कृतादेशा भविष्यामि गमिष्यामि त्वया सह। कालश्चायं समुत्पन्नः सत्यवान् भवतु द्विजः
वनवासे हि जानामि दुःखानि बहुधा किल। प्राप्यन्ते नियतं वीर पुरुषैरकृतात्मभिः
कन्यया च पितुर्गेहे वनवासः श्रुतो मया। भिक्षिण्याः शमवृत्ताया मम मातुरिहाग्रतः
प्रसादितश्च वै पूर्वं त्वं मे बहुतिथं प्रभो। गमनं वनवासस्य कांक्षितं हि सह त्वया
कृतक्षणाहं भद्रं ते गमनं प्रति राघव। वनवासस्य शूरस्य मम चर्या हि रोचते
शुद्धात्मन् प्रेमभावाद्धि भविष्यामि विकल्मषा। भर्तारमनुगच्छन्ती भर्ता हि परदैवतम्
प्रेत्यभावे हि कल्याणः संगमो मे सदा त्वया। श्रुतिर्हि श्रूयते पुण्या ब्राह्मणानां यशस्विनाम्
इहलोके च पितृभिर्या स्त्री यस्य महाबल। अद्भिर्दत्ता स्वधर्मेण प्रेत्यभावेऽपि तस्य सा
एवमस्मात् स्वकां नारीं सुवृत्तां हि पतिव्रताम्। नाभिरोचयसे नेतुं त्वं मां केनेह हेतुना
भक्तां पतिव्रतां दीनां मां समां सुखदुःखयोः। नेतुमर्हसि काकुत्स्थ समानसुखदुःखिनीम्
यदि मां दुःखितामेवं वनं नेतुं न चेच्छसि। विषमग्निं जलं वाहमास्थास्ये मृत्युकारणात्
एवं बहुविधं तं सा याचते गमनं प्रति। नानुमेने महाबाहुस्तां नेतुं विजनं वनम्
एवमुक्ता तु सा चिन्तां मैथिली समुपागता। स्नापयन्तीव गामुष्णैरश्रुभिर्नयनच्युतैः
चिन्तयन्तीं तदा तां तु निवर्तयितुमात्मवान्। क्रोधाविष्टां तु वैदेहीं काकुत्स्थो बह्वसान्त्वयत्
thumb|त्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रिंशः सर्गः ॥२-
सान्त्व्यमाना तु रामेण मैथिली जनकात्मजा। वनवासनिमित्तार्थं भर्तारमिदमब्रवीत्
सा तमुत्तमसंविग्ना सीता विपुलवक्षसम्। प्रणयाच्चाभिमानाच्च परिचिक्षेप राघवम्
किं त्वामन्यत वैदेहः पिता मे मिथिलाधिपः। राम जामातरं प्राप्य स्त्रियं पुरुषविग्रहम्
अनृतं बत लोकोऽयमज्ञानाद् यदि वक्ष्यति। तेजो नास्ति परं रामे तपतीव दिवाकरे
किं हि कृत्वा विषण्णस्त्वं कुतो वा भयमस्ति ते। यत् परित्यक्तुकामस्त्वं मामनन्यपरायणाम्
द्युमत्सेनसुतं वीरं सत्यवन्तमनुव्रताम्। सावित्रीमिव मां विद्धि त्वमात्मवशवर्तिनीम्
न त्वहं मनसा त्वन्यं द्रष्टास्मि त्वदृतेऽनघ। त्वया राघव गच्छेयं यथान्या कुलपांसनी
स्वयं तु भार्यां कौमारीं चिरमध्युषितां सतीम्। शैलूष इव मां राम परेभ्यो दातुमिच्छसि
यस्य पथ्यंचरामात्थ यस्य चार्थेऽवरुध्यसे। त्वं तस्य भव वश्यश्च विधेयश्च सदानघ
स मामनादाय वनं न त्वं प्रस्थितुमर्हसि। तपो वा यदि वारण्यं स्वर्गो वा स्यात् त्वया सह
न च मे भविता तत्र कश्चित् पथि परिश्रमः। पृष्ठतस्तव गच्छन्त्या विहारशयनेष्विव
कुशकाशशरेषीका ये च कण्टकिनो द्रुमाः। तूलाजिनसमस्पर्शा मार्गे मम सह त्वया
महावातसमुद्भूतं यन्मामवकरिष्यति। रजो रमण तन्मन्ये परार्घ्यमिव चन्दनम्
शाद्वलेषु यदा शिश्ये वनान्तर्वनगोचरा। कुथास्तरणयुक्तेषु किं स्यात् सुखतरं ततः
पत्रं मूलं फलं यत्तु अल्पं वा यदि वा बहु। दास्यसे स्वयमाहृत्य तन्मेऽमृतरसोपमम्