनं रामः परिविश्वासयंस्तदा
न देवि बत दुःखेन स्वर्गमप्यभिरोचये। नहि मेऽस्ति भयं किंचित् स्वयम्भोरिव सर्वतः
तव सर्वमभिप्रायमविज्ञाय शुभानने। वासं न रोचयेऽरण्ये शक्तिमानपि रक्षणे
यत् सृष्टासि मया सार्धं वनवासाय मैथिलि। न विहातुं मया शक्या प्रीतिरात्मवता यथा
न खल्वहं न गच्छेयं वनं जनकनन्दिनि। वचनं तन्नयति मां पितुः सत्योपबृंहितम्
एष धर्मश्च सुश्रोणि पितुर्मातुश्च वश्यता। आज्ञां चाहं व्यतिक्रम्य नाहं जीवितुमुत्सहे
अस्वाधीनं कथं दैवं प्रकारैरभिराध्यते। स्वाधीनं समतिक्रम्य मातरं पितरं गुरुम्
यत्र त्रयं त्रयो लोकाः पवित्रं तत्समं भुवि। नान्यदस्ति शुभापाङ्गे तेनेदमभिराध्यते
न सत्यं दानमानौ वा यज्ञो वाप्याप्तदक्षिणाः। तथा बलकराः सीते यथा सेवा पितुर्मता
स्वर्गो धनं वा धान्यं वा विद्या पुत्राः सुखानि च। गुरुवृत्त्यनुरोधेन न किंचिदपि दुर्लभम्
देवगन्धर्वगोलोकान् ब्रह्मलोकांस्तथापरान्। प्राप्नुवन्ति महात्मानो मातापितृपरायणाः
स मा पिता यथा शास्ति सत्यधर्मपथे स्थितः। तथा वर्तितुमिच्छामि स हि धर्मः सनातनः
मम सन्ना मतिः सीते नेतुं त्वां दण्डकावनम्। वसिष्यामीति सा त्वं मामनुयातुं सुनिश्चिता
सा हि दिष्टानवद्याङ्गि वनाय मदिरेक्षणे। अनुगच्छस्व मां भीरु सहधर्मचरी भव
सर्वथा सदृशं सीते मम स्वस्य कुलस्य च। व्यवसायमनुक्रान्ता कान्ते त्वमतिशोभनम्
आरभस्व शुभश्रोणि वनवासक्षमाः क्रियाः। नेदानीं त्वदृते सीते स्वर्गोऽपि मम रोचते
ब्राह्मणेभ्यश्च रत्नानि भिक्षुकेभ्यश्च भोजनम्। देहि चाशंसमानेभ्यः संत्वरस्व च मा चिरम्
भूषणानि महार्हाणि वरवस्त्राणि यानि च। रमणीयाश्च ये केचित् क्रीडार्थाश्चाप्युपस्कराः
शयनीयानि यानानि मम चान्यानि यानि च। देहि स्वभृत्यवर्गस्य ब्राह्मणानामनन्तरम्